Bhagavatatatparyanirnaya/C3/S4: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 32: | Line 32: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S04_V05 | | verse_id = BTN_C03_S04_V05 | ||
| id = BTN_C03_S04_V05_B1 | | id = BTN_C03_S04_V05_B1 | ||
| text = | | text = | ||
आत्ममायायाः आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य । | आत्ममायायाः आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य । | ||
| Line 70: | Line 69: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S04_V29 | | verse_id = BTN_C03_S04_V29 | ||
| id = BTN_C03_S04_V29_B1 | | id = BTN_C03_S04_V29_B1 | ||
| text = | | text = | ||
आकृतिं पृथिवीम् । | आकृतिं पृथिवीम् । | ||
| Line 95: | Line 93: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S04_V31 | | verse_id = BTN_C03_S04_V31 | ||
| id = BTN_C03_S04_V31_author-note | | id = BTN_C03_S04_V31_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्थोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्थोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = BTN_C03_S04_V31 | | verse_id = BTN_C03_S04_V31 | ||
| id = BTN_C03_S04_V31_B1 | | id = BTN_C03_S04_V31_B1 | ||
| text = | | text = | ||
'उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा । | 'उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा । | ||
Revision as of 09:00, 10 April 2026
उद्धव उवाच–भगवानात्ममायाया गतिं तामवलोक्य सः ।
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
अथापि तदभिप््रोतं जानन्नहमरिंदम ।पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
आत्ममायायाः आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य ।
'ज्ञात्वा कतिपयैर्वर्षैः पूर्वमेव जनार्दनः । मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत् ॥ स ज्ञानं तत्र विस्तीर्य पुनर्द्वारवतीं ययौ । पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः ॥ स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम् । पुनः श्रुत्वा बदर्यां तु वर्षत्रयमुवास ह ॥
ज्ञानं संस्थाप्य पश्चाच्च स्वेच्छया स्वर्गतः प्रभुः॥ इति गारुडे ॥५॥राजोवाच–निधनमुपगतेषु वृष्णिभोजे-
शुक उवाच–ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।
आकृतिं पृथिवीम् ।
'शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथा॥ इत्यभिधानम् । 'पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः । नित्यानन्दस्वरूपत्वादन्यन्नैवोपलभ्यते ॥ दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम् । नटवद्भगवान्विष्णुः परज्ञानाकृतिस्स्वयम्॥ इति स्कान्धे । 'राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवैहि यथा नटस्य।
इति च ॥ २९ ॥नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः ।अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्थोऽध्यायः ॥
'उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा ।
उच्यतेऽपि तु नीचानां मोहार्थं वाप्युपेक्षया । मूढदृष्ट्यनुसाराद्वा किञ्चित्साम्येन वा क्वचित्॥
इति ब्रह्मतर्के ॥ ३१ ॥