Bhagavatatatparyanirnaya/C10/S72: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 13: | Line 13: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C10_S72_V11 | | verse_id = BTN_C10_S72_V11 | ||
| id = BTN_C10_S72_V11_B1 | | id = BTN_C10_S72_V11_B1 | ||
| text = | | text = | ||
अम्मयाद्यभिमानिन्यो देवताः उरुकालेनैव पुनन्ति, गुरूपदेशं प्रापयित्वा॥ ११ ॥ | अम्मयाद्यभिमानिन्यो देवताः उरुकालेनैव पुनन्ति, गुरूपदेशं प्रापयित्वा॥ ११ ॥ | ||
| Line 38: | Line 37: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C10_S72_V13 | | verse_id = BTN_C10_S72_V13 | ||
| id = BTN_C10_S72_V13_B1 | | id = BTN_C10_S72_V13_B1 | ||
| text = | | text = | ||
भेदकृतः अन्यथाज्ञानिनः । विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञानमेवाप-गमयन्ति ॥ | भेदकृतः अन्यथाज्ञानिनः । विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञानमेवाप-गमयन्ति ॥ | ||
| Line 82: | Line 80: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C10_S72_V19 | | verse_id = BTN_C10_S72_V19 | ||
| id = BTN_C10_S72_V19_author-note | | id = BTN_C10_S72_V19_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विसप्ततितमोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विसप्ततितमोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C10_S72_V19 | | verse_id = BTN_C10_S72_V19 | ||
| id = BTN_C10_S72_V19_B1 | | id = BTN_C10_S72_V19_B1 | ||
| text = | | text = | ||
हृदयं प्रियं हृद्ययनात् ॥ | हृदयं प्रियं हृद्ययनात् ॥ | ||
Revision as of 09:02, 10 April 2026
'प्राकृतैः दृश्यमानन्तु न द्रवं तीर्थमुच्यते । देवाश्च न शिलामात्राः किन्तु तत्रान्तरस्थिताः ॥ गुरूपदेशेन विना न ते दृश्याः कथञ्चन ॥ न ज्ञायते च तद्रूपं अन्यथाज्ञानिनां च ते ॥ कोपाच्छापं प्रयच्छान्ति तस्माद्गरुमुपाव्रजेत् । तस्मात्तीर्थानि देवाश्च नित्यं विद्वत्सु संस्थिताः ॥इति गारुडे ॥ 'भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता । वस्तुयाथात्म्यतस्तस्य भिन्नत्वादिति सूरिभिः ॥ अन्यथाज्ञानमेवातो भेदज्ञानं विनिन्दितम् । न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित् ॥ शिला देव इति ज्ञानं देवोऽस्मीति तु या दृशिः । उत्तमस्याधमत्वेन नीचास्योच्चतया दृशिः ॥ असमस्य समत्वेन समस्यासमदर्शनम् । द्रवं तीर्थमिति ज्ञानं देहोऽहमिति या मतिः ॥ असद्भार्यादिषु स्वीयदर्शनं चैवमादिकम् । भेदज्ञानमिति प्रोक्तं या चान्याप्यन्यथामतिः ॥ तस्मात्तदपहानाय संसेव्याः गुरुवो वराः । तत्रस्थाः देवताः सर्वाः प्रीयन्ते गुरुपूजया । नैवान्यथैषां प्रीतिः स्याद्गुरूक्तिमपहाय तु ॥ तस्मात्पूजाविशेषेण सतां कार्या नृणां सदा ॥ भक्तिस्तु तारतम्येन विशिष्टेष्वधिका भवेत् ॥ "इति स्कान्दे ॥ 'उत्तमा अपि देवेशाः अवरान् विदुषो नृणाम् । पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः ॥ तेषु स्थित्वा स्वयं पूजां गृह्णन्त्यनुपमां सदा । ज्ञानानि च प्रयच्छन्ति तस्मादेवंविदा सदा ॥
पूजिताः स्युः सुरवराः सब्रह्माणः सकेशवाः ॥ "इति वामने ॥ १२-१३ ॥