Aitareya/C2/S5: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 3: | Line 3: | ||
| chapter_num = 2 | | chapter_num = 2 | ||
| title = पञ्चमोऽध्यायः | | title = पञ्चमोऽध्यायः | ||
}} | }}{{VerseBlock | ||
{{VerseBlock | |||
| verse_id = AIT_C02_S05_V01 | | verse_id = AIT_C02_S05_V01 | ||
| document_id = AIT | | document_id = AIT | ||
| Line 18: | Line 17: | ||
| id = AIT_C02_S05_V01_B01 | | id = AIT_C02_S05_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अयं नारायणो देवः पुरुषे प्रथमं विशेत् । | अयं नारायणो देवः पुरुषे प्रथमं विशेत् । | ||
अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ॥ | |||
तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः । | |||
तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ॥ | |||
स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः । | |||
प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ॥ | |||
नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ । | |||
पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ॥ | |||
सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । | |||
सम्भावनं कुमारस्य जानतः केशवे भवेत् ॥ | |||
तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । | |||
पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ॥ | |||
स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् । | |||
अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥ | |||
}} | }} | ||
| Line 61: | Line 59: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि । | पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि । | ||
एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ॥ | |||
पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः । | |||
पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ॥ | |||
अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् । | |||
सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ॥ | |||
नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् । | |||
यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥ | |||
भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम् ॥ | |||
इत्यैतरेयसंहितायाम् । | |||
}} | }} | ||
| Line 79: | Line 76: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नात्र जीवोत्पत्तिमात्रमुच्यते । न हि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति । ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं पश्वादिभिरपि । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा इत्युक्तार्थ उदाहृतमन्त्रे देवजन्मकथनाच्च । विष्णुर्हि परमो देवः । तेनैव सह सर्वेऽपि देवा जीवदेहजनने जायन्त इव । शरीरप्राप्तिरेव हि जन्मान्येषामपि । अयमेव विशेषो देवानां दुःखाभोगः । स्वातन्त्र्यं च विष्णोः । | नात्र जीवोत्पत्तिमात्रमुच्यते । न हि जीवोत्पत्तिमात्रपरिज्ञानादमृतत्वं भवति । ज्ञातमेव सर्वैः पितापुत्रसम्बन्धमात्रं पश्वादिभिरपि । गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा इत्युक्तार्थ उदाहृतमन्त्रे देवजन्मकथनाच्च । विष्णुर्हि परमो देवः । तेनैव सह सर्वेऽपि देवा जीवदेहजनने जायन्त इव । शरीरप्राप्तिरेव हि जन्मान्येषामपि । अयमेव विशेषो देवानां दुःखाभोगः । स्वातन्त्र्यं च विष्णोः । | ||
आत्मन्येवात्मानं बिभर्ति आत्मानमेव तद्भावयतीत्याद्यात्मशब्दश्च मुख्यतो विष्णावेव युज्यते । णकारो बलं षकारः प्राण आत्मेति विष्णुशब्दार्थैकदेशवाचित्वाच्चात्मशब्दस्य । एतया द्वारा प्रापद्यतेति तस्यैव शरीरप्रवेशस्य प्रस्तुतत्वाच्च । जीवशरीरं परित्यज्यान्यत्रगमनमात्रं विष्णोरप्यस्तीति प्रैतीत्युक्तेऽप्यविरोधः । कृष्णराघवादिस्वरूपमेव ह्यसौ न परित्यजति । | |||
}} | }} | ||
| Line 89: | Line 85: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च । | कृष्णो ह्यत्यक्तदेहोऽपि त्यक्तदेहवदेव च । | ||
लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥ | |||
येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि । | |||
पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ॥ | |||
स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः । | |||
यत्तद्रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ॥ | |||
अद्यापि तद्देवलोके पूज्यते सर्वदैवतैः ॥ इत्यादि स्कान्दे । | |||
}} | }} | ||
| Line 104: | Line 99: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् । | प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् । | ||
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ | |||
इति च भागवते । | |||
}} | }} | ||
| Line 115: | Line 109: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्रेतां यज्ञस्य शम्भुवेत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेऽपि प्रयुज्यते । एषामवेदमहमित्यत्रापि जीवभेद एवोक्तः । अन्यथा मम जनिमानीत्येवोच्येत । व्यर्थता चैषामित्यादिविशेषणानाम् । अवेदमित्यनेनैव स्वस्य सिद्धत्वादहमित्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः । तस्मादहं मनुरित्यादावप्यहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेवाभवमित्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते । | प्रेतां यज्ञस्य शम्भुवेत्यादिवत् प्रकृष्टगतिवाच्येवायं शब्दः । प्रकृष्टगतित्वादेव च मरणेऽपि प्रयुज्यते । एषामवेदमहमित्यत्रापि जीवभेद एवोक्तः । अन्यथा मम जनिमानीत्येवोच्येत । व्यर्थता चैषामित्यादिविशेषणानाम् । अवेदमित्यनेनैव स्वस्य सिद्धत्वादहमित्यप्यहेयत्वेनेति क्रियाविशेषणम् । जन्म जानन्नपि देवानां दुःखादिहेयरहितत्वेन व्यजानामीत्यर्थः । तस्मादहं मनुरित्यादावप्यहेयगुणं भगवन्तमेवाहंशब्दो वक्ति । सर्वान्तरत्वात् तस्मिन्नेवाभवमित्युत्तमपुरुषशब्दोऽपि सर्वो वर्तते । | ||
| Line 124: | Line 117: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
ओयत्वादहं विष्णुः स तु सर्वान्तरत्वतः । | ओयत्वादहं विष्णुः स तु सर्वान्तरत्वतः । | ||
अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥ | |||
इति ब्रह्मवैवर्ते । | |||
}} | }} | ||
| Line 135: | Line 127: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न च मूढव्यवहार एव वेदनिर्णयाय भवति । किन्तु सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम् । तस्मात् सर्वजीवादिभ्योऽन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः । | न च मूढव्यवहार एव वेदनिर्णयाय भवति । किन्तु सर्वेषामनुभवो युक्तयश्च वाक्यान्तरं च निर्णयकारणम् । तस्मात् सर्वजीवादिभ्योऽन्यः सर्वोत्तमो विष्णुरेवात्रोक्तः । | ||
| Line 144: | Line 135: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न वेदेषु पदं ककिञ्चिद्वर्णो वा व्यर्थ इष्यते । | न वेदेषु पदं ककिञ्चिद्वर्णो वा व्यर्थ इष्यते । | ||
यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥ | |||
इति शब्दनिर्णये ॥ | |||
}} | }} | ||
| Line 155: | Line 145: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
शब्दा रेतोन्नमित्याद्या अपि तत्र गतं हरिम् । | शब्दा रेतोन्नमित्याद्या अपि तत्र गतं हरिम् । | ||
वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥ | |||
इति च । | |||
}} | }} | ||
| Line 166: | Line 155: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
भावयति सम्भावयति । सोऽग्र एव सोऽग्र्यो विष्णुरेव । पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत्तस्यैव भवति । एवं भावयतामेवैष पन्था उरुगाय इत्याद्यपि । तं पश्यन्ति पशव इत्याद्यपि दिव्यपश्वादीनामेव । अन्येषां स्वभावप्रवृत्तिः । ता एव देवताः शतं पुर आयसीर्ज्ञानिन्यो विशेषतः । अय पय गताविति धातोः । मानुषानपेक्ष्य पूर्णत्वात् पुरः । विष्णुर्मुख्यत एव पूर्णः । न च शरीरैर्जीवो रक्षितः । मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः । शमस्य विद्यते इति शी विष्णुः । पूर्णानन्दत्वात् । स एव ज्ञानत्वाद्यश्चेति श्यः । सोऽस्य जीवस्येन इति श्येनः । विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । निरदीयं निष्क्रम्यातीतोऽस्मि गर्भवासम् । | भावयति सम्भावयति । सोऽग्र एव सोऽग्र्यो विष्णुरेव । पुत्रसम्भावनमपि तत्रस्थं विष्णुं सम्भावयामीति तत्तस्यैव भवति । एवं भावयतामेवैष पन्था उरुगाय इत्याद्यपि । तं पश्यन्ति पशव इत्याद्यपि दिव्यपश्वादीनामेव । अन्येषां स्वभावप्रवृत्तिः । ता एव देवताः शतं पुर आयसीर्ज्ञानिन्यो विशेषतः । अय पय गताविति धातोः । मानुषानपेक्ष्य पूर्णत्वात् पुरः । विष्णुर्मुख्यत एव पूर्णः । न च शरीरैर्जीवो रक्षितः । मुख्ये युज्यमाने च नामुख्यार्थः कल्प्यः । शमस्य विद्यते इति शी विष्णुः । पूर्णानन्दत्वात् । स एव ज्ञानत्वाद्यश्चेति श्यः । सोऽस्य जीवस्येन इति श्येनः । विष्णुं स्वामिनं ज्ञात्वेत्यर्थः । निरदीयं निष्क्रम्यातीतोऽस्मि गर्भवासम् । | ||
| Line 175: | Line 163: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
स्वर् आनन्दो विष्णुः । अत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति । अपेक्षितवस्तुस्वीकारः आप्तिः । सम्भवो भोगः । तां समभवत् ततो मनुष्या आजायन्तेत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगानामपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन् सर्वान् कामानाप्त्वेत्यर्थः । | स्वर् आनन्दो विष्णुः । अत्रग इति स्वर्गलोको विष्णुलोकः । अमृतः सन् सर्वान् कामानाप्त्वा तानेव सर्वान् कामान् समभवदनुभवति । अपेक्षितवस्तुस्वीकारः आप्तिः । सम्भवो भोगः । तां समभवत् ततो मनुष्या आजायन्तेत्यादिवत् । मुक्त्यनन्तरमेव ह्यनुपचरितसर्वकामावाप्तिः । मुख्य एव चार्थः स्वीकार्यः । अमुक्तानां विष्णुलोकगानामपि न सर्वकामावाप्तिः । जयविजयादीनामप्रियदर्शनात् । अतोऽमृतः सन् सर्वान् कामानाप्त्वेत्यर्थः । | ||
| Line 184: | Line 171: | ||
| id = AIT_C02_S05_V02_B01 | | id = AIT_C02_S05_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः । सर्वानपि निरातङ्कः सर्वदा च हरेर्वशः ॥ इति सत्तत्त्वे ॥ | मुक्तः कामानवाप्नोति भुङ्क्ते चैव यथेष्टतः । सर्वानपि निरातङ्कः सर्वदा च हरेर्वशः ॥ इति सत्तत्त्वे ॥ | ||
Revision as of 16:44, 9 April 2026
अन्नस्थोऽन्नेन सहितस्तस्मिन् रेतस्त्वमागते ॥ तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ॥ स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः । प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ॥ नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ । पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ॥ सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । सम्भावनं कुमारस्य जानतः केशवे भवेत् ॥ तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ॥ स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् ।
अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ॥
एतद्रूपं निधायैव जीवार्थे धर्मकर्तवे ॥ पितृस्थेन तु रूपेण गच्छत्यन्यत्र केशवः । पितुरन्यत्र जननं तृतीयं जन्म तद्धरेः ॥ अन्तर्यामितयैवं हि सर्वजीवेषु संस्थितम् । सर्वदोषोज्झितं विष्णुं कर्तारं सर्वकर्मणाम् ॥ नित्यानन्दं स्वतन्त्रं च सर्वज्ञं सर्वतोऽधिकम् । यो वेद देहबन्धात् स विमुक्तो नित्यमुत्तमान् ॥ भोगान् भुङ्क्ते यथायोग्यमिति वेदानुशासनम् ॥
इत्यैतरेयसंहितायाम् ।लोकानां दर्शयामास स्वरूपसदृशाकृतिम् ॥ येन रूपेण कंसादीन् जघ्ने तद्रूपमेव हि । पूज्यतेऽद्यापि शर्वाद्यैर्निर्मिताऽन्या शवाकृतिः ॥ स्वर्गारोहणकाले तु जनास्तेनैव मोहिताः । यत्तद्रूपं निजं विष्णोर्दृष्टं सर्वजनैर्भुवि ॥
अद्यापि तद्देवलोके पूज्यते सर्वदैवतैः ॥ इत्यादि स्कान्दे ।आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥
इति च भागवते ।अस्यस्मीत्यादिभिः शब्दैरुच्यतेऽन्योऽपि जीवतः ॥
इति ब्रह्मवैवर्ते ।यथायोग्यं चार्थभेद ऊह्यः सर्वत्र वेदिभिः ॥
इति शब्दनिर्णये ॥वदन्त्यविष्णुवाची हि न शब्दः क्वचिदिष्यते ॥
इति च ।