Chandogya/C2: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 41: | Line 41: | ||
| id = CHU_C02_V01_B01 | | id = CHU_C02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
समस्तस्य पूर्णस्य साधुत्वात् सामनाम्नो विष्णोरुपासनं साधु । सारत्वेन मेयं साम । सारत्वेन धार्यं साध्वित्येक एवार्थः । | समस्तस्य पूर्णस्य साधुत्वात् सामनाम्नो विष्णोरुपासनं साधु । सारत्वेन मेयं साम । सारत्वेन धार्यं साध्वित्येक एवार्थः । | ||
साधुत्वात् सामनामानं समस्तगुणपूर्तितः । | |||
समस्तं य उपासीत नारायणमनामयम् ॥ | |||
सर्वसाम्नां देवतेति स मुक्तः साधुधर्मभाग् ॥ | |||
इति सामसंहितायाम् ॥ १ ॥ | |||
}} | }} | ||
| Line 79: | Line 78: | ||
| id = CHU_C02_V02_B01 | | id = CHU_C02_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नारायणाख्य उद्गीथ उद्गेयः प्रणवेन यत् । | नारायणाख्य उद्गीथ उद्गेयः प्रणवेन यत् । | ||
उद्गच्छन्ति यतोऽस्माद्वा वासुदेवादिमूर्तयः ॥ | |||
प्रथमावताररूपत्वाद् वासुदेवः परः पुमान् । | |||
प्रस्तावो निधनं चापि सङ्कर्षण उदाहृतः ॥ | |||
सङ्कर्षणो हि संहर्ता प्रद्युम्नः परमेश्वरः । | |||
हिङ्कार इति सम्प्रोक्तो हीति सृष्टिरुदीर्यते ॥ | |||
प्रसिद्धता हि सृष्टिः स्यादनिरुद्धः परो विभुः । | |||
प्रतिहार इति प्रोक्तः स हि कार्येष्विदं जगत् ॥ | |||
प्रतिप्रति हरेन्नित्यं मूर्तिप्रतिहृतेस्तथा । | |||
ते पृथिव्यादिषु सदा तन्नामानः प्रतिष्ठिताः ॥ | |||
पृथिवीत्यादिशब्दार्थास्ते हि मुख्यत ईरिताः । | |||
तत्सम्बन्धात् तदर्थत्वं पृथिव्यादेरमुख्यतः ॥ | |||
प्रथनादेव सस्यादेः पृथिवीत्वमुदाहृतम् । | |||
अग्नित्वमदनाच्चैव ह्यन्तरीक्षणयोगतः ॥ | |||
अभावाद्व्यवधानस्य त्वन्तरिक्षमितीर्यते । | |||
आदानादायुषश्चैव स आदित्य उदीरितः ॥ | |||
द्यौः क्रीडाकारणत्वाच्च तत्सर्वं हि परे हरौ ॥ इति च । | |||
पञ्चात्मकं यो लोकेषु सदोपास्ते हरिं परम् । | |||
ऊर्ध्वाधःसंस्थितास्तस्य पञ्चैव दशमूर्तयः ॥ | |||
मोक्षादिकमभीष्टं यत्कल्पन्तेऽस्य सदैव हि ॥ इति च ॥ २ ॥ | |||
}} | }} | ||
| Line 124: | Line 122: | ||
| id = CHU_C02_V03_B01 | | id = CHU_C02_V03_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पञ्चरूपं तु यो विष्णुं पुरोवातादिषु स्थितम् । | पञ्चरूपं तु यो विष्णुं पुरोवातादिषु स्थितम् । | ||
उपास्ते वृष्टिरस्मै स्याद्वर्षयत्यस्य मुक्तिगान् ॥ | |||
सर्वभोगांश्च भगवान् पञ्चरूपी जनार्दनः ॥ इति च ॥ ३ ॥ | |||
}} | }} | ||
| Line 152: | Line 149: | ||
| id = CHU_C02_V04_B01 | | id = CHU_C02_V04_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अप्सु पञ्चविधोपासी यो नारायणवान् भवेत् । | अप्सु पञ्चविधोपासी यो नारायणवान् भवेत् । | ||
न चास्य मृतिरप्सु स्यादप्सुषद्भगवान् हरिः ॥ इति च । | |||
अप्सु स्थितनारायणवान् मुक्तो भवतीत्यर्थः । | |||
अपः सूत इत्यप्सूर्भगवान् । दीर्घलोपेनाप्सुमानिति वा ॥ ४ ॥ | |||
}} | }} | ||
| Line 181: | Line 177: | ||
| id = CHU_C02_V05_B01 | | id = CHU_C02_V05_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
हेमन्तशिशिरयोरैक्येन पञ्चत्वम् । | हेमन्तशिशिरयोरैक्येन पञ्चत्वम् । | ||
ऋतुनामानमृतुगमृतत्वादृतुनामकः । | |||
इत्युपासीत यो विष्णुं पञ्चात्मानममुष्य हि ॥ | |||
मोक्षादीन् कल्पते चास्य ऋतुसंस्थो जनार्दनः । | |||
रक्ष्यत्वात् तेन तद्वांश्च सदैव स्यादुपासकः ॥ इति च । | |||
वासस्य सुखकारित्वात् वसन्तः पुरुषोत्तमः । | |||
नीरादेर्गरणाद् ग्रीष्मो वर्षणाद्वर्ष उच्यते ॥ | |||
शं रातीति शरत्प्रोक्तो हेमन्तो हिमकारणात् ॥ इति च ॥ ५ ॥ | |||
}} | }} | ||
| Line 206: | Line 201: | ||
| id = CHU_C02_V06_B01 | | id = CHU_C02_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पालनात् सुखरूपत्वात् पशुनामा जनार्दनः । | पालनात् सुखरूपत्वात् पशुनामा जनार्दनः । | ||
मुक्तस्तद्वान् भवत्येव पशुषूपासको हरेः ॥ इति च । | |||
यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः । | |||
अविस्थस्त्वविरेवोक्तो ऊर्णया शीततोऽवनात् ॥ | |||
गौश्च सद्गतिहेतुत्वाद् गोस्थः स पुरुषोत्तमः । | |||
अश्वश्चैवाशुगन्तृत्वात् पुुरुषः पूर्तिहेतुतः ॥ इति च । | |||
भवन्ति हास्य पशव इति प्रसिद्धपशव एव । अजा इत्यादिबहुवचनं बहुरूपत्वाद्भगवतः ॥ ६ ॥ | |||
}} | }} | ||
| Line 230: | Line 224: | ||
| id = CHU_C02_V07_B01 | | id = CHU_C02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । | परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । | ||
परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ॥ | |||
परोवरीयांस्येतानि विष्णो रूपाणि सर्वशः । | |||
तेषां विशेषो नैवास्ति सदा तानि समानि हि ॥ | |||
अत्युत्तमोत्तमान्येतान्यन्यस्मात् सर्वतोऽपि तु ॥ इति च । | |||
प्राणो नेतृत्वतो विष्णुर्वाक्सर्ववचनात् सदा । | |||
चक्षुश्च दर्शनान्नित्यं श्रोत्रं श्रवणहेतुतः ॥ | |||
मनो मन्तृत्वतश्चास्य ह्येक एव तु पञ्चधा ॥ इति च । | |||
परोवरीयो ब्रह्मास्य भवति सर्वापेक्षितदातृत्वात् ॥ ७ ॥ | |||
}} | }} | ||
| Line 256: | Line 249: | ||
| id = CHU_C02_V08_B01 | | id = CHU_C02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आदिः कल्पादिहेतुत्वात् क्रोडात्मा केशवः स्वयम् । | आदिः कल्पादिहेतुत्वात् क्रोडात्मा केशवः स्वयम् । | ||
दुष्टोपद्रवकर्तृत्वान्नरसिंह उपद्रवः ॥ इति च । | |||
हुङ्कारसहिते वाक्ये प्रद्युम्नस्तु सदा स्थितः । | |||
आकारयुक्ते वाराहो वासुदेवः प्रसंयुते ॥ | |||
नारायणस्तथोद्युक्ते प्रतियुक्तेऽनिरुद्धकः । | |||
उपयुक्ते नृसिंहश्च नीतिसङ्कर्षणस्तथा ॥ | |||
अभावे यावदेते स्युस्तावत् तद्दैवतं स्मृतम् । | |||
एवं सप्तविधं विष्णुं य उपास्ते परं विभुम् ॥ | |||
वाङ्ग्नामा भगवांस्तस्य भवेत् सर्वार्थदोहकृत् ॥ इति च ॥ ८ ॥ | |||
}} | }} | ||
| Line 282: | Line 274: | ||
| id = CHU_C02_V09_B01 | | id = CHU_C02_V09_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आदित्यस्थं परं विष्णुं ध्यायेदादित्यनामकम् । | आदित्यस्थं परं विष्णुं ध्यायेदादित्यनामकम् । | ||
सप्तरूपं साम चासौ सर्वदा समरूपतः ॥ | |||
सर्वेषां मां प्रतीत्येव दृष्टिसाम्याच्च साम सः । | |||
दृष्टिसाम्यं मण्डलस्य विष्णुस्तस्य च कारणम् ॥ | |||
तस्मिन्निमानि भूतानि सर्वाण्येवाश्रितानि हि । | |||
}} | }} | ||
| Line 352: | Line 343: | ||
| id = CHU_C02_V10_B01 | | id = CHU_C02_V10_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उदयात् पूर्वमेवासौ भवेत् प्रद्युम्ननामकः ॥ | उदयात् पूर्वमेवासौ भवेत् प्रद्युम्ननामकः ॥ | ||
पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये । | |||
आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः ॥ | |||
तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः । | |||
मध्यन्दिने स आधारो देवानां च ततः परम् ॥ | |||
अनिरुद्धस्स आधारो गर्भस्थानां सदैव हि । | |||
ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः ॥ | |||
अथास्तमितवेलायां स सङ्कर्षण ईरितः । | |||
आश्रयः स पितॄणां च सप्तात्मकमुपास्य तम् ॥ | |||
प्राप्नोति परमं स्थानं मुक्तः संसारसागरात् ॥ इति च ॥ | |||
हिङ्कारनामानमाश्रितत्वादि्धङ्कुर्वन्ति । प्रस्तावाश्रयात् प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्च । प्रारम्भावतारत्वात् प्रशंसादेवतात्वाच्च तस्य । सर्वाधारत्वाद् वराहस्य तदाधाराणां पक्षिणामनाधारेणैव गमनम् । नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनात् सर्वोत्तमा देवाः । इतरमूर्तीनामपि सर्वगुणपूर्त्योपासने नारायणोपासनमेव भवति । सर्वगुणपूर्त्यर्थत्वान्नारायणशब्दस्य । अनिरुद्धाश्रयत्वाद् गर्भाणां पितुः शरीरादन्यत्र प्रतिहृता अपि न विनश्यन्ति । वर्धन्ते च तत्रैव । अन्यदि्ध भुक्तं जीर्यत एव । धाता गर्भं दधातु ते इति च श्रुतिः । धाता हि भगवाननिरुद्धः । विष्णुस्त्वष्टा प्रजापतिर्धाता इति च चतुर्मूर्तयो ह्युच्यन्ते । | |||
योनिक्ऌप्तिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत् । | |||
आसेककर्मा प्रद्युम्नादनिरुद्धाच्च धारणम् ॥ इति च । | |||
व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषाद्द्वितीयकः । | |||
प्रजापतिः प्रजापातान्निषेकः पातनं ततः ॥ | |||
प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः । | |||
अनिरुद्ध इति प्रोक्तः कृष्णरामौ तथाश्विनौ ॥ इति च । | |||
कक्षश्वभ्रे नृसिंहस्य सदावस्थितिकारणात् । | |||
द्रवन्ति कक्षश्वभ्राभ्यां तदज्ञानेऽपि रक्षणात् ॥ | |||
मृगा भीता यतस्तेषां नृसिंहस्त्वाश्रयः सदा । | |||
पितॄणामाश्रयो यस्मात् सङ्कर्षण उदाहृतः ॥ | |||
अतस्तान् प्रति पिण्डादीन् निदधत्यज्ञका अपि । | |||
अन्यथा तन्मृतानां तु कुत एवोपतिष्ठति ॥ इति च । | |||
न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा । | |||
तथापि तत्प्रियं नाम नारायण इति स्म ह ॥ | |||
विशेषतः समस्तानां नाम्नां तस्यार्थ एव तु । | |||
विज्ञायते गुणैः पूर्तिर्नामसाम्यं तदा तथा ॥ इति च । | |||
नाम्नो नारायणाख्यस्य गुणैः पूर्तिं हि देवताः । | |||
विज्ञायार्थमुपास्यैव सर्वाधिक्यमथापिरे ॥ इति च ॥ ९ ॥ | |||
}} | }} | ||
| Line 422: | Line 412: | ||
| id = CHU_C02_V11_B01 | | id = CHU_C02_V11_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यस्यान्यः सदृशो नास्ति स्वरूपाणि समानि च । | यस्यान्यः सदृशो नास्ति स्वरूपाणि समानि च । | ||
स आत्मसंमितो विष्णुरतिमृत्युरमृत्युतः ॥ | |||
प्रद्युम्नादिस्वरूपेण स विष्णुः सप्तधा स्थितः । | |||
समानि तानि सर्वाणि ज्ञानानन्दबलैस्तथा ॥ | |||
ज्ञानादित्रयवाचीनि त्र्यक्षराण्यपि सर्वशः । | |||
हिङ्कारादीनि नामानि सर्वेषामपि सर्वशः ॥ | |||
आदिनाम्नः प्रकारस्तु योज्यः स्यात् प्रतिहारतः । | |||
तेन त्र्यक्षरमेव स्यान्नामद्वयमपि प्रभोः ॥ | |||
उपद्रवे तु वःकारो यद्यपि व्यतिरिच्यते । | |||
नाम नारायणस्यैव सोऽपि क्षीराब्धिशायिनः ॥ | |||
व्यञ्जनस्वरसर्गैस्तु सोऽपि ज्ञानादिवाचकः । | |||
त्रिवर्णत्वात् समः सोऽपि ज्ञानाद्यैः पुरुषोत्तमः ॥ | |||
}} | }} | ||
| Line 451: | Line 440: | ||
| id = CHU_C02_V12_B01 | | id = CHU_C02_V12_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
वःकारार्थपरिज्ञानात् प्राप्योऽब्धिशयनः प्रभुः । | वःकारार्थपरिज्ञानात् प्राप्योऽब्धिशयनः प्रभुः । | ||
एकविंशार्णविज्ञानात् प्राप्योऽसौ सूर्यमण्डले ॥ | |||
स एव भगवान् विष्णुर्द्वाविंशद्रूपवान् यतः । | |||
तान्येव सप्तरूपाणि विभिद्यन्ते त्रिधा त्रिधा ॥ | |||
एकः पयोब्धिशयन इति द्वाविंशतिः प्रभोः । | |||
प्रद्युम्नाद्यास्तु चत्वारो द्विषण्मासेषु संस्थिताः ॥ | |||
त्रिशस्त्रिशः केशवाद्या वसन्तादिषु पञ्चमः । | |||
रूपद्वयं च षष्ठस्य स्थितं मत्स्यादिपञ्चकम् ॥ | |||
तृतीयं पृथिवीसंस्थं जामदग्न्याख्यमेव तत् । | |||
अन्तरिक्षद्युसूर्येषु सप्तमस्य त्रिधा तनुः ॥ | |||
रामः कृष्णः कल्किरिति तज्ज्ञानात् तान्यवाप्य च । | |||
द्वाविंशेन पयोब्धिस्थं प्राप्यते रूपमक्षरम् ॥ | |||
एतद् द्वाविंशकं रूपं नाकं चासुखवर्जनात् । | |||
पूर्णानन्दस्वरूपत्वाद्विशोकं शोकनाशनात् ॥ | |||
इति सामसंहितायाम् । | |||
}} | }} | ||
| Line 483: | Line 471: | ||
| id = CHU_C02_V13_B01 | | id = CHU_C02_V13_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्राप्नोतीहादित्यस्य जयम् । इह पृथिव्यादिषु स्थितभगवत्प्राप्तावप्यादित्यस्थ एव प्राप्यते । ऐक्यात् । परो हास्यादित्यजयाज्जयो भवति । आदित्यस्थस्यादित्यनाम्नो भगवतः प्राप्त्या परो जयः रूपान्तर प्राप्तिरपि भवति । | प्राप्नोतीहादित्यस्य जयम् । इह पृथिव्यादिषु स्थितभगवत्प्राप्तावप्यादित्यस्थ एव प्राप्यते । ऐक्यात् । परो हास्यादित्यजयाज्जयो भवति । आदित्यस्थस्यादित्यनाम्नो भगवतः प्राप्त्या परो जयः रूपान्तर प्राप्तिरपि भवति । | ||
स्वरूपमेकं प्राप्तस्तु विष्णोः स्यात् सर्वरूपगः । | |||
ऐक्यात् तथापि सम्प्राप्तिर्बहूपास्त्या सुखाधिका ॥ इति च । | |||
जयो नाम प्राप्तिरेव । धनजिते स्वर्जिते सत्राजित इत्यादिवत् । केशवदिरूपेण ललाटादिषु स्थितेरित एकविंश इत्युच्यते । | |||
चित्रादियोगदातृत्वान्मासनामा स्वयं हरिः । | |||
लोकः प्रकाशरूपत्वादादित्यश्चादनादपाम् ॥ इति च ॥ १० ॥ | |||
}} | }} | ||
| Line 506: | Line 493: | ||
| id = CHU_C02_V14_B01 | | id = CHU_C02_V14_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्राणसंस्थे हरौ प्रोतं गायत्रं साम सर्वदा । | प्राणसंस्थे हरौ प्रोतं गायत्रं साम सर्वदा । | ||
तद्वाचकं नियम्यं चेत्यतः प्रोतमितीर्यते ॥ | |||
प्राणस्थविष्णोः सामीप्यात् तत्स्थमेतदितीर्यते । | |||
क्वचिन्निर्देशसामीप्याद्विष्णोरेतदितीर्यते ॥ इति च । | |||
प्राणस्थविष्णुलाल्यत्वात् प्राणीत्येवाभिधीयते । | |||
मोक्षस्तु सर्वमायुस्तु स्यान्नित्यत्वाज्ज्योक्समस्तवित् ॥ | |||
इति च ॥ ११ ॥ | |||
}} | }} | ||
| Line 538: | Line 524: | ||
| id = CHU_C02_V15_B01 | | id = CHU_C02_V15_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मन्थनादिस्थितं यस्तु तन्नामानं हरिं परम् । | मन्थनादिस्थितं यस्तु तन्नामानं हरिं परम् । | ||
तत्तत्क्रियैकहेतुत्वाद्योऽग्नौ ध्यायेज्जनार्दनम् ॥ | |||
रथन्तराश्रयं पञ्चरूपं स च विमुच्यते ॥ इति च ॥ १२ ॥ | |||
}} | }} | ||
| Line 566: | Line 551: | ||
| id = CHU_C02_V16_B01 | | id = CHU_C02_V16_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मिथुनस्थं पञ्चरूपं ध्यात्वैव पुरुषोत्तमम् । | मिथुनस्थं पञ्चरूपं ध्यात्वैव पुरुषोत्तमम् । | ||
अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः ॥ इति च । | |||
मिथो नयतीति मिथुनं भगवान् ॥ १३ ॥ | |||
}} | }} | ||
| Line 650: | Line 634: | ||
| id = CHU_C02_V17_B01 | | id = CHU_C02_V17_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आदित्यनामि्न पञ्चात्मन्यभिध्याते जनार्दने । | आदित्यनामि्न पञ्चात्मन्यभिध्याते जनार्दने । | ||
पर्जन्यनामि्न चर्त्वाख्ये लोकाख्ये पशुसञ्ज्ञके ॥ | |||
अङ्गाख्ये देवताख्ये च सर्वाख्ये च प्रतिष्ठितम् । | |||
बृहदाद्यं च यो वेद मुच्यते नात्र संशयः ॥ | |||
समुद्रेकात् समुद्रस्तु देशनाद्दिश उच्यते । | |||
लोपकत्वाल्लोम च स्यात्तवोरूपस्त्वगुच्यते ॥ | |||
मादनात् साररूपत्वात् मांसोऽस्थि त्वासनात् स्थिरम् । | |||
मदस्य जननान्मज्जा सोऽङ्गमन्तिगतत्वतः ॥ | |||
वायुर्ज्ञानात्तथायुष्ट्वान्नक्षत्रं च स्वतन्त्रतः । | |||
चन्द्रमाः परमानन्दात् त्रैविद्यो ज्ञानरूपतः ॥ | |||
वयांसि व्ययनाच्चैव वीत्याकाशस्तथोच्यते । | |||
तत्रायनाद्वयः प्रोक्तो मरीचिर्मितरुक्त्वतः ॥ | |||
सर्पस्सर्पणहेतुत्वात् गन्धर्वो गोधरत्वतः । | |||
पिता स सृष्टिहेतुत्वात् सर्वं पूर्णगुणत्वतः ॥ | |||
एतैर्नामभिरुद्दिष्टो भगवान् पुरुषोत्तमः ॥ इति च । | |||
यादृश्येवोन्नतिर्योग्या तस्याः सर्वात्मनाऽऽयतिः । | |||
सर्वभावस्तु विज्ञेयो न तु सर्वस्वरूपता ॥ इति च । | |||
न च सर्वस्वरूपता पुरुषार्थः । नारकित्वादेरपि प्राप्तेः । न चार्थान्तरकल्पना युक्ता । प्रमाणाभावात् । | |||
असनान्मितिरूपत्वादस्मीत्युक्तः परो हरिः । | |||
तं सर्व इत्युपासीत पूर्णता सर्वता स्मृता ॥ इति च । | |||
सर्वमस्मीत्युत्तमपुरुषत्वे तेभ्यो न ज्यायःपरमन्यदस्तीति ज्यायःपरशब्दौ व्यर्थौ । अन्यस्य भावात् । अतस्ततोऽन्यदस्तीति सिद्धम् । अतस्ततोऽन्यत् परमज्याय एव नास्ति । ज्यायो लक्ष्मीर्विद्यते । परमज्यायस्तु भगवानेव । | |||
जीवैक्याङ्गीकारे यस्तद्वेदेति तच्छब्दोऽप्ययुक्तः । तदा स्वात्मानं वेदेत्येव स्यात् । न च प्रसिद्धभेदानुवादः । श्रुतिं विना तत्स्वरूपस्यैवासिद्धेः तद्भेदस्यातिशयेनासिदि्धः । ऐक्य ईश्वरस्य स्वज्ञानमस्तीति न तद्रूपस्य जीवस्याज्ञानादिकं युज्यते । औपाधिकभेदाङ्गीकारेऽप्युपाधिरुभयोरैक्यादुभयोरप्यज्ञत्वं कुर्यात् । उपाधिनिमित्तदोषाश्चोभयोरपि स्युः । उपाधिसम्बन्धस्य समत्वात् । उपाधिसम्बन्धस्यास्मिन्नन्यथा तस्मिन्नन्यथेति विशेषार्थमयमसाविति भेदस्योपाधिं विना स्वत एवापेक्षितत्वात् । अतः स्वतो भिन्नस्यैवोपाधिना विशेषो भवति । | |||
यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुदि्धनाम् । | |||
उपाधिभिर्ज्ञाप्य एव न तु भेदं स्वयं सृजेत् ॥ | |||
उपाधिरप्यभिन्नस्य भेदं साधयितुं क्वचित् । | |||
न क्षमः सिद्धभेदस्य ज्ञापकः स्यादबुदि्धनाम् ॥ | |||
आकाशा अप्यतस्त्वेते अनन्ता अप्कणादिवत् ॥ | |||
इति ब्रह्मतर्के । | |||
अतो न जीवेशाभेदः । | |||
न तु देवः स्वयं भूत्वा देवदेवं समर्चयेत् । | |||
समानव्यवहारे हि न पूज्यः पूजको भवेत् ॥ | |||
इति च परमसंहितायाम् । | |||
अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ | |||
अन्यदेव तद्विदितादथो अविदितादधि । | |||
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । | |||
अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यति तद्वद ॥ | |||
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । | |||
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । | |||
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । | |||
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । | |||
आधिपत्यमृते चैव भोगेन विषयेण च ॥ | |||
आनन्दादीनृते मुक्तास्सर्वे ते ब्रह्मणस्समाः ॥ इत्यादेश्च । | |||
प्रद्युम्नादीनि रूपाणि त्रीणि त्रीण्येव पञ्च च । | |||
ऋगादिस्थानभेदेन नित्याभिन्नानि चेशनात् ॥ इति सामसंहितायाम् । | |||
दृष्टवस्तुनो मिथ्यात्वाङ्गीकारे च युक्त्यपेक्षा । न तु सत्यत्वे । | |||
दृष्टस्य सत्यतायां तु युक्तिर्वाऽयुक्तिरेव वा । | |||
भूषणं तस्य मिथ्यात्वे युक्त्यभावोऽतिदूषणम् ॥ | |||
युक्तिश्च दोष एव स्याद्बलवन्मानवर्जिता ॥ इति ब्रह्मतर्के । | |||
न च शून्यत्वमिथ्यात्वयोः कश्चिद्विशेषः । तत्प्रमाणाभावात् । अतः सत्य एव भेदः । | |||
न च कदाचित् कस्यापि नासीदस्ति भविष्यतीति बुद्ध्यभावे व्यावहारिकसत्यमित्यत्रास्माकं विरोधः । तद्भावे च न शून्याद्विशेषः । सत्यमेनमनुविश्वे मदन्ति इत्यादिश्रुतेश्च सत्यो भेदः । | |||
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । | |||
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ | |||
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । | |||
उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ इत्यादिश्रुतेश्च । | |||
प्रपञ्चो भेदः यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत । अतो न जीवेश्वरादिभेद उत्पद्यते किन्तु नित्य एव । अतो मायया भगवत् प्रज्ञानेन मातं रतं च मात्रम् । भगवाञ्जानाति रमते चास्मिन् भेद इति । तच्च भगवद्रूपमद्वैतम् । परमार्थो भगवांस्तद्रूपेणाद्वैतम् । यदद्वैतं नामोच्यते तत्परमार्थभगवदपेक्षयेत्यर्थः । स्वगतभेदो भगवति नास्तीत्युक्तम् । न च कल्पनामात्रो भेदः । यदि केनचित् कल्पितो विकल्पस्तथापि निवर्तेत । तस्मादुपदेशादयमेव वादः । केनापि तत्प्रसादं विनाऽविज्ञातत्वादज्ञातो भगवांस्तद्गतो भेदो न विद्यते इति । | |||
जीवेश्वरगतो जीवेष्वथ जीवजडात्मनोः । | |||
जडेशयोर्जडेष्वेवं पञ्चभेदः प्रपञ्चकः ॥ | |||
प्रकृष्टमोक्षहेतुत्वात् तज्ज्ञानं प्रेति कथ्यते । | |||
प्रकृष्टपञ्चकत्वाद्वा प्रपञ्चोऽयं प्रकीर्तितः ॥ | |||
यद्ययं सादिरेव स्यान्निवर्तेत कदाचन । | |||
न निवर्तते यतस्तेन नायं सादिर्भवेत् क्वचित् ॥ | |||
मायेति विष्णुविज्ञानं तन्मितत्वाच्च न क्वचित् । | |||
भ्रान्तत्वमस्य यद्विष्णोर्नैव भ्रान्तिः कदाचन ॥ | |||
रमते चात्र यद्विष्णुर्न हि भ्रान्तौ रमेद्धरिः । | |||
परमार्थे हरौ नैव भेदोऽस्ति जडजीववत् ॥ | |||
यद्ययं कल्पितो भेदः कस्मान्नैव निवर्तते । | |||
तस्माद्भूतभविष्याख्यभवदाख्यपराभिधाः ॥ | |||
तदन्ये चैक एवास्मिन्नोङ्काराख्ये जनार्दने । | |||
अज्ञातनामके तस्मिन्न भेदोऽस्ति कथञ्चन ॥ इति ब्रह्मतर्के । | |||
विदिः कादाचित्कस्वरूपलाभ इति च धातुः । भिद्येतेतिवद्विद्येतेतिशब्दः । परमार्थत इति विश्वतश्चक्षुरितिवत् सप्तम्यर्थे । परमार्थे द्वैतभाव एवेत्यर्थः । परमार्थः परमात्माऽद्वैत इति प्रथमार्थो वा । न हि विद्यमानं निवर्तत इति नियमः । उत्पद्यमानं हि प्रायो निवर्तते । जीवेश्वरप्रकृत्यादिकं बहुलं हि विद्यमानं न निवर्तते । न च कल्पितो विकल्प इति पक्षे कल्पितो यदीति यदिशब्दो युज्यते । न च निवर्तेत न संशयः विकल्पो विनिवर्तेत कल्पितो यदि इत्यादिनाऽनिष्टापादनरूपः शब्दो युज्यते । कल्पितत्वं चेच्छ्रुतेरभिप्रायः अविद्यमानोऽयं प्रपञ्चो निवर्तते कल्पितो विकल्पो विनिवर्तत इत्येव शब्दः स्यात् । न तु निवर्तेतेति । अतः सत्यताविषयमिदं वाक्यम् । | |||
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । | |||
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ इति निन्दनाच्च । | |||
विद्यात्मनि भिदाबोधः जुष्टं यदा पश्यत्यन्यमीशमस्य इत्यादिभेदज्ञानस्य प्रशंसनाच्च । अतोऽसनान्मितत्वाच्चास्मीति भगवान्नामैवैतत् | |||
॥ २१ ॥ | |||
}} | }} | ||
| Line 741: | Line 724: | ||
| id = CHU_C02_V18_B01 | | id = CHU_C02_V18_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सर्वदा समत्वात् साम भगवान् । तस्योद्गानप्रकारो विनर्दिवृषभस्वरवन्मेघनर्दनवद्वा । तदेव वृणे । सर्वोत्तमत्वात् । | सर्वदा समत्वात् साम भगवान् । तस्योद्गानप्रकारो विनर्दिवृषभस्वरवन्मेघनर्दनवद्वा । तदेव वृणे । सर्वोत्तमत्वात् । | ||
विष्णोः स्वरो वृषभवन्मेघनादवदेव वा । | |||
स्त्रीपशुस्वरवद् वह्नेर्गम्भीरोऽनुपमो विभोः ॥ | |||
ब्रह्मणस्त्वथ सोमस्य साक्षाद्घण्टानिनादवत् । | |||
मृदुमेघस्वरो वायोरिन्द्रस्य स्तनयित्नुवत् ॥ | |||
बृहस्पतेः क्रोञ्चवच्च वरुणस्य तु विस्वरः । | |||
एकस्य पादवर्षस्य स्वरो विष्णोरुदाहृतः ॥ | |||
वायोर्विंशतिवर्षस्य ब्रह्मणस्तु तदन्तरा ॥ इति च । | |||
गायेदेतैः स्वरैस्तस्माद्यथाशक्ति न विस्वरम् । | |||
}} | }} | ||
| Line 767: | Line 749: | ||
| id = CHU_C02_V19_B01 | | id = CHU_C02_V19_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अधिकारी सदौद्गात्रे मुख्यतः प्राण एव यत् ॥ | अधिकारी सदौद्गात्रे मुख्यतः प्राण एव यत् ॥ | ||
अतो मोक्षादिदाने स देवादीनां क्षमो भवेत् । | |||
अन्येषां स ददातीह मद्धृदिस्थ इति स्मृतिः ॥ | |||
कार्या हि नान्यथा कुर्यादवमन्ताऽन्यथा भवेत् । | |||
देवानां मोक्षदानादौ न हि मानुष ईश्वरः ॥ | |||
अतः प्राणो हृदिस्थो मे ददातीति स्मृतिर्भवेत् । | |||
सङ्कल्पोक्त्यादिकर्ता च प्राण एव यतः सदा ॥ | |||
आगायानीति युज्येत तस्मात् तस्मिन् हि मुख्यतः । | |||
आत्मेति भगवान् विष्णुः प्राणस्थः पुरुषोत्तमः ॥ | |||
तस्मा अन्नं ह्यर्थतस्तु प्राणस्यान्नभुजिर्भवेत् । | |||
प्राणस्याप्यमृतत्वं हि मुख्यमेव फलं यतः ॥ | |||
देवान्तर्भावतो विष्णोर्नामृतत्वं क्व चादिमत् । | |||
}} | }} | ||
| Line 812: | Line 793: | ||
| id = CHU_C02_V20_B01 | | id = CHU_C02_V20_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
इन्द्रे बलं ददानीति स्वरान् घोषबलात्मकान् ॥ | इन्द्रे बलं ददानीति स्वरान् घोषबलात्मकान् ॥ | ||
ब्रूयादग्रस्तानिरस्तानूष्मणः स्पर्शानपि । | |||
समस्तान् बलदानार्थमिन्द्रे चैव प्रजापतेः ॥ | |||
विष्णोः स्वात्मानमेवाहमर्पये मृत्युवर्जितम् । | |||
मोक्षयोग्यान् करिष्यामीत्येवं स प्राण एव तु ॥ | |||
कुर्यादन्यस्तु मत्स्थस्तु प्राण एवेदृशः क्षमः । | |||
करोतीति स्मरेन्नित्यं नान्यथा तु कथञ्चन ॥ | |||
देवावमन्ता हि तमो यात्यसंशयतो यतः । | |||
अत इन्द्रं प्रजापाख्यं विष्णुं मृत्युं च सर्वदा ॥ | |||
शरणं गतोऽहमिति च ध्यायेत् सर्वत्र सर्वदा । | |||
ऐश्वर्यादिन्द्रनामा तु वायुः स्वरपतिः सदा ॥ | |||
ऊष्माधिपस्तु भगवान् विष्णुरेव प्रजापतिः । | |||
मृत्युनामा तु संहाराद्रुद्रः स्पर्शाधिपः स्मृतः ॥ | |||
मानुषाणां तु शरणमितरेषां तु वायुतः । | |||
वायोस्तु बलदानाद्यं मोक्षदानादिकं हरेः ॥ | |||
यस्माद् वायुपदे योग्या बहवस्त्विन्द्रनामकाः । | |||
अत इन्द्रे ददानीति स्मृतिः प्राणस्य युज्यते ॥ | |||
इति सामसंहितायाम् ॥ | |||
सर्वोपद्रवकर्तॄणामसुराणां कुबुदि्धनाम् । | |||
उपालम्भे कृते युक्तं विष्णुस्त्वां प्रतिपेक्ष्यति ॥ | |||
रुद्रस्त्वां धक्ष्यतीत्यादि नान्यथा तु कथञ्चन ॥ इति च । | |||
मृत्योस्सकाशादात्मानं परिहराणीति । | |||
ब्रह्मा प्रजापतिश्चेति विष्णुरन्यं प्रबोधयन् । | |||
तथेन्द्रनामा वायुश्च परेषां बोधको यदा ॥ इति च । | |||
बृंहयति, प्रजाः पाति, इदं रातीति व्युत्पत्तिभिः ॥ २२ ॥ | |||
}} | }} | ||
| Line 854: | Line 834: | ||
| id = CHU_C02_V21_B01 | | id = CHU_C02_V21_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सर्वधर्मैः पुण्यलोको ब्रह्मज्ञानाद्विमुच्यते | सर्वधर्मैः पुण्यलोको ब्रह्मज्ञानाद्विमुच्यते | ||
| Line 872: | Line 851: | ||
| id = CHU_C02_V22_B01 | | id = CHU_C02_V22_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
ओङ्कारो ब्रह्मणो नाम सर्ववागात्मकश्च सः ॥ | ओङ्कारो ब्रह्मणो नाम सर्ववागात्मकश्च सः ॥ | ||
तद्व्याख्यात्वात् सर्ववाचां सर्ववागात्मता भवेत् । | |||
इदं तु प्रस्तुतत्वात् स सर्वं चाप्यर्थपूर्णतः ॥ | |||
सर्वशब्दान्वितत्वाच्च न लिङ्गव्यत्ययो भवेत् । | |||
आधिक्यं चैव सर्वत्वं प्रस्तुतं तद्यथेति तत् ॥ इति च । | |||
अकाराद्याः क्रमेणैव भूरादेः साररूपिणः । | |||
अस्मादयं सार इति ज्ञानमेवाभितापनम् ॥ | |||
सम्प्रस्रावश्च तद्दृष्टिर्ब्रह्मणः परमस्य हि । | |||
नित्यज्ञानोऽपि भगवान् क्रीडयाऽचीक्ऌपद्यदा ॥ | |||
तदाभितापशब्दोऽयं वर्तते परमात्मनि ॥ इति च । | |||
तपःशब्देनैव यतिधर्मश्चोक्तः । | |||
सर्वेषामाश्रमस्थानामज्ञानां पुण्यलोकता । | |||
अपरोक्षदृशां विष्णोरमृतत्वं न चान्यथा ॥ इति च । | |||
यज्ञाध्ययनदानैस्तु गृही स्यात् सोमलोकगः । | |||
यतयस्तपसा सूर्यं चत्वारोऽपि विशेषतः ॥ | |||
गच्छन्ति तपसैवर्षीन् वनस्था ब्रह्मचारिणः । | |||
नैष्ठिका वालखिल्यांश्च गुरुशुश्रुषयैव तु ॥ | |||
यदि पश्यन्त्येत एव साक्षादेव जनार्दनम् । | |||
अमृतत्वं तदा यान्ति नान्यथा तु कथञ्चन ॥ इति च । | |||
न च संन्यासमात्रेणामृतत्वम् । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते इति श्रुतेः । विद्यैव तु निर्धारणात् इति च भगवद्वचनम् । | |||
न रोधयति मां धर्मो न साङ्ख्यं योग उद्धव । | |||
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ इत्यादि च । | |||
न च संन्यसनादेव सिदि्धं समधिगच्छति इति च । तस्य पुत्रा दायमुपयन्ति इत्यादेर्गृहस्थादीनामपि ज्ञानिनां मोक्षः प्रतीयते । | |||
सर्ववर्णाश्रमाणां च ज्ञानान्मोक्षो विनिश्चितः । | |||
अन्त्यानां स्थावराणां वा तथापि यतिरुत्तमः ॥ | |||
ज्ञानद्वारो यतो न्यासो विशेषेण भविष्यति ॥ इति च । | |||
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । इति च ॥ २३ ॥ | |||
}} | }} | ||
| Line 948: | Line 926: | ||
| id = CHU_C02_V23_B01 | | id = CHU_C02_V23_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
वसुरुद्रादितेयेषु विश्वेषु स्थितमीश्वरम् | वसुरुद्रादितेयेषु विश्वेषु स्थितमीश्वरम् । | ||
तन्नामानं हरिं मन्त्रैर्लोकद्वारादिभिः प्रभुम् ॥ | |||
प्रार्थयित्वा दिवं त्वज्ञो ज्ञो मोक्षं प्राप्नुयात् तथा । | |||
यजमानो नान्यथा तु लोकोऽस्य प्राप्यते वरः ॥ | |||
राजनं पृथिवीलोके राज्यमित्युच्यते बुधैः । | |||
विराज्यमन्तरिक्षे तु स्वाराज्यं स्वर्गगं भवेत् ॥ | |||
एतेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम् । | |||
श्वेतद्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः ॥ | |||
अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति च । | |||
यो देवानां नामधा एक एव इति श्रुतेश्च भगवत एव वस्वादिनामानि । त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते इति वचनाच्च भगवानेव प्रार्थ्यः । भगवत्स्वरूपस्य सम्यगपरिज्ञानाद्रागाच्च तेषामन्तवत् फलवत्वम् । | |||
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । | |||
गतागतं कामकामा लभन्ते इति वचनात् । | |||
सर्वोत्तमत्वस्याज्ञानाद्विष्णोरन्धन्तमो भवेत् । | |||
तद्द्वेषात् किमु वक्तव्यं ब्रह्मादिद्वेषतोऽपि वा ॥ | |||
तारतम्यापरिज्ञानादनुत्थानं तमो भवेत् । | |||
अपराधकृतस्तेषां निरयं त्वेव गच्छति ॥ | |||
पूजाया अकृतेस्तेषां न वर्णेषु जनिर्भवेत् । | |||
सम्यक्कर्माननुष्ठानात् स्वर्गं नैवोपगच्छति ॥ | |||
अपरोक्षदृशेरौन्यान्मोक्षं नैवोपगच्छति ॥ इति च । | |||
पूर्वपूर्वगुणैर्दोषानशक्ता उत्तरोत्तराः । | |||
स्थानद्वयोत्तरे शक्ता मोक्षो नानपरोक्षिणः ॥ | |||
विरुद्धरागिणां नैव ह्यपरोक्षदृशिर्भवेत् । | |||
यावद्रागविनाशः स्याद्विरक्तो भक्तिसंयुतः ॥ | |||
सर्वदैवाप्रमत्तश्च पश्येदेव हरिं परम् । | |||
अविस्मृतिस्सदा विष्णोरन्यथाज्ञानवर्जनम् ॥ | |||
शास्त्राभ्यासः सदोद्योगाच्छ्रवणाच्च विचारतः । | |||
निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिः सदा ॥ | |||
अप्रमाद इति प्रोक्तः शास्त्रं वेदास्तु पञ्च च । | |||
भारतं पञ्चरात्रं च मूलरामायणं तथा ॥ | |||
पुराणं भागवतं चैव पञ्चमो वेद उच्यते ॥ इति च ॥ | |||
त्रिलोकप्राप्तिपरिघास्त्रयः सन्ति सदातनाः । | |||
तेषामग्न्यादिगो विष्णुरपहन्ता स्मृतो भवेत् ॥ | |||
मृतः सन्सुखभोगाय यत्र गच्छति तत्र ह । | |||
एकैकः परिघोऽग्रे स्याद्गते तस्मिंस्तु विष्णुना ॥ | |||
यजमानः पृथिव्यादिलोकान् भोगाय याति हि ॥ इति च । | |||
यस्त्राति यज्ञमातारं यज्ञमात्रा हरिस्तु सः । | |||
तमेवं वेत्ति यो भक्तो याति स्वर्मुक्तिमेव वा ॥ | |||
इति च ॥ २४ ॥ | |||
}} | }} | ||
[[Category:Chandogya]] | [[Category:Chandogya]] | ||
Revision as of 16:49, 9 April 2026
साधुत्वात् सामनामानं समस्तगुणपूर्तितः । समस्तं य उपासीत नारायणमनामयम् ॥ सर्वसाम्नां देवतेति स मुक्तः साधुधर्मभाग् ॥
इति सामसंहितायाम् ॥ १ ॥
उद्गच्छन्ति यतोऽस्माद्वा वासुदेवादिमूर्तयः ॥ प्रथमावताररूपत्वाद् वासुदेवः परः पुमान् । प्रस्तावो निधनं चापि सङ्कर्षण उदाहृतः ॥ सङ्कर्षणो हि संहर्ता प्रद्युम्नः परमेश्वरः । हिङ्कार इति सम्प्रोक्तो हीति सृष्टिरुदीर्यते ॥ प्रसिद्धता हि सृष्टिः स्यादनिरुद्धः परो विभुः । प्रतिहार इति प्रोक्तः स हि कार्येष्विदं जगत् ॥ प्रतिप्रति हरेन्नित्यं मूर्तिप्रतिहृतेस्तथा । ते पृथिव्यादिषु सदा तन्नामानः प्रतिष्ठिताः ॥ पृथिवीत्यादिशब्दार्थास्ते हि मुख्यत ईरिताः । तत्सम्बन्धात् तदर्थत्वं पृथिव्यादेरमुख्यतः ॥ प्रथनादेव सस्यादेः पृथिवीत्वमुदाहृतम् । अग्नित्वमदनाच्चैव ह्यन्तरीक्षणयोगतः ॥ अभावाद्व्यवधानस्य त्वन्तरिक्षमितीर्यते । आदानादायुषश्चैव स आदित्य उदीरितः ॥ द्यौः क्रीडाकारणत्वाच्च तत्सर्वं हि परे हरौ ॥ इति च । पञ्चात्मकं यो लोकेषु सदोपास्ते हरिं परम् । ऊर्ध्वाधःसंस्थितास्तस्य पञ्चैव दशमूर्तयः ॥
मोक्षादिकमभीष्टं यत्कल्पन्तेऽस्य सदैव हि ॥ इति च ॥ २ ॥
उपास्ते वृष्टिरस्मै स्याद्वर्षयत्यस्य मुक्तिगान् ॥
सर्वभोगांश्च भगवान् पञ्चरूपी जनार्दनः ॥ इति च ॥ ३ ॥
न चास्य मृतिरप्सु स्यादप्सुषद्भगवान् हरिः ॥ इति च । अप्सु स्थितनारायणवान् मुक्तो भवतीत्यर्थः ।
अपः सूत इत्यप्सूर्भगवान् । दीर्घलोपेनाप्सुमानिति वा ॥ ४ ॥
ऋतुनामानमृतुगमृतत्वादृतुनामकः । इत्युपासीत यो विष्णुं पञ्चात्मानममुष्य हि ॥ मोक्षादीन् कल्पते चास्य ऋतुसंस्थो जनार्दनः । रक्ष्यत्वात् तेन तद्वांश्च सदैव स्यादुपासकः ॥ इति च । वासस्य सुखकारित्वात् वसन्तः पुरुषोत्तमः । नीरादेर्गरणाद् ग्रीष्मो वर्षणाद्वर्ष उच्यते ॥
शं रातीति शरत्प्रोक्तो हेमन्तो हिमकारणात् ॥ इति च ॥ ५ ॥
मुक्तस्तद्वान् भवत्येव पशुषूपासको हरेः ॥ इति च । यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः । अविस्थस्त्वविरेवोक्तो ऊर्णया शीततोऽवनात् ॥ गौश्च सद्गतिहेतुत्वाद् गोस्थः स पुरुषोत्तमः । अश्वश्चैवाशुगन्तृत्वात् पुुरुषः पूर्तिहेतुतः ॥ इति च ।
भवन्ति हास्य पशव इति प्रसिद्धपशव एव । अजा इत्यादिबहुवचनं बहुरूपत्वाद्भगवतः ॥ ६ ॥
परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम् ॥ परोवरीयांस्येतानि विष्णो रूपाणि सर्वशः । तेषां विशेषो नैवास्ति सदा तानि समानि हि ॥ अत्युत्तमोत्तमान्येतान्यन्यस्मात् सर्वतोऽपि तु ॥ इति च । प्राणो नेतृत्वतो विष्णुर्वाक्सर्ववचनात् सदा । चक्षुश्च दर्शनान्नित्यं श्रोत्रं श्रवणहेतुतः ॥ मनो मन्तृत्वतश्चास्य ह्येक एव तु पञ्चधा ॥ इति च ।
परोवरीयो ब्रह्मास्य भवति सर्वापेक्षितदातृत्वात् ॥ ७ ॥
दुष्टोपद्रवकर्तृत्वान्नरसिंह उपद्रवः ॥ इति च । हुङ्कारसहिते वाक्ये प्रद्युम्नस्तु सदा स्थितः । आकारयुक्ते वाराहो वासुदेवः प्रसंयुते ॥ नारायणस्तथोद्युक्ते प्रतियुक्तेऽनिरुद्धकः । उपयुक्ते नृसिंहश्च नीतिसङ्कर्षणस्तथा ॥ अभावे यावदेते स्युस्तावत् तद्दैवतं स्मृतम् । एवं सप्तविधं विष्णुं य उपास्ते परं विभुम् ॥
वाङ्ग्नामा भगवांस्तस्य भवेत् सर्वार्थदोहकृत् ॥ इति च ॥ ८ ॥
सप्तरूपं साम चासौ सर्वदा समरूपतः ॥ सर्वेषां मां प्रतीत्येव दृष्टिसाम्याच्च साम सः । दृष्टिसाम्यं मण्डलस्य विष्णुस्तस्य च कारणम् ॥
तस्मिन्निमानि भूतानि सर्वाण्येवाश्रितानि हि ।
पश्वाधारस्तदात्माऽसौ वासुदेवस्तथोदये । आश्रयश्च नृणां तत्र वराहः सङ्गवे तु सः ॥ तत्र पक्ष्याश्रयो विष्णुस्तथा नारायणाभिधः । मध्यन्दिने स आधारो देवानां च ततः परम् ॥ अनिरुद्धस्स आधारो गर्भस्थानां सदैव हि । ततः परं नृसिंहाख्यः स आरण्याश्रयो मतः ॥ अथास्तमितवेलायां स सङ्कर्षण ईरितः । आश्रयः स पितॄणां च सप्तात्मकमुपास्य तम् ॥ प्राप्नोति परमं स्थानं मुक्तः संसारसागरात् ॥ इति च ॥ हिङ्कारनामानमाश्रितत्वादि्धङ्कुर्वन्ति । प्रस्तावाश्रयात् प्रस्तुतिकामाः प्रारम्भकामाः प्रशंसाकामाश्च । प्रारम्भावतारत्वात् प्रशंसादेवतात्वाच्च तस्य । सर्वाधारत्वाद् वराहस्य तदाधाराणां पक्षिणामनाधारेणैव गमनम् । नारायणनामार्थत्वेन सर्वगुणपूर्त्योपासनात् सर्वोत्तमा देवाः । इतरमूर्तीनामपि सर्वगुणपूर्त्योपासने नारायणोपासनमेव भवति । सर्वगुणपूर्त्यर्थत्वान्नारायणशब्दस्य । अनिरुद्धाश्रयत्वाद् गर्भाणां पितुः शरीरादन्यत्र प्रतिहृता अपि न विनश्यन्ति । वर्धन्ते च तत्रैव । अन्यदि्ध भुक्तं जीर्यत एव । धाता गर्भं दधातु ते इति च श्रुतिः । धाता हि भगवाननिरुद्धः । विष्णुस्त्वष्टा प्रजापतिर्धाता इति च चतुर्मूर्तयो ह्युच्यन्ते । योनिक्ऌप्तिर्वासुदेवाद्रूपं सङ्कर्षणाद्भवेत् । आसेककर्मा प्रद्युम्नादनिरुद्धाच्च धारणम् ॥ इति च । व्याप्तेर्विष्णुर्वासुदेवस्त्वष्टा त्वेषाद्द्वितीयकः । प्रजापतिः प्रजापातान्निषेकः पातनं ततः ॥ प्रजापतिस्तु प्रद्युम्नो धाता धारणकर्मतः । अनिरुद्ध इति प्रोक्तः कृष्णरामौ तथाश्विनौ ॥ इति च । कक्षश्वभ्रे नृसिंहस्य सदावस्थितिकारणात् । द्रवन्ति कक्षश्वभ्राभ्यां तदज्ञानेऽपि रक्षणात् ॥ मृगा भीता यतस्तेषां नृसिंहस्त्वाश्रयः सदा । पितॄणामाश्रयो यस्मात् सङ्कर्षण उदाहृतः ॥ अतस्तान् प्रति पिण्डादीन् निदधत्यज्ञका अपि । अन्यथा तन्मृतानां तु कुत एवोपतिष्ठति ॥ इति च । न रूपाणां विशेषोऽस्ति गुणतो नामतोऽपि वा । तथापि तत्प्रियं नाम नारायण इति स्म ह ॥ विशेषतः समस्तानां नाम्नां तस्यार्थ एव तु । विज्ञायते गुणैः पूर्तिर्नामसाम्यं तदा तथा ॥ इति च । नाम्नो नारायणाख्यस्य गुणैः पूर्तिं हि देवताः ।
विज्ञायार्थमुपास्यैव सर्वाधिक्यमथापिरे ॥ इति च ॥ ९ ॥
स आत्मसंमितो विष्णुरतिमृत्युरमृत्युतः ॥ प्रद्युम्नादिस्वरूपेण स विष्णुः सप्तधा स्थितः । समानि तानि सर्वाणि ज्ञानानन्दबलैस्तथा ॥ ज्ञानादित्रयवाचीनि त्र्यक्षराण्यपि सर्वशः । हिङ्कारादीनि नामानि सर्वेषामपि सर्वशः ॥ आदिनाम्नः प्रकारस्तु योज्यः स्यात् प्रतिहारतः । तेन त्र्यक्षरमेव स्यान्नामद्वयमपि प्रभोः ॥ उपद्रवे तु वःकारो यद्यपि व्यतिरिच्यते । नाम नारायणस्यैव सोऽपि क्षीराब्धिशायिनः ॥ व्यञ्जनस्वरसर्गैस्तु सोऽपि ज्ञानादिवाचकः ।
त्रिवर्णत्वात् समः सोऽपि ज्ञानाद्यैः पुरुषोत्तमः ॥
एकविंशार्णविज्ञानात् प्राप्योऽसौ सूर्यमण्डले ॥ स एव भगवान् विष्णुर्द्वाविंशद्रूपवान् यतः । तान्येव सप्तरूपाणि विभिद्यन्ते त्रिधा त्रिधा ॥ एकः पयोब्धिशयन इति द्वाविंशतिः प्रभोः । प्रद्युम्नाद्यास्तु चत्वारो द्विषण्मासेषु संस्थिताः ॥ त्रिशस्त्रिशः केशवाद्या वसन्तादिषु पञ्चमः । रूपद्वयं च षष्ठस्य स्थितं मत्स्यादिपञ्चकम् ॥ तृतीयं पृथिवीसंस्थं जामदग्न्याख्यमेव तत् । अन्तरिक्षद्युसूर्येषु सप्तमस्य त्रिधा तनुः ॥ रामः कृष्णः कल्किरिति तज्ज्ञानात् तान्यवाप्य च । द्वाविंशेन पयोब्धिस्थं प्राप्यते रूपमक्षरम् ॥ एतद् द्वाविंशकं रूपं नाकं चासुखवर्जनात् । पूर्णानन्दस्वरूपत्वाद्विशोकं शोकनाशनात् ॥
इति सामसंहितायाम् ।
स्वरूपमेकं प्राप्तस्तु विष्णोः स्यात् सर्वरूपगः । ऐक्यात् तथापि सम्प्राप्तिर्बहूपास्त्या सुखाधिका ॥ इति च । जयो नाम प्राप्तिरेव । धनजिते स्वर्जिते सत्राजित इत्यादिवत् । केशवदिरूपेण ललाटादिषु स्थितेरित एकविंश इत्युच्यते । चित्रादियोगदातृत्वान्मासनामा स्वयं हरिः ।
लोकः प्रकाशरूपत्वादादित्यश्चादनादपाम् ॥ इति च ॥ १० ॥
तद्वाचकं नियम्यं चेत्यतः प्रोतमितीर्यते ॥ प्राणस्थविष्णोः सामीप्यात् तत्स्थमेतदितीर्यते । क्वचिन्निर्देशसामीप्याद्विष्णोरेतदितीर्यते ॥ इति च । प्राणस्थविष्णुलाल्यत्वात् प्राणीत्येवाभिधीयते । मोक्षस्तु सर्वमायुस्तु स्यान्नित्यत्वाज्ज्योक्समस्तवित् ॥
इति च ॥ ११ ॥
तत्तत्क्रियैकहेतुत्वाद्योऽग्नौ ध्यायेज्जनार्दनम् ॥
रथन्तराश्रयं पञ्चरूपं स च विमुच्यते ॥ इति च ॥ १२ ॥
अत्यागी च स्वभार्याणां मुच्यते नात्र संशयः ॥ इति च ।
मिथो नयतीति मिथुनं भगवान् ॥ १३ ॥
पर्जन्यनामि्न चर्त्वाख्ये लोकाख्ये पशुसञ्ज्ञके ॥ अङ्गाख्ये देवताख्ये च सर्वाख्ये च प्रतिष्ठितम् । बृहदाद्यं च यो वेद मुच्यते नात्र संशयः ॥ समुद्रेकात् समुद्रस्तु देशनाद्दिश उच्यते । लोपकत्वाल्लोम च स्यात्तवोरूपस्त्वगुच्यते ॥ मादनात् साररूपत्वात् मांसोऽस्थि त्वासनात् स्थिरम् । मदस्य जननान्मज्जा सोऽङ्गमन्तिगतत्वतः ॥ वायुर्ज्ञानात्तथायुष्ट्वान्नक्षत्रं च स्वतन्त्रतः । चन्द्रमाः परमानन्दात् त्रैविद्यो ज्ञानरूपतः ॥ वयांसि व्ययनाच्चैव वीत्याकाशस्तथोच्यते । तत्रायनाद्वयः प्रोक्तो मरीचिर्मितरुक्त्वतः ॥ सर्पस्सर्पणहेतुत्वात् गन्धर्वो गोधरत्वतः । पिता स सृष्टिहेतुत्वात् सर्वं पूर्णगुणत्वतः ॥ एतैर्नामभिरुद्दिष्टो भगवान् पुरुषोत्तमः ॥ इति च । यादृश्येवोन्नतिर्योग्या तस्याः सर्वात्मनाऽऽयतिः । सर्वभावस्तु विज्ञेयो न तु सर्वस्वरूपता ॥ इति च । न च सर्वस्वरूपता पुरुषार्थः । नारकित्वादेरपि प्राप्तेः । न चार्थान्तरकल्पना युक्ता । प्रमाणाभावात् । असनान्मितिरूपत्वादस्मीत्युक्तः परो हरिः । तं सर्व इत्युपासीत पूर्णता सर्वता स्मृता ॥ इति च । सर्वमस्मीत्युत्तमपुरुषत्वे तेभ्यो न ज्यायःपरमन्यदस्तीति ज्यायःपरशब्दौ व्यर्थौ । अन्यस्य भावात् । अतस्ततोऽन्यदस्तीति सिद्धम् । अतस्ततोऽन्यत् परमज्याय एव नास्ति । ज्यायो लक्ष्मीर्विद्यते । परमज्यायस्तु भगवानेव । जीवैक्याङ्गीकारे यस्तद्वेदेति तच्छब्दोऽप्ययुक्तः । तदा स्वात्मानं वेदेत्येव स्यात् । न च प्रसिद्धभेदानुवादः । श्रुतिं विना तत्स्वरूपस्यैवासिद्धेः तद्भेदस्यातिशयेनासिदि्धः । ऐक्य ईश्वरस्य स्वज्ञानमस्तीति न तद्रूपस्य जीवस्याज्ञानादिकं युज्यते । औपाधिकभेदाङ्गीकारेऽप्युपाधिरुभयोरैक्यादुभयोरप्यज्ञत्वं कुर्यात् । उपाधिनिमित्तदोषाश्चोभयोरपि स्युः । उपाधिसम्बन्धस्य समत्वात् । उपाधिसम्बन्धस्यास्मिन्नन्यथा तस्मिन्नन्यथेति विशेषार्थमयमसाविति भेदस्योपाधिं विना स्वत एवापेक्षितत्वात् । अतः स्वतो भिन्नस्यैवोपाधिना विशेषो भवति । यस्तु भिन्नः स्वतः खादिस्तस्य भेदो ह्यबुदि्धनाम् । उपाधिभिर्ज्ञाप्य एव न तु भेदं स्वयं सृजेत् ॥ उपाधिरप्यभिन्नस्य भेदं साधयितुं क्वचित् । न क्षमः सिद्धभेदस्य ज्ञापकः स्यादबुदि्धनाम् ॥ आकाशा अप्यतस्त्वेते अनन्ता अप्कणादिवत् ॥ इति ब्रह्मतर्के । अतो न जीवेशाभेदः । न तु देवः स्वयं भूत्वा देवदेवं समर्चयेत् । समानव्यवहारे हि न पूज्यः पूजको भवेत् ॥ इति च परमसंहितायाम् । अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ अन्यदेव तद्विदितादथो अविदितादधि । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यति तद्वद ॥ नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । आधिपत्यमृते चैव भोगेन विषयेण च ॥ आनन्दादीनृते मुक्तास्सर्वे ते ब्रह्मणस्समाः ॥ इत्यादेश्च । प्रद्युम्नादीनि रूपाणि त्रीणि त्रीण्येव पञ्च च । ऋगादिस्थानभेदेन नित्याभिन्नानि चेशनात् ॥ इति सामसंहितायाम् । दृष्टवस्तुनो मिथ्यात्वाङ्गीकारे च युक्त्यपेक्षा । न तु सत्यत्वे । दृष्टस्य सत्यतायां तु युक्तिर्वाऽयुक्तिरेव वा । भूषणं तस्य मिथ्यात्वे युक्त्यभावोऽतिदूषणम् ॥ युक्तिश्च दोष एव स्याद्बलवन्मानवर्जिता ॥ इति ब्रह्मतर्के । न च शून्यत्वमिथ्यात्वयोः कश्चिद्विशेषः । तत्प्रमाणाभावात् । अतः सत्य एव भेदः । न च कदाचित् कस्यापि नासीदस्ति भविष्यतीति बुद्ध्यभावे व्यावहारिकसत्यमित्यत्रास्माकं विरोधः । तद्भावे च न शून्याद्विशेषः । सत्यमेनमनुविश्वे मदन्ति इत्यादिश्रुतेश्च सत्यो भेदः । प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ इत्यादिश्रुतेश्च । प्रपञ्चो भेदः यदि विद्येत भवेत उत्पद्येत तर्हि निवर्तेत । अतो न जीवेश्वरादिभेद उत्पद्यते किन्तु नित्य एव । अतो मायया भगवत् प्रज्ञानेन मातं रतं च मात्रम् । भगवाञ्जानाति रमते चास्मिन् भेद इति । तच्च भगवद्रूपमद्वैतम् । परमार्थो भगवांस्तद्रूपेणाद्वैतम् । यदद्वैतं नामोच्यते तत्परमार्थभगवदपेक्षयेत्यर्थः । स्वगतभेदो भगवति नास्तीत्युक्तम् । न च कल्पनामात्रो भेदः । यदि केनचित् कल्पितो विकल्पस्तथापि निवर्तेत । तस्मादुपदेशादयमेव वादः । केनापि तत्प्रसादं विनाऽविज्ञातत्वादज्ञातो भगवांस्तद्गतो भेदो न विद्यते इति । जीवेश्वरगतो जीवेष्वथ जीवजडात्मनोः । जडेशयोर्जडेष्वेवं पञ्चभेदः प्रपञ्चकः ॥ प्रकृष्टमोक्षहेतुत्वात् तज्ज्ञानं प्रेति कथ्यते । प्रकृष्टपञ्चकत्वाद्वा प्रपञ्चोऽयं प्रकीर्तितः ॥ यद्ययं सादिरेव स्यान्निवर्तेत कदाचन । न निवर्तते यतस्तेन नायं सादिर्भवेत् क्वचित् ॥ मायेति विष्णुविज्ञानं तन्मितत्वाच्च न क्वचित् । भ्रान्तत्वमस्य यद्विष्णोर्नैव भ्रान्तिः कदाचन ॥ रमते चात्र यद्विष्णुर्न हि भ्रान्तौ रमेद्धरिः । परमार्थे हरौ नैव भेदोऽस्ति जडजीववत् ॥ यद्ययं कल्पितो भेदः कस्मान्नैव निवर्तते । तस्माद्भूतभविष्याख्यभवदाख्यपराभिधाः ॥ तदन्ये चैक एवास्मिन्नोङ्काराख्ये जनार्दने । अज्ञातनामके तस्मिन्न भेदोऽस्ति कथञ्चन ॥ इति ब्रह्मतर्के । विदिः कादाचित्कस्वरूपलाभ इति च धातुः । भिद्येतेतिवद्विद्येतेतिशब्दः । परमार्थत इति विश्वतश्चक्षुरितिवत् सप्तम्यर्थे । परमार्थे द्वैतभाव एवेत्यर्थः । परमार्थः परमात्माऽद्वैत इति प्रथमार्थो वा । न हि विद्यमानं निवर्तत इति नियमः । उत्पद्यमानं हि प्रायो निवर्तते । जीवेश्वरप्रकृत्यादिकं बहुलं हि विद्यमानं न निवर्तते । न च कल्पितो विकल्प इति पक्षे कल्पितो यदीति यदिशब्दो युज्यते । न च निवर्तेत न संशयः विकल्पो विनिवर्तेत कल्पितो यदि इत्यादिनाऽनिष्टापादनरूपः शब्दो युज्यते । कल्पितत्वं चेच्छ्रुतेरभिप्रायः अविद्यमानोऽयं प्रपञ्चो निवर्तते कल्पितो विकल्पो विनिवर्तत इत्येव शब्दः स्यात् । न तु निवर्तेतेति । अतः सत्यताविषयमिदं वाक्यम् । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ इति निन्दनाच्च । विद्यात्मनि भिदाबोधः जुष्टं यदा पश्यत्यन्यमीशमस्य इत्यादिभेदज्ञानस्य प्रशंसनाच्च । अतोऽसनान्मितत्वाच्चास्मीति भगवान्नामैवैतत्
॥ २१ ॥
विष्णोः स्वरो वृषभवन्मेघनादवदेव वा । स्त्रीपशुस्वरवद् वह्नेर्गम्भीरोऽनुपमो विभोः ॥ ब्रह्मणस्त्वथ सोमस्य साक्षाद्घण्टानिनादवत् । मृदुमेघस्वरो वायोरिन्द्रस्य स्तनयित्नुवत् ॥ बृहस्पतेः क्रोञ्चवच्च वरुणस्य तु विस्वरः । एकस्य पादवर्षस्य स्वरो विष्णोरुदाहृतः ॥ वायोर्विंशतिवर्षस्य ब्रह्मणस्तु तदन्तरा ॥ इति च ।
गायेदेतैः स्वरैस्तस्माद्यथाशक्ति न विस्वरम् ।
अतो मोक्षादिदाने स देवादीनां क्षमो भवेत् । अन्येषां स ददातीह मद्धृदिस्थ इति स्मृतिः ॥ कार्या हि नान्यथा कुर्यादवमन्ताऽन्यथा भवेत् । देवानां मोक्षदानादौ न हि मानुष ईश्वरः ॥ अतः प्राणो हृदिस्थो मे ददातीति स्मृतिर्भवेत् । सङ्कल्पोक्त्यादिकर्ता च प्राण एव यतः सदा ॥ आगायानीति युज्येत तस्मात् तस्मिन् हि मुख्यतः । आत्मेति भगवान् विष्णुः प्राणस्थः पुरुषोत्तमः ॥ तस्मा अन्नं ह्यर्थतस्तु प्राणस्यान्नभुजिर्भवेत् । प्राणस्याप्यमृतत्वं हि मुख्यमेव फलं यतः ॥
देवान्तर्भावतो विष्णोर्नामृतत्वं क्व चादिमत् ।
ब्रूयादग्रस्तानिरस्तानूष्मणः स्पर्शानपि । समस्तान् बलदानार्थमिन्द्रे चैव प्रजापतेः ॥ विष्णोः स्वात्मानमेवाहमर्पये मृत्युवर्जितम् । मोक्षयोग्यान् करिष्यामीत्येवं स प्राण एव तु ॥ कुर्यादन्यस्तु मत्स्थस्तु प्राण एवेदृशः क्षमः । करोतीति स्मरेन्नित्यं नान्यथा तु कथञ्चन ॥ देवावमन्ता हि तमो यात्यसंशयतो यतः । अत इन्द्रं प्रजापाख्यं विष्णुं मृत्युं च सर्वदा ॥ शरणं गतोऽहमिति च ध्यायेत् सर्वत्र सर्वदा । ऐश्वर्यादिन्द्रनामा तु वायुः स्वरपतिः सदा ॥ ऊष्माधिपस्तु भगवान् विष्णुरेव प्रजापतिः । मृत्युनामा तु संहाराद्रुद्रः स्पर्शाधिपः स्मृतः ॥ मानुषाणां तु शरणमितरेषां तु वायुतः । वायोस्तु बलदानाद्यं मोक्षदानादिकं हरेः ॥ यस्माद् वायुपदे योग्या बहवस्त्विन्द्रनामकाः । अत इन्द्रे ददानीति स्मृतिः प्राणस्य युज्यते ॥ इति सामसंहितायाम् ॥ सर्वोपद्रवकर्तॄणामसुराणां कुबुदि्धनाम् । उपालम्भे कृते युक्तं विष्णुस्त्वां प्रतिपेक्ष्यति ॥ रुद्रस्त्वां धक्ष्यतीत्यादि नान्यथा तु कथञ्चन ॥ इति च । मृत्योस्सकाशादात्मानं परिहराणीति । ब्रह्मा प्रजापतिश्चेति विष्णुरन्यं प्रबोधयन् । तथेन्द्रनामा वायुश्च परेषां बोधको यदा ॥ इति च ।
बृंहयति, प्रजाः पाति, इदं रातीति व्युत्पत्तिभिः ॥ २२ ॥
तद्व्याख्यात्वात् सर्ववाचां सर्ववागात्मता भवेत् । इदं तु प्रस्तुतत्वात् स सर्वं चाप्यर्थपूर्णतः ॥ सर्वशब्दान्वितत्वाच्च न लिङ्गव्यत्ययो भवेत् । आधिक्यं चैव सर्वत्वं प्रस्तुतं तद्यथेति तत् ॥ इति च । अकाराद्याः क्रमेणैव भूरादेः साररूपिणः । अस्मादयं सार इति ज्ञानमेवाभितापनम् ॥ सम्प्रस्रावश्च तद्दृष्टिर्ब्रह्मणः परमस्य हि । नित्यज्ञानोऽपि भगवान् क्रीडयाऽचीक्ऌपद्यदा ॥ तदाभितापशब्दोऽयं वर्तते परमात्मनि ॥ इति च । तपःशब्देनैव यतिधर्मश्चोक्तः । सर्वेषामाश्रमस्थानामज्ञानां पुण्यलोकता । अपरोक्षदृशां विष्णोरमृतत्वं न चान्यथा ॥ इति च । यज्ञाध्ययनदानैस्तु गृही स्यात् सोमलोकगः । यतयस्तपसा सूर्यं चत्वारोऽपि विशेषतः ॥ गच्छन्ति तपसैवर्षीन् वनस्था ब्रह्मचारिणः । नैष्ठिका वालखिल्यांश्च गुरुशुश्रुषयैव तु ॥ यदि पश्यन्त्येत एव साक्षादेव जनार्दनम् । अमृतत्वं तदा यान्ति नान्यथा तु कथञ्चन ॥ इति च । न च संन्यासमात्रेणामृतत्वम् । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते इति श्रुतेः । विद्यैव तु निर्धारणात् इति च भगवद्वचनम् । न रोधयति मां धर्मो न साङ्ख्यं योग उद्धव । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ इत्यादि च । न च संन्यसनादेव सिदि्धं समधिगच्छति इति च । तस्य पुत्रा दायमुपयन्ति इत्यादेर्गृहस्थादीनामपि ज्ञानिनां मोक्षः प्रतीयते । सर्ववर्णाश्रमाणां च ज्ञानान्मोक्षो विनिश्चितः । अन्त्यानां स्थावराणां वा तथापि यतिरुत्तमः ॥ ज्ञानद्वारो यतो न्यासो विशेषेण भविष्यति ॥ इति च ।
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । इति च ॥ २३ ॥
तन्नामानं हरिं मन्त्रैर्लोकद्वारादिभिः प्रभुम् ॥ प्रार्थयित्वा दिवं त्वज्ञो ज्ञो मोक्षं प्राप्नुयात् तथा । यजमानो नान्यथा तु लोकोऽस्य प्राप्यते वरः ॥ राजनं पृथिवीलोके राज्यमित्युच्यते बुधैः । विराज्यमन्तरिक्षे तु स्वाराज्यं स्वर्गगं भवेत् ॥ एतेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम् । श्वेतद्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः ॥ अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति च । यो देवानां नामधा एक एव इति श्रुतेश्च भगवत एव वस्वादिनामानि । त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते इति वचनाच्च भगवानेव प्रार्थ्यः । भगवत्स्वरूपस्य सम्यगपरिज्ञानाद्रागाच्च तेषामन्तवत् फलवत्वम् । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । गतागतं कामकामा लभन्ते इति वचनात् । सर्वोत्तमत्वस्याज्ञानाद्विष्णोरन्धन्तमो भवेत् । तद्द्वेषात् किमु वक्तव्यं ब्रह्मादिद्वेषतोऽपि वा ॥ तारतम्यापरिज्ञानादनुत्थानं तमो भवेत् । अपराधकृतस्तेषां निरयं त्वेव गच्छति ॥ पूजाया अकृतेस्तेषां न वर्णेषु जनिर्भवेत् । सम्यक्कर्माननुष्ठानात् स्वर्गं नैवोपगच्छति ॥ अपरोक्षदृशेरौन्यान्मोक्षं नैवोपगच्छति ॥ इति च । पूर्वपूर्वगुणैर्दोषानशक्ता उत्तरोत्तराः । स्थानद्वयोत्तरे शक्ता मोक्षो नानपरोक्षिणः ॥ विरुद्धरागिणां नैव ह्यपरोक्षदृशिर्भवेत् । यावद्रागविनाशः स्याद्विरक्तो भक्तिसंयुतः ॥ सर्वदैवाप्रमत्तश्च पश्येदेव हरिं परम् । अविस्मृतिस्सदा विष्णोरन्यथाज्ञानवर्जनम् ॥ शास्त्राभ्यासः सदोद्योगाच्छ्रवणाच्च विचारतः । निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिः सदा ॥ अप्रमाद इति प्रोक्तः शास्त्रं वेदास्तु पञ्च च । भारतं पञ्चरात्रं च मूलरामायणं तथा ॥ पुराणं भागवतं चैव पञ्चमो वेद उच्यते ॥ इति च ॥ त्रिलोकप्राप्तिपरिघास्त्रयः सन्ति सदातनाः । तेषामग्न्यादिगो विष्णुरपहन्ता स्मृतो भवेत् ॥ मृतः सन्सुखभोगाय यत्र गच्छति तत्र ह । एकैकः परिघोऽग्रे स्याद्गते तस्मिंस्तु विष्णुना ॥ यजमानः पृथिव्यादिलोकान् भोगाय याति हि ॥ इति च । यस्त्राति यज्ञमातारं यज्ञमात्रा हरिस्तु सः । तमेवं वेत्ति यो भक्तो याति स्वर्मुक्तिमेव वा ॥
इति च ॥ २४ ॥