Bhagavatatatparyanirnaya/C10/S43: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 3: | Line 3: | ||
| chapter_num = 10 | | chapter_num = 10 | ||
| title = त्रिचत्वारिंशोऽध्यायः | | title = त्रिचत्वारिंशोऽध्यायः | ||
}} | }}{{VerseBlock | ||
{{VerseBlock | |||
| verse_id = BTN_C10_S43_V01 | | verse_id = BTN_C10_S43_V01 | ||
| document_id = BTN | | document_id = BTN | ||
| Line 105: | Line 104: | ||
| id = BTN_C10_S43_V14_B1 | | id = BTN_C10_S43_V14_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः | 'सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः । | ||
दर्शयेद्वसुदेवादेरात्मनो जीवतामपि ॥ | |||
अज्ञाशक्त्यादिभावस्तु कुतस्तस्याखिलेशितुः । | |||
कुतो दोषा सर्वगुणपूर्णस्यानन्दवारिधेः''॥ इति वामने ॥१-९,१४॥ | |||
}} | }} | ||
[[Category:Bhagavatatatparyanirnaya]] | [[Category:Bhagavatatatparyanirnaya]] | ||
Revision as of 16:48, 9 April 2026
श्रीशुक उवाच– पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥
उवाच पितरावेत्य साग्रजः सात्वतर्षभः । प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥॥
नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥(भा.मू
सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥
यस्तयोरात्मजः कल्प आत्मना च धनेन च ।वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृतः ॥ ७ ॥
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥
तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदोर्भृशम् ॥ ९ ॥
मयि भृत्य उपासीने भवतो विबुधादयः ।बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे त्रिचत्वारिंशोऽध्यायः ॥
'सर्वोत्तमोऽपि भगवान् गुणाभावं जनार्दनः ।
दर्शयेद्वसुदेवादेरात्मनो जीवतामपि ॥ अज्ञाशक्त्यादिभावस्तु कुतस्तस्याखिलेशितुः ।
कुतो दोषा सर्वगुणपूर्णस्यानन्दवारिधेः॥ इति वामने ॥१-९,१४॥