Jump to content

Chandogya/C5: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 49: Line 49:
| id      = CHU_C04_V01_B01
| id      = CHU_C04_V01_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
यः श्रेष्ठं ज्येष्ठमखिलदेवानां वायुमञ्जसा ।
यः श्रेष्ठं ज्येष्ठमखिलदेवानां वायुमञ्जसा ।
            वेद स स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः ॥
वेद स स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः ॥
            समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात् ।
समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात् ।
            एकस्थाने स्थितिस्तु स्यात् प्रतिष्ठाज्ञस्य चेच्छतः ॥
एकस्थाने स्थितिस्तु स्यात् प्रतिष्ठाज्ञस्य चेच्छतः ॥
            सम्पद्वेत्तुस्सम्पदः स्युर्गृहं चायतनं विदः ।
सम्पद्वेत्तुस्सम्पदः स्युर्गृहं चायतनं विदः ।
}}
}}


Line 143: Line 142:
| id      = CHU_C04_V02_B01
| id      = CHU_C04_V02_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
ज्येष्ठः श्रेष्ठो वसिष्ठश्च सम्पदायतनं तथा ॥
ज्येष्ठः श्रेष्ठो वसिष्ठश्च सम्पदायतनं तथा ॥
            वायुरेव महांस्तस्य प्रसादादग्निरेव तु ।
वायुरेव महांस्तस्य प्रसादादग्निरेव तु ।
            उपचारतो वसिष्ठः स्यात् प्रतिष्ठैवं रविस्ततः ॥
उपचारतो वसिष्ठः स्यात् प्रतिष्ठैवं रविस्ततः ॥
            सम्पदिन्द्रस्तथैवोक्तो रुद्र आयतनं तथा ॥ इति प्रभावे ॥
सम्पदिन्द्रस्तथैवोक्तो रुद्र आयतनं तथा ॥ इति प्रभावे ॥
            सर्वेन्द्रियाणां व्यापारान् प्राण एव करोत्ययम् ।
सर्वेन्द्रियाणां व्यापारान् प्राण एव करोत्ययम् ।
            इन्द्रियस्थः पृथक्चासौ शक्तोऽपि स्वयमेव तु ॥
इन्द्रियस्थः पृथक्चासौ शक्तोऽपि स्वयमेव तु ॥
           
षण्मासात् पूर्वबालानां केवलप्राणतो भवेत् ।
            षण्मासात् पूर्वबालानां केवलप्राणतो भवेत् ।
व्यापार्यं मनसा सर्वमतः पश्चादसंस्मृतिः ॥
            व्यापार्यं मनसा सर्वमतः पश्चादसंस्मृतिः ॥
तुरीयायामवस्थायां प्राणादेव विबोधनम् ।
            तुरीयायामवस्थायां प्राणादेव विबोधनम् ।
तथापि संस्मृतिस्तत्र प्राणवश्यतया भवेत् ॥
            तथापि संस्मृतिस्तत्र प्राणवश्यतया भवेत् ॥
प्राणस्य वश्यतानाम तद्भक्त्या स्यात् तत्प्रसादतः ।
            प्राणस्य वश्यतानाम तद्भक्त्या स्यात् तत्प्रसादतः ।
प्राणे वश्ये मनो वश्यमिन्द्रियाणि च सर्वशः ॥ इति च ।
            प्राणे वश्ये मनो वश्यमिन्द्रियाणि च सर्वशः ॥ इति च ।
}}
}}


Line 173: Line 170:
| id      = CHU_C05_V03_B01
| id      = CHU_C05_V03_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अक्षेषु प्रति प्रति स्थितत्वादनः प्रत्यक्षम् ।
अक्षेषु प्रति प्रति स्थितत्वादनः प्रत्यक्षम् ।
           
प्राणविज्ञानयोग्यस्तु रुद्रो मुख्यतया स्मृतः ।
            प्राणविज्ञानयोग्यस्तु रुद्रो मुख्यतया स्मृतः ।
तस्मात् स सर्वभोक्ता स्यात् तदन्येषां स्वयोग्यतः ॥ इति च ।
            तस्मात् स सर्वभोक्ता स्यात् तदन्येषां स्वयोग्यतः ॥ इति च ।
}}
}}


Line 194: Line 189:
| id      = CHU_C05_V05_B01
| id      = CHU_C05_V05_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतः सदा ।
सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतः सदा ।
            स्वार्थं समर्पयेद्विष्णौ यथा प्राणे सुराः पुरा ॥
स्वार्थं समर्पयेद्विष्णौ यथा प्राणे सुराः पुरा ॥
            इति कर्मानुपूर्व्याम् ।
इति कर्मानुपूर्व्याम् ।
            प्राणस्य वस्त्रबुद्ध्या तु भोजनोभयतः पिबन् ।
प्राणस्य वस्त्रबुद्ध्या तु भोजनोभयतः पिबन् ।
            स्वर्गे मुक्तौ तथा दिव्यवस्त्रलाभी भवत्यलम् ॥ इति प्रभञ्जने ।
स्वर्गे मुक्तौ तथा दिव्यवस्त्रलाभी भवत्यलम् ॥ इति प्रभञ्जने ।
}}
}}


Line 216: Line 210:
| id      = CHU_C05_V06_B01
| id      = CHU_C05_V06_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
योग्यस्य प्राणविद्यायां स्थाणोरपि हि तच्छ्रुतेः ।
योग्यस्य प्राणविद्यायां स्थाणोरपि हि तच्छ्रुतेः ।
            पलाशाद्यं भवेदत्र परतो मुक्तिरेव च ॥
पलाशाद्यं भवेदत्र परतो मुक्तिरेव च ॥
            विष्णोर्ज्ञानमनुप्राप्य भवेन्नास्त्यत्र संशयः ॥
विष्णोर्ज्ञानमनुप्राप्य भवेन्नास्त्यत्र संशयः ॥
            इति प्राणसंहितायाम् ।
इति प्राणसंहितायाम् ।
}}
}}


Line 245: Line 238:
| id      = CHU_C04_V07_B01
| id      = CHU_C04_V07_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
ज्येष्ठश्रेष्ठादिकैर्हुत्वा प्राणायात्र परत्र च ।
ज्येष्ठश्रेष्ठादिकैर्हुत्वा प्राणायात्र परत्र च ।
            ज्येष्ठः श्रेष्ठः समानेभ्यो भवेन्नात्र विचारणा ॥ इति च ।
ज्येष्ठः श्रेष्ठः समानेभ्यो भवेन्नात्र विचारणा ॥ इति च ।
}}
}}


Line 288: Line 280:
| id      = CHU_C04_V08_B01
| id      = CHU_C04_V08_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
सवितुर्जगत्प्रसवितुर्विष्णोः सकाशाद्वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे । भगस्य समग्रैश्वर्यादिसर्वगुणस्वरूपस्य विष्णोः । पुरुषं तुरं वायुं श्रेष्ठं सर्वधातॄणां उत्तमं च धीमहि ।
सवितुर्जगत्प्रसवितुर्विष्णोः सकाशाद्वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे । भगस्य समग्रैश्वर्यादिसर्वगुणस्वरूपस्य विष्णोः । पुरुषं तुरं वायुं श्रेष्ठं सर्वधातॄणां उत्तमं च धीमहि ।
            नारायणीयं तं वायुं चिन्तयित्वोत्तमोत्तमम् ।
नारायणीयं तं वायुं चिन्तयित्वोत्तमोत्तमम् ।
            जगत्प्रसवितुर्विष्णोः सकाशाद्भोगमाप्नुमः ॥ इति च ॥ १२ ॥
जगत्प्रसवितुर्विष्णोः सकाशाद्भोगमाप्नुमः ॥ इति च ॥ १२ ॥
}}
}}


Line 452: Line 443:
| id      = CHU_C05_V09_B01
| id      = CHU_C05_V09_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः ।
नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः ।
            अदनादङ्गनेतृत्वान्नितरामचलत्वतः ॥
अदनादङ्गनेतृत्वान्नितरामचलत्वतः ॥
            समेधनात् समिद्विष्णुर्द्धूत्काराद्धूम उच्यते ।
समेधनात् समिद्विष्णुर्द्धूत्काराद्धूम उच्यते ।
            अरञ्चितत्वादर्चिश्च सोऽङ्गारोऽङ्गरतेरपि ॥
अरञ्चितत्वादर्चिश्च सोऽङ्गारोऽङ्गरतेरपि ॥
            विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरितः ।
विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरितः ।
            पुनर्नारायणाद्यात्मा प्रत्येकं पञ्चरूपवान् ॥
पुनर्नारायणाद्यात्मा प्रत्येकं पञ्चरूपवान् ॥
            आदित्यस्स तथाऽऽदानाद् रश्मिः स रतिरूपतः ।
आदित्यस्स तथाऽऽदानाद् रश्मिः स रतिरूपतः ।
            तमसाऽहननीयत्वादहश्चन्द्रः परं सुखम् ॥
तमसाऽहननीयत्वादहश्चन्द्रः परं सुखम् ॥
            अनन्यराजो नक्षत्रं वायुर्ज्ञानायुरूपतः ।
अनन्यराजो नक्षत्रं वायुर्ज्ञानायुरूपतः ।
            अभ्रमब्भरणाद्विष्णुर्विद्युद्विद्योतनादपि ॥
अभ्रमब्भरणाद्विष्णुर्विद्युद्विद्योतनादपि ॥
            अशनादशनिश्चैव निर्हादाद् ह्रादुनिस्तथा ।
अशनादशनिश्चैव निर्हादाद् ह्रादुनिस्तथा ।
            संवत्सरो वासनाच्च स आकाशः प्रकाशनात् ॥
संवत्सरो वासनाच्च स आकाशः प्रकाशनात् ॥
            रात्रिश्च रतिदानात् स दिशतीति दिशः स्मृतः ।
रात्रिश्च रतिदानात् स दिशतीति दिशः स्मृतः ।
            अवान्तरं दिशेद्यस्मादवान्तरदिगुच्यते ॥
अवान्तरं दिशेद्यस्मादवान्तरदिगुच्यते ॥
            वचनाद् वाक् तथा प्राणस्त्वननाच्चक्षुरुच्यते ।
वचनाद् वाक् तथा प्राणस्त्वननाच्चक्षुरुच्यते ।
            दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वा वै होमतः स्मृतः ॥
दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वा वै होमतः स्मृतः ॥
            उपस्थितेरुपस्थः स उपमन्त्रकृदेव सः ।
उपस्थितेरुपस्थः स उपमन्त्रकृदेव सः ।
            योनिर्युनक्ति यस्मात् स सर्वान्तःकृच्च नन्दनः ॥
योनिर्युनक्ति यस्मात् स सर्वान्तःकृच्च नन्दनः ॥
            असौ लोकः प्रकाशत्वात् प्राणस्थत्वाच्च केशवः ।
असौ लोकः प्रकाशत्वात् प्राणस्थत्वाच्च केशवः ।
            पर्जन्यो जनको यस्मात् पृथिवी प्रथितत्वतः ॥
पर्जन्यो जनको यस्मात् पृथिवी प्रथितत्वतः ॥
            पुरुषः पुरु यस्मात् स योषा जोष्यो यतोऽखिलैः ॥
पुरुषः पुरु यस्मात् स योषा जोष्यो यतोऽखिलैः ॥
            इति सामसंहितायाम् ।
इति सामसंहितायाम् ।
}}
}}


Line 531: Line 521:
| id      = CHU_C05_V10_B01
| id      = CHU_C05_V10_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अभ्रधूमादिभावस्तु जीवस्याभ्रादिसंस्थितिः ।
अभ्रधूमादिभावस्तु जीवस्याभ्रादिसंस्थितिः ।
            अभ्रादिमानिरूपं तु ज्ञानप्राप्यं यतो भवेत् ॥ इति च ।
अभ्रादिमानिरूपं तु ज्ञानप्राप्यं यतो भवेत् ॥ इति च ।
}}
}}


Line 574: Line 563:
| id      = CHU_C05_V10_B01
| id      = CHU_C05_V10_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
परमस्य जन्यमिति पर्जन्यः ।
परमस्य जन्यमिति पर्जन्यः ।
            पञ्च पञ्च स्वरूपेण सूर्यादौ संस्थितो हरिः ।
पञ्च पञ्च स्वरूपेण सूर्यादौ संस्थितो हरिः ।
            स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे ॥
स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे ॥
            इति च ॥ ३१० ॥
इति च ॥ ३१० ॥
}}
}}


Line 595: Line 583:
| id      = CHU_C05_V11_B01
| id      = CHU_C05_V11_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्रत्यब्दयज्ञकृत्सम्यङ्महाशालः प्रकीर्तितः ।
प्रत्यब्दयज्ञकृत्सम्यङ्महाशालः प्रकीर्तितः ।
            वेदवेदार्थवित् सम्यङ्महाश्रोत्रिय उच्यते ॥
वेदवेदार्थवित् सम्यङ्महाश्रोत्रिय उच्यते ॥
}}
}}


Line 670: Line 657:
| id      = CHU_C05_V12_B01
| id      = CHU_C05_V12_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
क्रीडात्मकत्वाद्व्याख्यं च सुतेजाश्चातितेजसा ।
क्रीडात्मकत्वाद्व्याख्यं च सुतेजाश्चातितेजसा ।
            स्वर्गाधारं शिरो विष्णोः .................
स्वर्गाधारं शिरो विष्णोः .................
}}
}}


Line 697: Line 683:
| id      = CHU_C05_V16_B01
| id      = CHU_C05_V16_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
................. सर्वरूपातिदार्शनात् ॥
................. सर्वरूपातिदार्शनात् ॥
            चक्षुस्तु विश्वरूपाख्यमादानादयुषामपि ।
चक्षुस्तु विश्वरूपाख्यमादानादयुषामपि ।
            आदित्याख्यं च सूर्यस्याप्याश्रयं सर्वदा स्मृतम् ॥
आदित्याख्यं च सूर्यस्याप्याश्रयं सर्वदा स्मृतम् ॥
}}
}}


Line 725: Line 710:
| id      = CHU_C05_V17_B01
| id      = CHU_C05_V17_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
वाय्वादिप्राणशक्यं न यत्तत्कर्ता हरेर्यतः ।
वाय्वादिप्राणशक्यं न यत्तत्कर्ता हरेर्यतः ।
            प्राणस्तेन पृथग्वर्त्मा वायुर्ज्ञानायुरूपतः ॥
प्राणस्तेन पृथग्वर्त्मा वायुर्ज्ञानायुरूपतः ॥
            वायोरप्याश्रयो नित्यं .................
वायोरप्याश्रयो नित्यं .................
}}
}}


Line 753: Line 737:
| id      = CHU_C05_V18_B01
| id      = CHU_C05_V18_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
................. बहुत्वाद्बहुलः स्मृतः ।
................. बहुत्वाद्बहुलः स्मृतः ।
            आकाशनामा चादीप्तेर्मध्यदेहो रमापतेः ॥
आकाशनामा चादीप्तेर्मध्यदेहो रमापतेः ॥
}}
}}


Line 780: Line 763:
| id      = CHU_C05_V19_B01
| id      = CHU_C05_V19_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
व्याप्तत्वादाप इत्युक्तो रयी रतिकरत्वतः ।
व्याप्तत्वादाप इत्युक्तो रयी रतिकरत्वतः ।
            वस्तिराकाशवायोश्च तावाधारौ प्रकीर्तितौ ॥
वस्तिराकाशवायोश्च तावाधारौ प्रकीर्तितौ ॥
}}
}}


Line 807: Line 789:
| id      = CHU_C05_V20_B01
| id      = CHU_C05_V20_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्रथनात् पृथिवीनामा प्रतिष्ठा च प्रतिष्ठितेः ।
प्रथनात् पृथिवीनामा प्रतिष्ठा च प्रतिष्ठितेः ।
            पादौ भगवतो विष्णोः पृथिव्याश्रय एव च ॥
पादौ भगवतो विष्णोः पृथिव्याश्रय एव च ॥
            उत्तमानां हि पादेन सर्वं रूपं हि कथ्यते ।
उत्तमानां हि पादेन सर्वं रूपं हि कथ्यते ।
            विष्णोः पदमिति ह्यस्मात् प्रथितिर्वैदिकी स्मृता ॥
विष्णोः पदमिति ह्यस्मात् प्रथितिर्वैदिकी स्मृता ॥
}}
}}


Line 852: Line 833:
| id      = CHU_C05_V21_B01
| id      = CHU_C05_V21_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
प्राणश्चक्षुस्तथादित्य इत्येका देवता स्मृता ।
प्राणश्चक्षुस्तथादित्य इत्येका देवता स्मृता ।
            पूर्वद्वारपतिर्विष्णोः ....................
पूर्वद्वारपतिर्विष्णोः ....................
}}
}}


Line 879: Line 859:
| id      = CHU_C05_V22_B01
| id      = CHU_C05_V22_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
................. व्यानः श्रोत्रं च चन्द्रमाः ॥
................. व्यानः श्रोत्रं च चन्द्रमाः ॥
            दक्षिणद्वारपस्त्वेकः .........................
दक्षिणद्वारपस्त्वेकः .........................
}}
}}


Line 906: Line 885:
| id      = CHU_C05_V23_B01
| id      = CHU_C05_V23_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
................. वागपानोऽग्निरेव च ।
................. वागपानोऽग्निरेव च ।
            पश्चिमद्वारपोऽप्येकः .................
पश्चिमद्वारपोऽप्येकः .................
}}
}}


Line 933: Line 911:
| id      = CHU_C05_V24_B01
| id      = CHU_C05_V24_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
................. समानो मन एव च ॥
................. समानो मन एव च ॥
            इन्द्र इत्येक एवोक्त उत्तरद्वाररक्षकः ।
इन्द्र इत्येक एवोक्त उत्तरद्वाररक्षकः ।
}}
}}


Line 960: Line 937:
| id      = CHU_C05_V25_B01
| id      = CHU_C05_V25_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
उदानो वायुरित्येक ऊर्ध्वद्वाराधिपश्च सः ॥
उदानो वायुरित्येक ऊर्ध्वद्वाराधिपश्च सः ॥
            स एवाकाशनामा च लक्ष्म्याविष्टो विशेषतः ।
स एवाकाशनामा च लक्ष्म्याविष्टो विशेषतः ।
            पृथिवीनामिका श्रीस्तु द्यौर्दिशो विद्युदेव च ॥
पृथिवीनामिका श्रीस्तु द्यौर्दिशो विद्युदेव च ॥
            वायुपत्नी समुद्दिष्टा तत्तद्द्वाराधिपाश्च ते ।
वायुपत्नी समुद्दिष्टा तत्तद्द्वाराधिपाश्च ते ।
            अधितिष्ठन्ति ते सर्वे नारायणमनामयम् ॥
अधितिष्ठन्ति ते सर्वे नारायणमनामयम् ॥
            यद्विष्णुर्ज्ञानरूपत्वात् किमानन्दस्वरूपतः ।
यद्विष्णुर्ज्ञानरूपत्वात् किमानन्दस्वरूपतः ।
            एतेषु तृप्तेषु हरिस्तृप्यत्येषां प्रियो ह्यसौ ॥
एतेषु तृप्तेषु हरिस्तृप्यत्येषां प्रियो ह्यसौ ॥
            सूर्यप्रसादात्तु नराः पूर्वद्वारेण केशवम् ।
सूर्यप्रसादात्तु नराः पूर्वद्वारेण केशवम् ।
            प्राप्नुवन्त्यथ सोमस्य प्रसादात् पितरस्तथा ॥
प्राप्नुवन्त्यथ सोमस्य प्रसादात् पितरस्तथा ॥
            द्वारेण दक्षिणेनैव गन्धर्वाः पश्चिमेन तु ।
द्वारेण दक्षिणेनैव गन्धर्वाः पश्चिमेन तु ।
            अग्निप्रसादादृषय उत्तरेणेन्द्रसंश्रयात् ॥
अग्निप्रसादादृषय उत्तरेणेन्द्रसंश्रयात् ॥
            शिवाद्या वायुमाश्रित्य यान्त्यूर्ध्वेण हरिं सुराः ।
शिवाद्या वायुमाश्रित्य यान्त्यूर्ध्वेण हरिं सुराः ।
            वैश्वानराख्यविष्णोस्तु सम्यग्ज्ञानेन सर्वशः ॥
वैश्वानराख्यविष्णोस्तु सम्यग्ज्ञानेन सर्वशः ॥
}}
}}


Line 1,022: Line 998:
| id      = CHU_C05_V26_B01
| id      = CHU_C05_V26_B01
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
वैश्वानरज्ञानयोग्याः साक्षादेव सुराः स्मृताः ।तस्मात् तेषां फलं सर्वमन्येषां तु स्वयोग्यतः ॥इति वैश्वानरविद्यायाम् ।को न आत्मा किं ब्रह्म सोयमात्मा चतुष्पाद् स्थूलभुग्वैश्वानरः प्रथमः पादः ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः इत्यादेश्च वैश्वानरो विष्णुरिति सिद्धम् । स वायुः स आकाशः वायुश्चाकाशश्चाधितिष्ठतः इति वचनाद्वायो रूपमन्याधिष्ठितमाकाशाख्यं वायोः स्वरूपमिति विज्ञायते ।आकाशनामा विघ्नेशो वायुश्चाकाशकः स्मृतः ।आकाश इति लक्ष्मीश्च तथाऽऽकाशो हरिः स्वयम् ॥इति शब्दनिर्णये ।सुतेजोविश्वरूपादिभेदेनाङ्गानि मापतेः ।अभिन्नान्यपि कथ्यन्ते लोकदृष्टिविभेदतः ॥ इति च ॥॥  इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः
वैश्वानरज्ञानयोग्याः साक्षादेव सुराः स्मृताः
तस्मात् तेषां फलं सर्वमन्येषां तु स्वयोग्यतः
इति वैश्वानरविद्यायाम्
को न आत्मा किं ब्रह्म सोयमात्मा चतुष्पाद् स्थूलभुग्वैश्वानरः प्रथमः पादः ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः इत्यादेश्च वैश्वानरो विष्णुरिति सिद्धम् । स वायुः स आकाशः वायुश्चाकाशश्चाधितिष्ठतः इति वचनाद्वायो रूपमन्याधिष्ठितमाकाशाख्यं वायोः स्वरूपमिति विज्ञायते
आकाशनामा विघ्नेशो वायुश्चाकाशकः स्मृतः
आकाश इति लक्ष्मीश्च तथाऽऽकाशो हरिः स्वयम्
इति शब्दनिर्णये
सुतेजोविश्वरूपादिभेदेनाङ्गानि मापतेः
अभिन्नान्यपि कथ्यन्ते लोकदृष्टिविभेदतः ॥ इति च ॥
}}
}}




[[Category:Chandogya]]
[[Category:Chandogya]]

Revision as of 16:50, 9 April 2026

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥


यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ २ ॥


यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च चक्षुर्वाव प्रतिष्ठा ॥ ३ ॥


यो ह वै सम्पदं वेद सर्वं हास्मै कामाः सम्पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ४ ॥


यो ह वा आयतनं वेदायतनं ह स्वानां भवति मनो ह वा आयतनम् ॥ ५ ॥


यः श्रेष्ठं ज्येष्ठमखिलदेवानां वायुमञ्जसा ।

वेद स स्वसमानानां ज्येष्ठः श्रेष्ठो विमुक्तिगः ॥ समीपे वसतां श्रेष्ठो वसिष्ठस्यैव वेदनात् । एकस्थाने स्थितिस्तु स्यात् प्रतिष्ठाज्ञस्य चेच्छतः ॥

सम्पद्वेत्तुस्सम्पदः स्युर्गृहं चायतनं विदः ।
अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ६ ॥


ते ह प्रजापतिं पितरमेत्योचुर्भगवन् को नः श्रेष्ठ इति तान् होवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥


सा च वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा अकला अवदन्तो प्राणन्तः प्राणेन पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥


चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा अन्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥


श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिराः अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥


मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ११ ॥


अथ ह प्राणः उच्चिक्रमिषन् स यथा सुहयः पट्वीशशङ्कून् सङ्खिदेदेवमितरान् प्राणान् समाखिदत् तं ह अभिसमेत्योेचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥


अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठाऽस्मि त्वं तत्प्रतिष्ठोऽसीति ॥ १३ ॥


अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥


न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥ १ ॥


ज्येष्ठः श्रेष्ठो वसिष्ठश्च सम्पदायतनं तथा ॥

वायुरेव महांस्तस्य प्रसादादग्निरेव तु । उपचारतो वसिष्ठः स्यात् प्रतिष्ठैवं रविस्ततः ॥ सम्पदिन्द्रस्तथैवोक्तो रुद्र आयतनं तथा ॥ इति प्रभावे ॥ सर्वेन्द्रियाणां व्यापारान् प्राण एव करोत्ययम् । इन्द्रियस्थः पृथक्चासौ शक्तोऽपि स्वयमेव तु ॥ षण्मासात् पूर्वबालानां केवलप्राणतो भवेत् । व्यापार्यं मनसा सर्वमतः पश्चादसंस्मृतिः ॥ तुरीयायामवस्थायां प्राणादेव विबोधनम् । तथापि संस्मृतिस्तत्र प्राणवश्यतया भवेत् ॥ प्राणस्य वश्यतानाम तद्भक्त्या स्यात् तत्प्रसादतः ।

प्राणे वश्ये मनो वश्यमिन्द्रियाणि च सर्वशः ॥ इति च ।
स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदं आश्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥


अक्षेषु प्रति प्रति स्थितत्वादनः प्रत्यक्षम् ।

प्राणविज्ञानयोग्यस्तु रुद्रो मुख्यतया स्मृतः ।

तस्मात् स सर्वभोक्ता स्यात् तदन्येषां स्वयोग्यतः ॥ इति च ।
स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चादि्भः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ २ ॥


सिद्धमेवान्नवस्त्राद्यं विष्णोः स्वातन्त्र्यतः सदा ।

स्वार्थं समर्पयेद्विष्णौ यथा प्राणे सुराः पुरा ॥ इति कर्मानुपूर्व्याम् । प्राणस्य वस्त्रबुद्ध्या तु भोजनोभयतः पिबन् ।

स्वर्गे मुक्तौ तथा दिव्यवस्त्रलाभी भवत्यलम् ॥ इति प्रभञ्जने ।
तद्धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येतच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ३ ॥


योग्यस्य प्राणविद्यायां स्थाणोरपि हि तच्छ्रुतेः ।

पलाशाद्यं भवेदत्र परतो मुक्तिरेव च ॥ विष्णोर्ज्ञानमनुप्राप्य भवेन्नास्त्यत्र संशयः ॥

इति प्राणसंहितायाम् ।
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ४ ॥


वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमनयेदायतनाय स्वाहेत्यग्नावाज्यास्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५ ॥


ज्येष्ठश्रेष्ठादिकैर्हुत्वा प्राणायात्र परत्र च । ज्येष्ठः श्रेष्ठः समानेभ्यो भवेन्नात्र विचारणा ॥ इति च ।
अथ प्रतिसृप्याजलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठं श्रैष्ठं राज्यमाधिपत्यं गमयत्यहमेवेदं सर्वमसानीति ॥ ६ ॥


अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् ॥ ७ ॥


तदेष श्लोकः–


यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृदि्धं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्न निदर्शन इति ॥ ८ ॥


सवितुर्जगत्प्रसवितुर्विष्णोः सकाशाद्वयं भोजनं रक्षां सर्वभोगांश्च वृणीमहे । भगस्य समग्रैश्वर्यादिसर्वगुणस्वरूपस्य विष्णोः । पुरुषं तुरं वायुं श्रेष्ठं सर्वधातॄणां उत्तमं च धीमहि ।

नारायणीयं तं वायुं चिन्तयित्वोत्तमोत्तमम् ।

जगत्प्रसवितुर्विष्णोः सकाशाद्भोगमाप्नुमः ॥ इति च ॥ १२ ॥
श्वेतकेतुर्ह आरुणेयः पञ्चालानां समितिमेयाय तं ह प्रवाहणो जैबलिरुवाच कुमारानु त्वाऽशिषत् पितेत्यनु हि भगव इति ॥ १ ॥


वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति । वेत्थ यथा पुनरावर्तन्ता३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥ २ ॥


वेत्थ यथाऽसौ लोको न सम्पूर्यता३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति नैव भगव इति ॥३॥


अथ नु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात् कथं सोऽनुशिष्टो ब्रवीतेति स हाऽऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति ॥ ४ ॥


पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् तेषां नैकञ्च नाशकं विवक्तुमिति स होवाच यथा मा त्वं ततैतानवदो यथाऽहमेषां नैकञ्च न वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥


स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवान् गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन् मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति ॥ ६ ॥


स ह कृच्छ्री बभूव तं ह चिरं वसेत्याज्ञापयाञ्चकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ ३ ॥


असौ वाव लोको गौतमाग्निः तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिः चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गाः ॥ १ ॥


तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥ ४ ॥


पर्जन्यो वा गौतमाग्निः तस्य वायुरेव समिदभं्र धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः ॥ १ ॥


तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेः वर्षः सम्भवति ॥ २ ॥ ५ ॥


पृथिवी वाव गौतमाग्निः तस्य संवत्सर एव समित् आकाशो धूमो रात्रिरर्चिर्दिशो अङ्गारा अवान्तरदिशो विष्फुलिङ्गाः ॥ १ ॥


तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेः अन्नं सम्भवति ॥ २ ॥ ६ ॥


पुरुषो वाव गौतमाग्निः तस्य वागेव समित् प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः ॥ १ ॥


तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुतेः रेतः सम्भवति ॥ २ ॥ ७ ॥


योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विष्फुलिङ्गाः ॥ १ ॥


तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेः गर्भः सम्भवति ॥ २ ॥ ८ ॥


इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १ ॥


स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥ ९ ॥


नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः ।

अदनादङ्गनेतृत्वान्नितरामचलत्वतः ॥ समेधनात् समिद्विष्णुर्द्धूत्काराद्धूम उच्यते । अरञ्चितत्वादर्चिश्च सोऽङ्गारोऽङ्गरतेरपि ॥ विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरितः । पुनर्नारायणाद्यात्मा प्रत्येकं पञ्चरूपवान् ॥ आदित्यस्स तथाऽऽदानाद् रश्मिः स रतिरूपतः । तमसाऽहननीयत्वादहश्चन्द्रः परं सुखम् ॥ अनन्यराजो नक्षत्रं वायुर्ज्ञानायुरूपतः । अभ्रमब्भरणाद्विष्णुर्विद्युद्विद्योतनादपि ॥ अशनादशनिश्चैव निर्हादाद् ह्रादुनिस्तथा । संवत्सरो वासनाच्च स आकाशः प्रकाशनात् ॥ रात्रिश्च रतिदानात् स दिशतीति दिशः स्मृतः । अवान्तरं दिशेद्यस्मादवान्तरदिगुच्यते ॥ वचनाद् वाक् तथा प्राणस्त्वननाच्चक्षुरुच्यते । दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वा वै होमतः स्मृतः ॥ उपस्थितेरुपस्थः स उपमन्त्रकृदेव सः । योनिर्युनक्ति यस्मात् स सर्वान्तःकृच्च नन्दनः ॥ असौ लोकः प्रकाशत्वात् प्राणस्थत्वाच्च केशवः । पर्जन्यो जनको यस्मात् पृथिवी प्रथितत्वतः ॥ पुरुषः पुरु यस्मात् स योषा जोष्यो यतोऽखिलैः ॥

इति सामसंहितायाम् ।
तद्य इत्थं विदुर्ये चेमे अरण्ये श्रद्धा तप इत्युुपासते तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्ण आपूर्यमाणपक्षमापूर्यमाणपक्षात् यान् षडुुदङ्ग् एति मासां स्तान् ॥ १ ॥


मासेभ्यः संवत्सरं संवत्सरादादित्यं आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एतान् ब्रह्म गमयति एष देवयानः पन्था इति ॥ २ ॥


अथ य इमे ग्रम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमात् रात्रिं रात्रे परपक्षपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥


मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥


तस्मिन् यावत् सम्पातमुषित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशं आकाशाद्वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति ॥ ५ ॥


अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते । ततो वै खलु दुर्निष्प्रपतनं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥


अभ्रधूमादिभावस्तु जीवस्याभ्रादिसंस्थितिः । अभ्रादिमानिरूपं तु ज्ञानप्राप्यं यतो भवेत् ॥ इति च ।
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूरचरणाः अभ्याशो ह एते कपूयां योनिमापद्येरञ्च्छ्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥


अथैतयोः पथोर्नैकतरेण च न तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेषश्लोकः ॥ ८ ॥


स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तु तैरिति ॥ ९ ॥


अथ ह य एतानेवं पञ्चाग्नीन् वेद न स ह तैरप्याचरन् पाप्मना लिप्यते शुद्धः पूतः पुण्यश्लोको भवति य एवं वेद य एवं वेद ॥ १० ॥ ३१० ॥


परमस्य जन्यमिति पर्जन्यः ।

पञ्च पञ्च स्वरूपेण सूर्यादौ संस्थितो हरिः । स्वर्गादौ चापि तन्नामा तद्योगान्नामिनः परे ॥

इति च ॥ ३१० ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रुः को न आत्मा किं तद्ब्रह्मेति ॥ १ ॥


प्रत्यब्दयज्ञकृत्सम्यङ्महाशालः प्रकीर्तितः । वेदवेदार्थवित् सम्यङ्महाश्रोत्रिय उच्यते ॥
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥


स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥


तान् होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ४ ॥


तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः संिजहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥


ते होचुर्येन हैवार्थेन पुरुषश्चरेत् तंहैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥


तान् होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच ॥ ७ ॥ ११ ॥


औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥


अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ २ ॥ १२ ॥


क्रीडात्मकत्वाद्व्याख्यं च सुतेजाश्चातितेजसा । स्वर्गाधारं शिरो विष्णोः .................
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥


प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यद्यन्मां नागमिष्यतः इति ॥ २ ॥ १३ ॥


................. सर्वरूपातिदार्शनात् ॥

चक्षुस्तु विश्वरूपाख्यमादानादयुषामपि ।

आदित्याख्यं च सूर्यस्याप्याश्रयं सर्वदा स्मृतम् ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्माऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वां पृथग्वलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥


अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ २ ॥ १४ ॥


वाय्वादिप्राणशक्यं न यत्तत्कर्ता हरेर्यतः ।

प्राणस्तेन पृथग्वर्त्मा वायुर्ज्ञानायुरूपतः ॥

वायोरप्याश्रयो नित्यं .................
अथ होवाच जनं शार्कराक्ष्यं शार्कराक्ष्य कं त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुलं आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥


अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते सन्दोहस्त्वेष आत्मन इति होवाच सन्दोहस्त व्यशीर्यद्यन्मां नागमिष्य इति ॥ २ ॥ १५ ॥


................. बहुत्वाद्बहुलः स्मृतः । आकाशनामा चादीप्तेर्मध्यदेहो रमापतेः ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं रयिमान् पुष्टिमानसि ॥ १ ॥


अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेनमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ २ ॥ १६ ॥


व्याप्तत्वादाप इत्युक्तो रयी रतिकरत्वतः । वस्तिराकाशवायोश्च तावाधारौ प्रकीर्तितौ ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठाऽऽत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥


अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ २ ॥ १७ ॥


प्रथनात् पृथिवीनामा प्रतिष्ठा च प्रतिष्ठितेः ।

पादौ भगवतो विष्णोः पृथिव्याश्रय एव च ॥ उत्तमानां हि पादेन सर्वं रूपं हि कथ्यते ।

विष्णोः पदमिति ह्यस्मात् प्रथितिर्वैदिकी स्मृता ॥
तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥


तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्मात्मा सन्दोहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिः हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २ ॥ १८ ॥


तद्यद्भक्तं प्रथममागच्छेत् तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणः तृप्यति ॥ १ ॥


प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति आदित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ १९ ॥


प्राणश्चक्षुस्तथादित्य इत्येका देवता स्मृता । पूर्वद्वारपतिर्विष्णोः ....................
अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥


व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्चन्द्रमाश्चाधितिष्ठन्ति तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २० ॥


................. व्यानः श्रोत्रं च चन्द्रमाः ॥ दक्षिणद्वारपस्त्वेकः .........................
अथ यां तृतीयां जुहुयात् तां जुहुयादपानाय स्वाहेति अपानस्तृप्यति ॥ १ ॥


अपाने तृप्यति वाक् तृप्यति वाचि तृप्यन्त्यां अग्निस्तृप्यति अग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २१ ॥


................. वागपानोऽग्निरेव च । पश्चिमद्वारपोऽप्येकः .................
अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति ॥ १ ॥


समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत् तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतः तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २२ ॥


................. समानो मन एव च ॥ इन्द्र इत्येक एवोक्त उत्तरद्वाररक्षकः ।
अथ यां पञ्चमीं जुहुयात् तां जुहुयादुदानाय स्वाहेति उदानस्तृप्यति ॥ १ ॥


उदाने तृप्यति वायुस्तृप्यति वायौ तृप्यति आकाशस्तृप्यति आकाशे तृप्यति यत्किञ्च वायुश्चाकाशश्चाधितिष्ठतः तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ २३ ॥


उदानो वायुरित्येक ऊर्ध्वद्वाराधिपश्च सः ॥

स एवाकाशनामा च लक्ष्म्याविष्टो विशेषतः । पृथिवीनामिका श्रीस्तु द्यौर्दिशो विद्युदेव च ॥ वायुपत्नी समुद्दिष्टा तत्तद्द्वाराधिपाश्च ते । अधितिष्ठन्ति ते सर्वे नारायणमनामयम् ॥ यद्विष्णुर्ज्ञानरूपत्वात् किमानन्दस्वरूपतः । एतेषु तृप्तेषु हरिस्तृप्यत्येषां प्रियो ह्यसौ ॥ सूर्यप्रसादात्तु नराः पूर्वद्वारेण केशवम् । प्राप्नुवन्त्यथ सोमस्य प्रसादात् पितरस्तथा ॥ द्वारेण दक्षिणेनैव गन्धर्वाः पश्चिमेन तु । अग्निप्रसादादृषय उत्तरेणेन्द्रसंश्रयात् ॥ शिवाद्या वायुमाश्रित्य यान्त्यूर्ध्वेण हरिं सुराः ।

वैश्वानराख्यविष्णोस्तु सम्यग्ज्ञानेन सर्वशः ॥
स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ १ ॥


अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥


तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मनः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥


तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरो हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥


यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्याग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत ॥ इति ॥ ५ ॥ ११२४ ॥ ॥ इति श्रीमच्छान्दोग्योपनिषदि पञ्चमोऽध्यायः ॥


वैश्वानरज्ञानयोग्याः साक्षादेव सुराः स्मृताः ।

तस्मात् तेषां फलं सर्वमन्येषां तु स्वयोग्यतः ॥ इति वैश्वानरविद्यायाम् । को न आत्मा किं ब्रह्म सोयमात्मा चतुष्पाद् स्थूलभुग्वैश्वानरः प्रथमः पादः ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः इत्यादेश्च वैश्वानरो विष्णुरिति सिद्धम् । स वायुः स आकाशः वायुश्चाकाशश्चाधितिष्ठतः इति वचनाद्वायो रूपमन्याधिष्ठितमाकाशाख्यं वायोः स्वरूपमिति विज्ञायते । आकाशनामा विघ्नेशो वायुश्चाकाशकः स्मृतः । आकाश इति लक्ष्मीश्च तथाऽऽकाशो हरिः स्वयम् ॥ इति शब्दनिर्णये । सुतेजोविश्वरूपादिभेदेनाङ्गानि मापतेः ।

अभिन्नान्यपि कथ्यन्ते लोकदृष्टिविभेदतः ॥ इति च ॥