Bhagavatatatparyanirnaya/C3/S12: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 14: | Line 14: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V01 | | verse_id = BTN_C03_S12_V01 | ||
| id = BTN_C03_S12_V01_B1 | | id = BTN_C03_S12_V01_B1 | ||
| text = | | text = | ||
कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति । | कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति । | ||
| Line 40: | Line 39: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V02 | | verse_id = BTN_C03_S12_V02 | ||
| id = BTN_C03_S12_V02_B1 | | id = BTN_C03_S12_V02_B1 | ||
| text = | | text = | ||
कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य । | कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य । | ||
| Line 92: | Line 90: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V04 | | verse_id = BTN_C03_S12_V04 | ||
| id = BTN_C03_S12_V04_B1 | | id = BTN_C03_S12_V04_B1 | ||
| text = | | text = | ||
अनुमितः शास्त्रलोकानुसारेण ज्ञातः । | अनुमितः शास्त्रलोकानुसारेण ज्ञातः । | ||
| Line 129: | Line 126: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V05 | | verse_id = BTN_C03_S12_V05 | ||
| id = BTN_C03_S12_V05_B1 | | id = BTN_C03_S12_V05_B1 | ||
| text = | | text = | ||
अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥ | अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥ | ||
| Line 147: | Line 143: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V08 | | verse_id = BTN_C03_S12_V08 | ||
| id = BTN_C03_S12_V08_B1 | | id = BTN_C03_S12_V08_B1 | ||
| text = | | text = | ||
राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥ | राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥ | ||
| Line 165: | Line 160: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V09 | | verse_id = BTN_C03_S12_V09 | ||
| id = BTN_C03_S12_V09_B1 | | id = BTN_C03_S12_V09_B1 | ||
| text = | | text = | ||
काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते । | काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते । | ||
| Line 193: | Line 187: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V10 | | verse_id = BTN_C03_S12_V10 | ||
| id = BTN_C03_S12_V10_B1 | | id = BTN_C03_S12_V10_B1 | ||
| text = | | text = | ||
यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे''। इत्यभिधानम् ॥१०॥ | यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे''। इत्यभिधानम् ॥१०॥ | ||
| Line 220: | Line 213: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V14 | | verse_id = BTN_C03_S12_V14 | ||
| id = BTN_C03_S12_V14_B1 | | id = BTN_C03_S12_V14_B1 | ||
| text = | | text = | ||
'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः । | 'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः । | ||
| Line 247: | Line 239: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V15 | | verse_id = BTN_C03_S12_V15 | ||
| id = BTN_C03_S12_V15_B1 | | id = BTN_C03_S12_V15_B1 | ||
| text = | | text = | ||
अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः । | अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः । | ||
| Line 267: | Line 258: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V23 | | verse_id = BTN_C03_S12_V23 | ||
| id = BTN_C03_S12_V23_B1 | | id = BTN_C03_S12_V23_B1 | ||
| text = | | text = | ||
दिनस्थो भगवान्भोक्ता ॥ २३ ॥ | दिनस्थो भगवान्भोक्ता ॥ २३ ॥ | ||
| Line 286: | Line 276: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V24 | | verse_id = BTN_C03_S12_V24 | ||
| id = BTN_C03_S12_V24_B1 | | id = BTN_C03_S12_V24_B1 | ||
| text = | | text = | ||
'युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् । | 'युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् । | ||
| Line 308: | Line 297: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V27 | | verse_id = BTN_C03_S12_V27 | ||
| id = BTN_C03_S12_V27_B1 | | id = BTN_C03_S12_V27_B1 | ||
| text = | | text = | ||
'ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि''। इति ब्राह्मे ॥ २७ ॥ | 'ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि''। इति ब्राह्मे ॥ २७ ॥ | ||
| Line 326: | Line 314: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V32 | | verse_id = BTN_C03_S12_V32 | ||
| id = BTN_C03_S12_V32_B1 | | id = BTN_C03_S12_V32_B1 | ||
| text = | | text = | ||
अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥ | अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥ | ||
| Line 344: | Line 331: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V37 | | verse_id = BTN_C03_S12_V37 | ||
| id = BTN_C03_S12_V37_B1 | | id = BTN_C03_S12_V37_B1 | ||
| text = | | text = | ||
'नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते । | 'नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते । | ||
| Line 363: | Line 349: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V38 | | verse_id = BTN_C03_S12_V38 | ||
| id = BTN_C03_S12_V38_B1 | | id = BTN_C03_S12_V38_B1 | ||
| text = | | text = | ||
'यमः कालो मानुषाणां तस्य कालः सुदर्शनः । | 'यमः कालो मानुषाणां तस्य कालः सुदर्शनः । | ||
| Line 396: | Line 381: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V40 | | verse_id = BTN_C03_S12_V40 | ||
| id = BTN_C03_S12_V40_B1 | | id = BTN_C03_S12_V40_B1 | ||
| text = | | text = | ||
'दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु । | 'दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु । | ||
| Line 425: | Line 409: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V41 | | verse_id = BTN_C03_S12_V41 | ||
| id = BTN_C03_S12_V41_author-note | | id = BTN_C03_S12_V41_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वादशोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वादशोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S12_V41 | | verse_id = BTN_C03_S12_V41 | ||
| id = BTN_C03_S12_V41_B1 | | id = BTN_C03_S12_V41_B1 | ||
| text = | | text = | ||
धाम गृहम् अण्डराशयः ॥ ४१ ॥ | धाम गृहम् अण्डराशयः ॥ ४१ ॥ | ||
Revision as of 09:00, 10 April 2026
'मनुष्या देवलोकेऽपि विशेषेणैव दर्शने । अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः ॥ चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा । परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् ॥ अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात् । ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि । अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता॥ इति तत्त्वविवेके ।
अनेकांशैरासमन्ताद्युतः ॥ १ ॥
'मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते । अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत्॥ इति ब्रह्मतर्के । यद्वेव समः प्लुषिणेत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्व-मित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् । 'कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥ गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥ परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव च ॥ गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि ॥ न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते । तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः ॥ तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते । यत्तस्य व्यापकं रूपं परं नारायणाभिधम् ॥ शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः । परमः पुरुषो नाम मितं तद्देशतो विभोः ॥ तृतीयं वासुदेवाख्यं जगदावरकं मितम् । देशतो जगदाविष्टं तुरीयं विष्णुनामकम्॥ इति ब्रह्मतर्के ॥ सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्ति-कान्तर्भावात्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् । 'देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् । उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः ।
महदादिगतं यत्तु तदन्यगतमुच्यते॥ इति ब्राह्मे ॥ २ ॥
'अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्। इत्यभिधानम् ॥ 'यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् । महाप्राज्ञो देवजूकः स कालः परमाणुकः ॥ सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि ॥ तथैव परमाण्वादिविशेषात्मापि नो भवेत् । पूर्वापरादिभेदो न स कालः परमो महान् ॥इति ब्रह्मतर्के ॥ स्वरूपावस्थितस्य कैवल्यमविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि । 'देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः । यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः ॥ तथाशब्दस्य कालस्य देशानन्त्यं न कालतः । कालशब्दात्मिका सैव तथापि तु हरेः सदा ॥ नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि । ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः ॥ अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥इति ब्रह्मवैवर्ते ॥ 'अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः । अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते॥ इति च ॥ सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदाभावात् । 'सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत् ।
स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः॥ इति ब्रह्मतर्के ॥ ३-४ ॥
कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम् ॥ चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये । यावत्स्यात्परिणाहेन तावद्वारं विधीयते ॥ प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले । भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति ॥ अतिशैत्ये कलङ्के च नाद्येनैव तु पूरणम् । तस्माद्वसन्तकाले तु प्रयागस्थोदकेन तु । नाडीशुद्धिपरीक्षा स्यादन्यथा न समं भवेत्॥ इति पाद्मे ॥ 'निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा ।
प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव तु॥ इति ब्रह्माण्डे ॥ ९ ॥
तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥ वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये । गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः ॥ सौरद्वादशके मासे यः स्थः संवत्सरो हरिः । एवं स कालनामाऽपि कालस्थः परमेश्वरः॥ इति ब्रह्मतर्के ॥ 'सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः ।
सततं गमनाद्वापि कालस्थस्य महात्मनः॥ इति च ॥ १३-१४ ॥
'भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये ।
बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिः॥ इति तन्त्रप्रकाशिकायाम् ॥ १५ ॥
वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम् ॥ शतानां प्रलयश्चैव पञ्चोत्तरमथापि च । आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम् ।
वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेत्॥ इति महावाराहे ॥२४॥
तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु ॥ सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी । संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता ॥ तस्या नियामको विष्णुः परः कालः स उच्यते । कालाभिमानिनी सैव प्रभुर्न जगदीशितुः ॥
तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥इति च ॥ ३८ ॥
विकारा इति विज्ञेया भूताहंमहतः परे॥ इति च ॥ 'पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः । सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः । अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः॥ इति च । अन्तर्गताः शरीराणि । 'शरीराणां बहुत्वेन अतीतानागतैस्तथा । अस्यैव देवकायेषु प्रतिप्रति च दर्शनात् । विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥इति ब्रह्मतर्के । 'एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् । ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथक्॥ इति ब्रह्माण्डे ॥
'बृहदण्डमभूदेकम्इति च भारते ॥ ३९,४० ॥