Aitareya/C2/S2: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 3: | Line 3: | ||
| chapter_num = 2 | | chapter_num = 2 | ||
| title = द्वितीयोऽध्यायः | | title = द्वितीयोऽध्यायः | ||
}} | }}{{VerseBlock | ||
{{VerseBlock | |||
| verse_id = AIT_C02_S02_V01 | | verse_id = AIT_C02_S02_V01 | ||
| document_id = AIT | | document_id = AIT | ||
| Line 17: | Line 16: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
एष नारायणो देवो वायुना सहेमं लोकमभ्यार्चत् । ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याख्या पुरि शेत इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु । य एष सूर्यमण्डले स्थित्वा तपति स भगवान् नारायणः । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद इत्यादिश्रुतिभ्यः । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्युक्त्वा तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान्नारायणः । यमादित्यो न वेदेत्युक्तत्वान्नादित्यः । भेदव्यपदेशाच्चान्यः इति भगवद्वचनम् । | एष नारायणो देवो वायुना सहेमं लोकमभ्यार्चत् । ब्रह्मादिशरीरेषु प्रविवेश । पुरुष इत्यन्तर्यामिरूपस्याख्या पुरि शेत इति । प्रसिद्धत्वाच्च पञ्चरात्रेषु । य एष सूर्यमण्डले स्थित्वा तपति स भगवान् नारायणः । य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद इत्यादिश्रुतिभ्यः । य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्युक्त्वा तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्युक्तत्वान्न शिवादयः । शिवो हि विरूपाक्षः । प्रसिद्धश्च पुण्डरीकाक्ष इति भगवान्नारायणः । यमादित्यो न वेदेत्युक्तत्वान्नादित्यः । भेदव्यपदेशाच्चान्यः इति भगवद्वचनम् । | ||
| Line 26: | Line 24: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे । | वृत्रं यदिन्द्र शवसावधीरहिमादित् सूर्यं दिव्यारोहयो दृशे । | ||
यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥ | |||
सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि। | |||
चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत । | |||
यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः । | |||
उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य । | |||
येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । | |||
यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः । | |||
तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः | |||
इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च । | |||
}} | }} | ||
| Line 44: | Line 41: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
ध्येयः सदा सवितृमण्डलमध्यवर्तीनारायणः सरसिजासनसन्निविष्टः । | ध्येयः सदा सवितृमण्डलमध्यवर्तीनारायणः सरसिजासनसन्निविष्टः । | ||
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥ | |||
इति नारसिंहपुराणे । | |||
}} | }} | ||
| Line 55: | Line 51: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तापनी पाचिका चैव शोषणी च प्रकाशनी । | तापनी पाचिका चैव शोषणी च प्रकाशनी । | ||
नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य सा ॥ इति पाद्मे । | |||
}} | }} | ||
| Line 65: | Line 60: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । | यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । | ||
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ | |||
इति च । | |||
}} | }} | ||
| Line 76: | Line 70: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न च विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया । | न च विष्णोरन्याधीनत्वं श्रुतिषूक्तं कुत्रचित् । उत्पत्तिस्तु प्रादुर्भावापेक्षया । | ||
एको नारायण आसीन्न ब्रह्मा न च शङ्करः इति महाप्रलये तस्यैवावस्थानश्रुतेः । | |||
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं मम योनिरप्स्वं१तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा परो दिवा पर एना पृथिव्या इत्याह । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन् इति ब्रह्मरुद्रयोर्देव्यास्सकाशात् सृष्टिसंहारौ चोक्तौ । | |||
}} | }} | ||
| Line 87: | Line 80: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । | अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । | ||
विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥ | |||
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च । | |||
}} | }} | ||
| Line 98: | Line 90: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तमेताः सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति मध्यमशब्दोक्तस्य प्राणः स्थूणा इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डलस्थस्तपतीत्यादि सिद्धम् । | तमेताः सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः इत्यादिना शिवादिसर्वदेवोपास्यस्य वायोः अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति मध्यमशब्दोक्तस्य प्राणः स्थूणा इति प्राणशब्दोदितो नारायण आश्रय उक्तः । तस्मात् सर्वोत्तमो भगवान् नारायणः प्राणशब्दोदित आदित्यमण्डलस्थस्तपतीत्यादि सिद्धम् । | ||
| Line 107: | Line 98: | ||
| id = AIT_C02_S02_V01_B01 | | id = AIT_C02_S02_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । | क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः । | ||
आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥ | |||
शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । | |||
मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥ | |||
विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः । | |||
तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥ | |||
नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । | |||
कुत एवाधिकोऽन्यः स्याद्यन्मुक्ता अपि तद्वशाः ॥ | |||
रमापि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । | |||
न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥ | |||
कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥ | |||
इति च महासंहितायाम् ॥ | |||
}} | }} | ||
| Line 137: | Line 127: | ||
| id = AIT_C02_S02_V02_B01 | | id = AIT_C02_S02_V02_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
स पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथासन्तं मुख्यत आचक्षते । ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च । | स पुरुषेषु शतवर्षं गत इति शतर्चिनामा । बहुरूपत्वाद् बहुवचनम् । एतमेव तथासन्तं मुख्यत आचक्षते । ऋषींस्तूपचारतः । आत्मन उदरे धृतवान् मध्ये स्थित्वा धृतवांश्च । | ||
| Line 158: | Line 147: | ||
| id = AIT_C02_S02_V03_B01 | | id = AIT_C02_S02_V03_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्राणस्थः प्राणनामासावपानेऽपाननामकः । | प्राणस्थः प्राणनामासावपानेऽपाननामकः । | ||
नेतृत्वाच्चापनेतृत्वाद्भगवान् पुरुषोत्तमः ॥इति च । | |||
वामो भद्रः ॥ १ ॥ | |||
}} | }} | ||
| Line 181: | Line 169: | ||
| id = AIT_C02_S02_V04_B01 | | id = AIT_C02_S02_V04_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
वसिष्ठो वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् । | वसिष्ठो वसतामुत्तमः । अभ्यपवयत पावयामास संसारात् । | ||
| Line 199: | Line 186: | ||
| id = AIT_C02_S02_V05_B01 | | id = AIT_C02_S02_V05_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तद्विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत् । बतेत्यास्वादने । स्वात्मनैव स्वयं सुष्टूक्तमिति वा । इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत् । तस्मात् क्षुद्रोऽसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिताः भगवद्रूपसङ्घाः । महानसानीत्युक्तत्वात् महासूक्ता महाप्राणिषु स्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । न तु सामर्थ्याऽल्पत्वात् । न हि सामर्थ्यादिगुणेषु कश्चिद्विशेषो भगवद्रूपेषु । | तद्विष्ण्वाख्यं ब्रह्म सूक्तान्यवोचतेति सूक्तनामकमभवत् । बतेत्यास्वादने । स्वात्मनैव स्वयं सुष्टूक्तमिति वा । इदं सर्वं परिपूर्णं सन्नहमल्पप्राणिषु प्रविश्य सूक्ष्मरूपो महाप्राणिषु महारूपश्च भवानीति स भगवानब्रवीत् । तस्मात् क्षुद्रोऽसानीत्युक्तत्वात् क्षुद्रसूक्तास्ते क्षुद्रप्राणिषु स्थिताः भगवद्रूपसङ्घाः । महानसानीत्युक्तत्वात् महासूक्ता महाप्राणिषु स्थिताः । सूक्ष्मरूपत्वादेव क्षुद्रनाम भगवतः । न तु सामर्थ्याऽल्पत्वात् । न हि सामर्थ्यादिगुणेषु कश्चिद्विशेषो भगवद्रूपेषु । | ||
| Line 218: | Line 204: | ||
| id = AIT_C02_S02_V06_B01 | | id = AIT_C02_S02_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
एभ्यः प्राणिभ्यो गतवानिति ऋक् । गच्छति हि मरणकाले । | एभ्यः प्राणिभ्यो गतवानिति ऋक् । गच्छति हि मरणकाले । | ||
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते बुधैः इति हि भारते । | |||
}} | }} | ||
| Line 228: | Line 213: | ||
| id = AIT_C02_S02_V06_B01 | | id = AIT_C02_S02_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
म्रियमाणमिमं जीवं वासुदेवादिदेवताः । | म्रियमाणमिमं जीवं वासुदेवादिदेवताः । | ||
त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥ | |||
गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । | |||
भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥ | |||
इति च ॥ | |||
}} | }} | ||
| Line 241: | Line 225: | ||
| id = AIT_C02_S02_V06_B01 | | id = AIT_C02_S02_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अर्च गतिपूजनयोः ऋ गतौ इति धातोः । सर्वेभ्योऽर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः । सर्वाणि भूतान्यपादि । पद गतौ । तस्मात् पदं नाम । अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । क्षर विनाशसन्ततदानयोः इति धातोः ।एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि । | अर्च गतिपूजनयोः ऋ गतौ इति धातोः । सर्वेभ्योऽर्धेभ्यः स्थानेभ्यः शरीरेभ्यो गतवानित्यर्धर्चः । सर्वाणि भूतान्यपादि । पद गतौ । तस्मात् पदं नाम । अधिकं क्षरतीत्यक्षरम् । क्षरणं नाम सन्ततदानम् । क्षर विनाशसन्ततदानयोः इति धातोः ।एवमृषिषु शब्देषु च व्यवह्रियमाणानि सर्वाणि नामानि विष्णोरेव मुख्यतः । किमु देवतानामानि । | ||
| Line 250: | Line 233: | ||
| id = AIT_C02_S02_V06_B01 | | id = AIT_C02_S02_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या । | यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या । | ||
इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान् । | |||
यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । | |||
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥ | |||
इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः । सर्वे वेदा अपि तस्यैव नामानि । किमु च वेदाः । समुद्रमेघवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति । प्राणे नारायणे एवेति विद्यात् । | |||
}} | }} | ||
| Line 263: | Line 245: | ||
| id = AIT_C02_S02_V06_B01 | | id = AIT_C02_S02_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उक्तं च बृहत्संहितायाम्– | उक्तं च बृहत्संहितायाम्– | ||
हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् । विष्णोर्वक्ति यतो हुं च पराभिभववाचकः ॥ | |||
ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः । | |||
बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ॥ | |||
ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च । | |||
नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥ | |||
अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः । | |||
तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥ | |||
उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः । | |||
विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥ | |||
एकप्रकारतां विष्णोः सदाचाल्यां वदत्यपि । | |||
इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥ | |||
वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा । | |||
मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ॥ | |||
तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः । | |||
वर्षणाद् वृष उद्दिष्टो बलनाद्बलिनामकः ॥ | |||
तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते । | |||
सर्वनामापि भगवान् सर्वशक्तिश्च सर्ववित् ॥ | |||
ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु । | |||
व्यतिरिक्तः सदानन्तसान्द्रानन्दैकरूपकः ॥ | |||
तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि । | |||
उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥ | |||
तथैव सर्वनामानि प्रवर्तन्ते च मारुते । | |||
न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया ॥ | |||
मुख्यतः सर्वनामा तु विष्णुरेको न चापरः । | |||
तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥ | |||
अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते । | |||
वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ॥ | |||
आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥ | |||
इत्यादि च । | |||
न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणो ह्येष य एष तपतीत्युक्तम् । प्राणाद्वा एष उदेति प्राणेऽस्तमेति इति श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । प्राणस्य प्राणः इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव । अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् । | |||
द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ । | |||
अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥ | |||
तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च । | |||
अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ॥ | |||
मध्यमो वायुरेवैक उत्तमः केवलो हरिः । | |||
सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ॥ | |||
अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित्। | |||
श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥ | |||
तस्मादमितनामानावपि तौ मितनामवत् । | |||
श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥ | |||
अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः । | |||
पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥ | |||
इत्यादि ब्रह्माण्डे ॥ २ ॥ | |||
}} | }} | ||
| Line 326: | Line 307: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः । तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम् । तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेत इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तमित्यादिना ॥ | अन्यदेवताविषयत्वेन प्रतीयमाना अप्यृचो भगवद्विषया एव मुख्यतः । तदनन्तरं वायुविषयाश्च । तस्माद् बृहतीसहस्रं सर्वं मुख्यतो नारायणस्यान्नम् । तदाज्ञया वायोश्च । तस्मात् तच्छंसनेन भगवान् वायुश्चातिप्रीयेत इति दर्शयति विश्वामित्रं ह्येतदहः शंसिष्यन्तमित्यादिना ॥ | ||
| Line 335: | Line 315: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये । | वृत्रं हत्वा पुरेन्द्रस्तु महेन्द्रत्वाभिपत्तये । | ||
महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः ॥ | |||
भृगुरध्वर्युरभवद् ब्रह्मा ब्रह्माऽभवत् स्वयम् । | |||
उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥ | |||
सादस्यमकरोत् तत्र तदन्येऽन्येऽपि चर्त्विजः । | |||
बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥ | |||
वायुना सह देवेशस्तदा वासवमाविशत् । | |||
आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ॥ | |||
शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः । | |||
ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ॥ | |||
तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । | |||
द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥ | |||
प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् । | |||
अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥ | |||
तृतीयं च शशंसास्मै विष्णोरन्नं प्रकल्प्य तत् । | |||
ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ॥ | |||
ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः । | |||
प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥ | |||
वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् । | |||
सम्यक्त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥ | |||
इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः । | |||
सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ॥ | |||
यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु । | |||
न हि दोषाभिधायीनि विष्णोर्नामानि कानिचित् ॥ | |||
अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । | |||
सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥ | |||
सर्वोत्तमगुणानेव नामान्याचक्षते हरेः । | |||
यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ॥ | |||
अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये । | |||
जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥ | |||
इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः । | |||
प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥ | |||
ओयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि । | |||
ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः ॥ | |||
सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । | |||
प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ॥ | |||
बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । | |||
सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥ | |||
स एव सूर्यसंस्थः सन् लोकं तपति केशवः । | |||
सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥ | |||
अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । | |||
साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥ | |||
दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते । | |||
तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥ | |||
}} | }} | ||
| Line 387: | Line 366: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उपनिषण्णमिन्द्रं दृष्ट्वापि त्वामेव जानीयामिति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव । विशेषज्ञानप्रार्थने प्राणो वा अहमस्म्यृष इत्यादिकमेव पूर्यते । एष तपन्नेवास्मीति व्यर्थम् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । | उपनिषण्णमिन्द्रं दृष्ट्वापि त्वामेव जानीयामिति वरस्वीकारादिन्द्रादेव चेन्द्राविष्टो भगवानत्रोक्त इति ज्ञायते । इन्द्रं तु जानात्येव हि विश्वामित्रः । भगवन्तमपि स्वरूपत आगतं जानात्येव । विशेषज्ञानप्रार्थने प्राणो वा अहमस्म्यृष इत्यादिकमेव पूर्यते । एष तपन्नेवास्मीति व्यर्थम् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । | ||
स एतेन रूपेण सर्वा दिशो विष्टोऽस्मीत्यादिनाप्याविष्टस्य विष्णुत्वं किञ्चिज्ज्ञायते । तथाप्येतेनेति तृतीयात्वात् करणत्वाशङ्का भवति । तस्य म इति वैयधिकरण्यमिति च । अतो भगवन्नामानि पृथगुक्त्वाऽहं विष्णुरित्येव तपन्नेवास्मीत्युवाच । इन्द्रशरीरमेव पश्यतो विश्वामित्रस्य तर्कमात्रतो भगवानिति किञ्चिज्जानत इति ज्ञायते ।न चेन्द्रस्य प्राणशब्दः सर्वशब्दाभिधेयत्वं च विद्यते । अजस्य नाभावध्येकमर्पितम् इत्युक्तस्य पद्मनाभस्य हि यो देवानां नामधा एक एव इति सर्वदेवाभिधानत्वमुक्तम् । इन्द्रे हीन्द्रशब्दोऽपि न मुख्यतो वर्तते । परमैश्वर्याभावात् । इन्द्रशब्दोऽपि विष्णावेव वर्तते । स हि परमेश्वरः । | |||
}} | }} | ||
| Line 397: | Line 375: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ॥ | यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः ॥ | ||
इति श्रुतेश्च । | |||
}} | }} | ||
| Line 407: | Line 384: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । | इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । | ||
इत्यादिश्रुतेश्च । | |||
}} | }} | ||
| Line 417: | Line 393: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि इत्यादिना विष्णुरेव हि तत्र प्रस्तुतः । | सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि इत्यादिना विष्णुरेव हि तत्र प्रस्तुतः । | ||
| Line 426: | Line 401: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नामानि विश्वाभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् । | नामानि विश्वाभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् । | ||
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥ | |||
इति श्रुतिः । | |||
}} | }} | ||
| Line 437: | Line 411: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यो देवानां नामधा एक एवेत्यवधारणान्नान्यस्य सर्वनामत्वम् । स च विष्णोर्नान्यः । पद्मनाभत्वादेव । | यो देवानां नामधा एक एवेत्यवधारणान्नान्यस्य सर्वनामत्वम् । स च विष्णोर्नान्यः । पद्मनाभत्वादेव । | ||
| Line 446: | Line 419: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
श्रियो वायोरपि न नारायणादिनामवत्वम् । एको वासुदेवस्तत्सदृशपरौ न स्तः इति श्रुतिः । | श्रियो वायोरपि न नारायणादिनामवत्वम् । एको वासुदेवस्तत्सदृशपरौ न स्तः इति श्रुतिः । | ||
एको नारायणस्तत्समो वाऽधिको वा नास्ति इति च । | |||
}} | }} | ||
| Line 456: | Line 428: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । | परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । | ||
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ॥ | |||
इत्यादेश्च । | |||
}} | }} | ||
| Line 467: | Line 438: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नकिरिन्द्र त्वदुत्तरो न ज्यायान् अस्ति वृत्रहन् । नकिरेवा यथा त्वम् । इत्याद्यपि सर्वनामकत्वात् तस्यैव । किमेकं दैवतं लोके किं वाप्येकं परायणम् इत्यादिप्रश्नस्यापि | नकिरिन्द्र त्वदुत्तरो न ज्यायान् अस्ति वृत्रहन् । नकिरेवा यथा त्वम् । इत्याद्यपि सर्वनामकत्वात् तस्यैव । किमेकं दैवतं लोके किं वाप्येकं परायणम् इत्यादिप्रश्नस्यापि | ||
| Line 476: | Line 446: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
परमं यो महत्तेजः परमं यो महत्तपः । | परमं यो महत्तेजः परमं यो महत्तपः । | ||
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ | |||
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । | |||
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ | |||
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । | |||
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ | |||
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । | |||
विष्णोर्नामसहस्रम्... ॥ | |||
इत्येव भारते परिहाराच्च । | |||
}} | }} | ||
| Line 493: | Line 462: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मेऽन्नं दक्षिणमित्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्यपर्वणि । | मेऽन्नं दक्षिणमित्युक्तत्वाच्च विष्णुरेवेति ज्ञायते । स हि विष्णुर्दक्षिणामित्र उक्तो हरिवंशेषु धन्याश्चर्यपर्वणि । | ||
दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा । | |||
धन्याश्चर्योहमेवैको मित्रं मे दक्षिणा रमा ॥ | |||
इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥ | |||
इति नारदवचनम् । | |||
}} | }} | ||
| Line 506: | Line 474: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न च बृहतीसहस्राभिमानिनीं देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते । | न च बृहतीसहस्राभिमानिनीं देवीं विना चेतनमात्रस्य मुख्यमित्रत्वं युज्यते । | ||
| Line 515: | Line 482: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मिनोति त्रायते चेति मित्रमित्यभिधीयते । | मिनोति त्रायते चेति मित्रमित्यभिधीयते । | ||
तस्माद्योऽयं विजानाति स मित्रं तस्य नान्यथा ॥ | |||
इति भारते | |||
}} | }} | ||
| Line 526: | Line 492: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः । | उक्थायुत्वाच्च विष्णुरेवात्रोक्त इत्यवगम्यते । बृहतीसहस्रं ह्युक्थनामकं मुख्यतः । | ||
महाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् । | |||
तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥ | |||
तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते । | |||
तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥ | |||
इति गारुडे | |||
}} | }} | ||
| Line 540: | Line 505: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते । यज्ञेष्वन्य इन्द्रः पृथक्चोच्यते । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः इत्युक्त्वा तस्मै त्वा तेभ्यस्त्वा इति भेदवचनाच्च । सत्य इति वायुः । सदिति प्राण इति श्रुतेः । | विष्णुर्ह्युक्थायुरिन्द्र इत्युच्यते । यज्ञेष्वन्य इन्द्रः पृथक्चोच्यते । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः इत्युक्त्वा तस्मै त्वा तेभ्यस्त्वा इति भेदवचनाच्च । सत्य इति वायुः । सदिति प्राण इति श्रुतेः । | ||
| Line 549: | Line 513: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः । | सदेव सत्यमित्युक्तं सत्यो वायुरुदाहृतः । | ||
साधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥ | |||
इति शब्दनिर्णये । | |||
}} | }} | ||
| Line 560: | Line 523: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्रियधाम्न उप समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । न च तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् । | प्रियधाम्न उप समीपे गमनं नाम तद्धामप्राप्तिकारणभगवत्प्रसादप्राप्तिः । अन्यथोपशब्दो व्यर्थः स्यात् । न च तदैव भगवतः प्रियं धाम विश्वामित्रेण प्राप्तम् । | ||
| Line 569: | Line 531: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः । | बृहतीसहस्रे प्रथमे सालोक्यं प्रददौ हरिः । | ||
द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ॥ | |||
तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥ | |||
इति च गारुडे । | |||
}} | }} | ||
| Line 581: | Line 542: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न चेन्द्रादिभिरैक्यमत्रोच्यते । प्राणस्तथाऽनुगमाद् इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् इति वक्तुः बृहतीसहस्रं शंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेषु । अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः । अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः । न हि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्ह्यध्यात्मभूमेत्येव स्यात् सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः । | न चेन्द्रादिभिरैक्यमत्रोच्यते । प्राणस्तथाऽनुगमाद् इति च विष्णोरेव प्राणशब्दाभिधेयत्वमुक्त्वा न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् इति वक्तुः बृहतीसहस्रं शंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेषु । अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता । अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव । अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः । अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः । न हि स्वात्मना स्वस्य सम्बन्धो भवति । यद्यध्यात्ममात्रमत्रोच्यत इति विवक्षितं तर्ह्यध्यात्मभूमेत्येव स्यात् सम्बन्धशब्दो व्यर्थः । तस्मादिन्द्रादिजीवेभ्यो विष्णोर्भेद एवात्र भगवतो विवक्षितः । | ||
शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति शास्तुरन्तर्यामिणो विष्णोः सर्वशरीरस्थितत्वात् सर्वनामाभिधेयत्वं चोक्तम् । अहं मनुरभवं सूर्यश्चेत्यादिवत् । न हि मनुसूर्यादिर्भवति वामदेवस्तेषां पक्षेऽपि । सर्वप्रवृत्तिहीनतां हि ते मोक्षं वदन्ति । अत्र चाहं भूमिमददामार्याय इत्यादिना प्रवृत्तिरेवोच्यते । नच वामदेवेन मन्वादिकर्म क्रियते कदापि । अतीतार्थश्चायं दृश्यते भूमिमददामित्यादिना । नहि पूर्वं वामदेवेन तानि कर्माणि कृतानि । भगवान् विष्णुर्हीन्द्राय भूमिमददात् । स एव च सर्वेष्वन्तर्यामित्वेन स्थित्वा नामप्रवृत्तिनिमित्तानि सर्वकर्माणि कुर्वन्नवबोधसूरिनियमनादिभिर्मनुसूर्यादिसर्वनामा भवति । यदि भेदस्य पूर्वमपि मिथ्यात्वमङ्गीक्रियते तर्हि भूमिदानादिसर्वकर्मणां मन्वादित्वस्यापि मिथ्यात्वादहं मनुरभवमित्यादिकं सर्वमनर्थकमेव भवति । | |||
}} | }} | ||
| Line 591: | Line 551: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
जीवेश्वरभिदा चैव जीवभेदः परस्परम् । | जीवेश्वरभिदा चैव जीवभेदः परस्परम् । | ||
जडेश्वरभिदा चैव जडभेदस्तथैव च ॥ | |||
जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः । | |||
न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव वा ॥ | |||
य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥ | |||
इति भविष्यत्पर्वणि । | |||
}} | }} | ||
| Line 605: | Line 564: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। | असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। | ||
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ | |||
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। | |||
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ | |||
इत्यादि च । | |||
}} | }} | ||
| Line 618: | Line 576: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न च प्राणो वा अहमस्मृष इत्यादावहमस्म्यादिशब्दोऽस्मच्छब्दाद्यर्थः । एष तपन्नेवास्मीत्युपरितनस्य वैयर्थ्यात् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । अतोऽहमस्मीत्यादि च भगवन्नामैव । न च जीवैक्यवचनमत्र प्रस्तुतम् । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एवेति सर्वनामाभिधेयत्वं भगवत उक्त्वा तत्रैव प्रमाणत्वेन – विश्वामित्रं ह्येतदहरित्याद्याख्ययिकोक्ता । तस्मात् सर्वान्तर्यामित्वात् सर्वगुणत्वात् सर्वशक्तित्वाच्च सर्वनामवत्वमेव विष्णोरुच्यते न तु सर्वस्वरूपत्वम् । | न च प्राणो वा अहमस्मृष इत्यादावहमस्म्यादिशब्दोऽस्मच्छब्दाद्यर्थः । एष तपन्नेवास्मीत्युपरितनस्य वैयर्थ्यात् । प्राणो ह्येष य एष तपतीत्युक्तत्वात् । अतोऽहमस्मीत्यादि च भगवन्नामैव । न च जीवैक्यवचनमत्र प्रस्तुतम् । ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एवेति सर्वनामाभिधेयत्वं भगवत उक्त्वा तत्रैव प्रमाणत्वेन – विश्वामित्रं ह्येतदहरित्याद्याख्ययिकोक्ता । तस्मात् सर्वान्तर्यामित्वात् सर्वगुणत्वात् सर्वशक्तित्वाच्च सर्वनामवत्वमेव विष्णोरुच्यते न तु सर्वस्वरूपत्वम् । | ||
| Line 627: | Line 584: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उक्तं च भारते । | उक्तं च भारते । | ||
स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् । | |||
सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥ | |||
इति । | |||
}} | }} | ||
| Line 639: | Line 595: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं सर्वं व्याप्तं यद्भूतं यच्च भाव्यम् । आ तृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा इति च श्रुतिः । | पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं सर्वं व्याप्तं यद्भूतं यच्च भाव्यम् । आ तृणादाकरीषात् सर्वं भगवानिति मिथ्यादृष्टिरेषा इति च श्रुतिः । | ||
| Line 648: | Line 603: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
हिरण्मयो ह वा अमुष्मिंल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । अमृतो ह वा अमुष्मिंल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत् समभवत् इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च । न हि भेदाभावे भूतेभ्यो ददृश इति युज्यते । न चामुक्तैः सर्वभूतैर्मुक्तो दृश्यते । एकत्वे तु ददृश इत्येतावता पूर्यते सर्वेभ्यो भूतेभ्य इति व्यर्थम् । न च तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कर्तृकर्मविरोध इति हि ते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे । | हिरण्मयो ह वा अमुष्मिंल्लोके सम्भवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । अमृतो ह वा अमुष्मिंल्लोके सम्भवत्यमृतः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद । स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतः समभवत् समभवत् इत्यादिना मुक्तानामपि भेदस्यैवोक्तेश्च । न हि भेदाभावे भूतेभ्यो ददृश इति युज्यते । न चामुक्तैः सर्वभूतैर्मुक्तो दृश्यते । एकत्वे तु ददृश इत्येतावता पूर्यते सर्वेभ्यो भूतेभ्य इति व्यर्थम् । न च तेषां पक्षे स्वयमपि स्वात्मानं पश्यति । कर्तृकर्मविरोध इति हि ते वदन्ति । अतः सर्वश्रुतिविरोध एव जीवेश्वरैक्याङ्गीकारे । | ||
| Line 657: | Line 611: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नच कर्तृकर्मविरोधो नामास्तीत्यत्र ककिञ्चिन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः । | नच कर्तृकर्मविरोधो नामास्तीत्यत्र ककिञ्चिन्मानम् । श्रुत्यनुभवसिद्धत्वाच्च स्वदर्शनादेः । | ||
| Line 666: | Line 619: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न च तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकामावाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेऽपि । न च शून्यवादिनः कश्चिद्विशेषो दृश्यते । न हि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद्विशेषः । केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते । | न च तेषां पक्षे प्रज्ञेन सर्वज्ञेन परमात्मना सर्वकामावाप्तिर्नामाङ्गीक्रियते शरीरादुत्क्रान्तस्य ज्ञानिनः । तस्माद् वेदविरुद्धवादिन एव तेऽपि । न च शून्यवादिनः कश्चिद्विशेषो दृश्यते । न हि सर्वावाच्यं सर्वाज्ञेयं शून्यं चेति कश्चिद्विशेषः । केनापि शब्देनावाच्यस्य लक्षणायामपि प्रमाणं नास्ति । क्षीरमाधुर्यादयोऽपि तैरेव शब्दैरुच्यन्ते । | ||
| Line 675: | Line 627: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । | विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् । | ||
गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥ | |||
इति शब्दनिर्णये । | |||
}} | }} | ||
| Line 686: | Line 637: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
न च सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचित् दृष्टम् । अतः शून्यवादिन एव तेऽपि । अस्तीत्येवोपलब्धस्य तत्त्वाभावः प्रसीदति इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः इत्यादिना कर्माणि च । तस्मिन् देवाः श्रिताः सर्वे इत्यादिगुणाश्च तत्रैवोक्ताः । | न च सर्वगुणदोषक्रियाविनिर्मुक्तस्यास्तित्वमपि कुत्रचित् दृष्टम् । अतः शून्यवादिन एव तेऽपि । अस्तीत्येवोपलब्धस्य तत्त्वाभावः प्रसीदति इत्यादिना प्रसादादिगुणाश्च भगवतो दृश्यन्ते । यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः इत्यादिना कर्माणि च । तस्मिन् देवाः श्रिताः सर्वे इत्यादिगुणाश्च तत्रैवोक्ताः । | ||
| Line 695: | Line 645: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । | अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । | ||
आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ | |||
इति मुक्तानामपि तारतम्यं चोक्तम् । | |||
}} | }} | ||
| Line 706: | Line 655: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः । | श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात् कर्णसंयुताः । | ||
अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥ | |||
तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । | |||
क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥ | |||
उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । | |||
ऐरे ह्रदे केचिदपि देवा एव परं हरिम् ॥ | |||
नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । | |||
सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥ | |||
इति ब्रह्मसारे । | |||
}} | }} | ||
| Line 723: | Line 671: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यत्र ब्रह्मा पवमान छन्दस्यां ३ वाचं वदन् । | यत्र ब्रह्मा पवमान छन्दस्यां ३ वाचं वदन् । | ||
ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परिस्रव ॥ | |||
}} | }} | ||
| Line 733: | Line 680: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् । | यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् । | ||
तस्मिन् मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परिस्रव ॥ | |||
}} | }} | ||
| Line 743: | Line 689: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । | यत्र राजा वैवस्वतो यत्रावरोधनं दिवः । | ||
यत्राभूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥ | |||
}} | }} | ||
| Line 753: | Line 698: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । | यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः । | ||
लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥ | |||
}} | }} | ||
| Line 763: | Line 707: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यत्र तत्परमं पदं विष्णोर्लोके महीयते । | यत्र तत्परमं पदं विष्णोर्लोके महीयते । | ||
देवैस्सुकृतकर्माभिस्तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥ | |||
}} | }} | ||
| Line 773: | Line 716: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । | यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । | ||
कामस्य यत्राप्ताः कामाः तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥ | |||
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवानां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते । अमृतं कृधीति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् । | |||
}} | }} | ||
| Line 784: | Line 726: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मुक्तः प्रतिज्ञानात् सङ्कल्पादेव च तच्छ्रुतेः जगद्व्यापारवर्जम् भोगमात्रसाम्यलिङ्गाच्च अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इत्यादिसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । ग्राव्णा सोमे महीयते इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते । | मुक्तः प्रतिज्ञानात् सङ्कल्पादेव च तच्छ्रुतेः जगद्व्यापारवर्जम् भोगमात्रसाम्यलिङ्गाच्च अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इत्यादिसूत्रेभ्यश्च मुक्तानां विष्णोर्भेदो भोगादिकं च सर्वं प्रतीयते । ग्राव्णा सोमे महीयते इति ब्रह्मणोऽन्यमुक्तैः पूज्यत्वं च प्रतीयते । | ||
नच सूत्रेषु निश्चितार्थस्यौपचारिकत्वं वक्तुं युज्यते । निर्णयात्मकत्वात् तेषाम् । अतिप्रसङ्गश्चोपचारादिकल्पने । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः इति हि विनिश्चितानि ब्रह्मसूत्राणि । | |||
}} | }} | ||
| Line 794: | Line 735: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । | बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । | ||
योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥ | |||
इति आदित्यपुराणे । | |||
न च निर्णयकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम् । | |||
}} | }} | ||
| Line 806: | Line 746: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । | भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । | ||
तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥ | |||
विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः । | |||
न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥ | |||
बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन । | |||
विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥ | |||
इति स्कान्दे । | |||
}} | }} | ||
| Line 821: | Line 760: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । | इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । | ||
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ | |||
इति भगवद्वचनम् । | |||
}} | }} | ||
| Line 832: | Line 770: | ||
| id = AIT_C02_S02_V07_B01 | | id = AIT_C02_S02_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तस्मात् मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यते इति सिद्धम् ॥ ३ ॥ | तस्मात् मुक्तैरपीज्यमानः सर्वस्माद् भिन्नः सर्वोत्तमः सर्वनामा सर्वशक्तिः सर्वगुणसम्पूर्णो नारायणः सर्ववेदादिषूच्यते इति सिद्धम् ॥ ३ ॥ | ||
| Line 853: | Line 790: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यावतीभिर्ऋग्भिः शंसिताभिः षट् त्रिंशत्सहस्राण्यक्षराणि भवन्ति यस्मात् कस्मादपि छन्दसस्तावत्यः शंसनीयाः । तदा सम्पादितं बृहतीसहस्रं भवति । तत्र या व्यञ्जनाभिमानिदेवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः । घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा । ऊष्माभिमानी वायुः । | यावतीभिर्ऋग्भिः शंसिताभिः षट् त्रिंशत्सहस्राण्यक्षराणि भवन्ति यस्मात् कस्मादपि छन्दसस्तावत्यः शंसनीयाः । तदा सम्पादितं बृहतीसहस्रं भवति । तत्र या व्यञ्जनाभिमानिदेवता सैव सर्वप्राणिनां शरीराभिमानिदेवता स्वायम्भुवो मनुः । घोषाभिमानिदेवता सर्वजीवाभिमानी ब्रह्मा । ऊष्माभिमानी वायुः । | ||
| Line 862: | Line 798: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः । | व्यञ्जनानां शरीरस्य चाभिमानी मनुः स्मृतः । | ||
घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥ | |||
ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः । | |||
एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥ | |||
उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च । | |||
एतां विद्यां कौशिकाय भरद्वाजाय चादरात् ॥ | |||
एतद्विद्याबलेनैव विद्याधीशेन बन्धुना । | |||
यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥ | |||
षट् त्रिंशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः । | |||
तान्येव विष्णुरूपाणि रात्रीनामपि देवताः ॥ | |||
एकैकं च सहस्रं तद्व्यञ्जनेषु च रात्रिषु । | |||
रूपं विष्णोः स्थितं व्यूह्य षट् त्रिंशतिसहस्रधा ॥ | |||
षट् त्रिंशतिसहस्राणि स्वरगाणि हरेरपि । | |||
तान्येवाह्नां दैवतानि रूपाणि परमात्मनः ॥ | |||
द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः । | |||
शताब्दानामहोरात्रदैवतान्युत्तमानि च ॥ | |||
बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि । | |||
शतवर्षहरिध्यानफलमाप्नोति पूरूषः ॥ | |||
एवं ज्ञात्वापि सम्पाद्य बृहतीनां सहस्रकम् । | |||
ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥ | |||
स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः । | |||
प्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि ॥ | |||
प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता । | |||
ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते ॥ | |||
सर्वोत्तमस्वरूपत्वाद्विष्णुरुक्तः स देवता । | |||
ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा ॥ | |||
एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा । | |||
प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाधिकम् ॥ | |||
प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः । | |||
प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥ | |||
एति मारुतपर्यन्तान्मारुतेन च केशवम् । | |||
सम्पादनाच्च विद्यायः अस्याः परत एव च ॥ | |||
द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः । | |||
बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥ | |||
तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम् । | |||
बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम् ॥ | |||
द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च । | |||
विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥ | |||
तस्माद्योऽयमहं नामा सदाऽहेयत्वहेतुतः । | |||
स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥ | |||
योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः । | |||
एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥ | |||
एक एव परो विष्णुरिति जीवसमीपगम् । | |||
ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥ | |||
इत्यैतरेयसंहितायाम् । | |||
}} | }} | ||
| Line 915: | Line 850: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सम्पन्नस्य परस्तादेवानन्तरमेव । न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति । प्रज्ञामयो देवतामय इत्यादिपृथक् पृथङ्मयशब्दोऽनिरुद्धादिचतुर्मूर्तीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम् । | सम्पन्नस्य परस्तादेवानन्तरमेव । न पुनः कर्मान्तरेण शरीरारम्भ एवंविदो भवति । प्रज्ञामयो देवतामय इत्यादिपृथक् पृथङ्मयशब्दोऽनिरुद्धादिचतुर्मूर्तीनामपि परस्परसाम्येन सर्वजीवेभ्य आधिक्यं ज्ञातव्यमिति दर्शयितुम् । | ||
| Line 924: | Line 858: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः । | अन्तर्यामिस्वरूपेण ज्ञापयन्ननिरुद्धकः । | ||
प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥ | |||
अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः । | |||
सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥ | |||
जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः । | |||
एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥ | |||
इत्यादि चातुरात्म्ये । | |||
}} | }} | ||
| Line 939: | Line 872: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सम्भूयेत्यत्र समित्युपसर्गात् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति । भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि क्रमेण प्राप्नोति । | सम्भूयेत्यत्र समित्युपसर्गात् बृहतीसहस्रसम्पादनानन्तरं भगवदाधिक्यं पुनराधिक्येन ज्ञायत इत्युक्तं भवति । भगवदाधिक्यमधिकं ज्ञात्वा देवता अपि क्रमेण प्राप्नोति । | ||
| Line 948: | Line 880: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात् । | द्वासप्ततिसहस्राणां रूपाणां पर्युपासनात् । | ||
आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥ | |||
प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु । | |||
योग्या अस्याश्च विद्यायाः देवा ऋषय एव च ॥ | |||
इत्यादि सत्तत्त्वे । | |||
}} | }} | ||
| Line 961: | Line 892: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि । पुरुषैरहेयत्वादहंनामकानि तान्येव सूर्ये स्थितानि यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि । एतदेवोक्तं नारायणाख्यं परं ब्रह्मैव सर्वदा उप समीपे ईक्षेत । | बृहतीसहस्रस्थितानि विष्णुरूपाणि पुरुषे स्थितानि । पुरुषैरहेयत्वादहंनामकानि तान्येव सूर्ये स्थितानि यान्येव सूर्ये स्थितानि तान्यपि सूर्यादिभिरहेयत्वादहंनामकानि । एतदेवोक्तं नारायणाख्यं परं ब्रह्मैव सर्वदा उप समीपे ईक्षेत । | ||
नात्र जीवेश्वराभेदो विवक्षितः । उप समीपे ईक्षेतेति समीपे दर्शनवचनात् । न च निरर्थकत्वमुपसर्गस्याङ्गीकर्तुं युक्तम् । न ह्यार्षेषु वेदादिषु व्याकरणनिरुक्तादिषु चोपसर्गाणां वैयर्थ्यमङ्गीकृतं कुत्रचित् । उक्तं च भगवता व्यासेन– | |||
}} | }} | ||
| Line 971: | Line 901: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नानर्थकः स्वरो वापि वर्णो वा कुत्रचिद् भवेत् । | नानर्थकः स्वरो वापि वर्णो वा कुत्रचिद् भवेत् । | ||
पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥ | |||
उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम् । | |||
महार्थमेव सर्वं हि वेदे वा वैदिकेऽपि वा ॥ | |||
इति । | |||
}} | }} | ||
| Line 984: | Line 913: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सुकरं च सर्वपदानामनर्थकत्वकल्पनम् । यैश्च वाक्यैरर्थवत्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्याद् विशेषाभावात् । न च मानुषवाक्येन वेदपदानामानर्थक्यं कल्प्यम् । | सुकरं च सर्वपदानामनर्थकत्वकल्पनम् । यैश्च वाक्यैरर्थवत्वं प्रतीयते तेषामप्यनर्थकत्वमेव स्याद् विशेषाभावात् । न च मानुषवाक्येन वेदपदानामानर्थक्यं कल्प्यम् । | ||
जीवेश्वरैक्यङ्गीकारे योऽहं सोऽसावित्येव पूर्यते पुनर्योऽसौ सोऽहमिति व्यर्थम् । न ह्यस्य तेनैक्ये तस्यानेन भेदशङ्का भवति । अस्य तस्येति भेदाङ्गीकारे नाभेदो मुख्यः । किन्तु तदधीनत्वमेवान्यस्य भवति स्नेहविशेषो वा । चैत्रो मैत्रो मैत्रश्चैत्र इतिवत् । तत्र ह्युभयस्नेहापेक्षया पुनर्वचनं युज्यते । अभ्यासत्वे ह्येकप्रकारेण प्रयोगो दृष्टः । अत्र हि प्रयोगद्वैविध्यं दृश्यते । | |||
}} | }} | ||
| Line 994: | Line 922: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
एकप्रकारा बहुशो वागभ्यास इतीरितः । | एकप्रकारा बहुशो वागभ्यास इतीरितः । | ||
अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥ | |||
इति गारुडे । | |||
}} | }} | ||
| Line 1,005: | Line 932: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति न वैयर्थ्यम् । अः इति ब्रह्म तत्रागतमहमिति, न वा अहमिमं विजानाति, तस्योपनिषदहम् इत्यादौ विष्णोरेवाहेयत्वेनाहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थकत्वेऽहमिमं न जानातीति न युज्यते । तस्य भूरिति शिरो भुव इति बाहू इत्यादिनाऽक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः । न हि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य स्वरूपम् । जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । | अहंशब्दस्याहेयत्वाङ्गीकारे नराहेयत्वं सुराहेयत्वं चोच्यते इति न वैयर्थ्यम् । अः इति ब्रह्म तत्रागतमहमिति, न वा अहमिमं विजानाति, तस्योपनिषदहम् इत्यादौ विष्णोरेवाहेयत्वेनाहंनामकत्वप्रसिद्धेः । अहंशब्दस्यास्मच्छब्दार्थकत्वेऽहमिमं न जानातीति न युज्यते । तस्य भूरिति शिरो भुव इति बाहू इत्यादिनाऽक्षिसंस्थो भगवानेव ह्यहंशब्दोदितः । न हि जीवस्याक्षिणि पृथक् शिरोबाह्वादिकं विद्यते । हृदि स्थितमेव हि तस्य स्वरूपम् । जागरितेऽप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । | ||
| Line 1,014: | Line 940: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वालोकवत् इति च सूत्रात् । आदित्ये हिरण्मयः पुरुषस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाऽक्षिस्थितस्यापि तस्यैतस्य तदेव रूपमिति कथनाच्च । स एष एवैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे इत्यादि लोकाधिपत्यकथनाच्च । न हि कश्चिद् भिक्षुकः पातालाद्यधिपतिरित्यत्र ककिञ्चिन्मानम् । तस्माद् भगवानेवाहेयत्वादहं नामा । चक्षुर्मित्रस्य वरुणस्याग्नेः जगतस्तस्थुषश्चात्मा इत्यादि जीवेभ्यो भेददर्शनाच्च । | अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि गुणाद्वालोकवत् इति च सूत्रात् । आदित्ये हिरण्मयः पुरुषस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी इत्यादि सूर्ये स्थितस्य विष्णो रूपमुक्त्वाऽक्षिस्थितस्यापि तस्यैतस्य तदेव रूपमिति कथनाच्च । स एष एवैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे इत्यादि लोकाधिपत्यकथनाच्च । न हि कश्चिद् भिक्षुकः पातालाद्यधिपतिरित्यत्र ककिञ्चिन्मानम् । तस्माद् भगवानेवाहेयत्वादहं नामा । चक्षुर्मित्रस्य वरुणस्याग्नेः जगतस्तस्थुषश्चात्मा इत्यादि जीवेभ्यो भेददर्शनाच्च । | ||
| Line 1,023: | Line 948: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । | यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । | ||
यच्चास्य सन्ततो भावस्तस्मादात्मेति कथ्यते ॥ | |||
इति भारते । | |||
}} | }} | ||
| Line 1,034: | Line 958: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
देवता अप्येति प्राप्नोतीत्येव चार्थः । लयश्चेद्देवतास्वप्येतीति स्यात् । न च विनाशः पुरुषार्थः । मयट्शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे सम्भूय देवता अप्येतीति ल्यप् न युज्यते । उपासनायास्तु सम्पन्नस्य परस्तादित्युक्तत्वात् पूर्वमेव सिद्धिः । | देवता अप्येति प्राप्नोतीत्येव चार्थः । लयश्चेद्देवतास्वप्येतीति स्यात् । न च विनाशः पुरुषार्थः । मयट्शब्दस्य भगवत्प्राधान्यार्थत्वानङ्गीकारे सम्भूय देवता अप्येतीति ल्यप् न युज्यते । उपासनायास्तु सम्पन्नस्य परस्तादित्युक्तत्वात् पूर्वमेव सिद्धिः । | ||
| Line 1,043: | Line 966: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सर्वस्माद्भिन्नमीशेशं जीवाभेदेन यः स्मरेत् । | सर्वस्माद्भिन्नमीशेशं जीवाभेदेन यः स्मरेत् । | ||
स यात्यन्धतमो घोरं नित्यातिशयदुःखदम् ॥ | |||
सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः । | |||
नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥ | |||
इति चैतरेयसंहितायाम् । | |||
}} | }} | ||
| Line 1,056: | Line 978: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् । | अतः सर्वव्यतिरिक्तः सर्वोत्तमः सर्वगुणसम्पूर्णो नारायण इति सिद्धम् । | ||
| Line 1,065: | Line 986: | ||
| id = AIT_C02_S02_V08_B01 | | id = AIT_C02_S02_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । | सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः । | ||
अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥ | |||
इति शब्दनिर्णये ॥ | |||
}} | }} | ||
Revision as of 16:44, 9 April 2026
यत्सूर्यस्य हरितः पतन्तीः पुरस्सतीरुपरा एतसे कः ॥ सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतस्सूर्यमारोहयो दिवि। चन्द्रमा मनसो जातश्चक्षोस्सूर्यो अजायत । यस्सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः । उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्यस्य । येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः । तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः
इत्यादौ सूर्यस्य सर्वत्र पराधीनत्वावगतेश्च ।केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
इति नारसिंहपुराणे ।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥
इति च ।एको नारायण आसीन्न ब्रह्मा न च शङ्करः इति महाप्रलये तस्यैवावस्थानश्रुतेः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् इति ब्रह्मशिवादीनां देव्यधीनपदप्राप्तिमुक्त्वा तस्या अपि भगवदधीनत्वं मम योनिरप्स्वं१तः समुद्रे । ततो वितिष्ठे भुवना नु विश्वा परो दिवा पर एना पृथिव्या इत्याह । अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । अहं सुवे पितरमस्य मूर्धन् इति ब्रह्मरुद्रयोर्देव्यास्सकाशात् सृष्टिसंहारौ चोक्तौ ।विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
इत्यादिना विष्णोः प्रसादादेव शिवादीनां पदप्राप्तिकथनाच्च ।आजानजाः कर्मदेवास्तात्त्विका दक्ष एव च ॥ शक्रश्चोमा च रुद्रश्च भारती वायुरेव च । मुक्ता उक्ताः शतगुणा बलज्ञानसुखादिभिः ॥ विष्णुभक्त्यादिभिश्चैव गुणैः सर्वैः क्रमाधिकाः । तस्माद्रमा ततो विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तः स्वतन्त्रश्च न चान्यस्तादृशः क्वचित् । कुत एवाधिकोऽन्यः स्याद्यन्मुक्ता अपि तद्वशाः ॥ रमापि तद्वशा नित्यं स नान्यस्य वशे प्रभुः । न भेदः शेषशिवयोः सुपर्णः शेषसंमितः ॥ कामः शक्रसमो नित्यं प्रतिबिम्बाश्च ते क्रमात् ॥
इति च महासंहितायाम् ॥
नेतृत्वाच्चापनेतृत्वाद्भगवान् पुरुषोत्तमः ॥इति च ।
वामो भद्रः ॥ १ ॥
त्यक्त्वा भागेन गच्छन्ति भागतोऽनुव्रजन्ति तम् ॥ गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । भोग्यलोकमनुप्राप्तं तस्मात् स्वप्नवदन्तरा ॥
इति च ॥इन्द्रं मित्रं वरुणमग्निमाहु रथो दिव्यः स सुपर्णो गरुत्मान् । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इत्यादिश्रुतिभ्यः । न केवलमृष्यादीनां नाम भगवतः । सर्वे वेदा अपि तस्यैव नामानि । किमु च वेदाः । समुद्रमेघवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि । एकमेव व्याहरणम् । एकप्रकारमेव नाम । निर्दोषगुणपूर्तिवाचकत्वादेकप्रकारता । प्राणे नारायण एव । नारायणविषय एव व्याहारः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति । प्राणे नारायणे एवेति विद्यात् ।हुङ्कारेण सहैवाब्धिः सर्वाभिभवशक्तिताम् । विष्णोर्वक्ति यतो हुं च पराभिभववाचकः ॥ ओमिति स्वरते नित्यं वायुर्मेघेषु संस्थितः । बलवन्नादसंयुक्तो ह्यधिकोच्चत्वमस्य तु ॥ ओङ्कारस्यार्थ उद्दिष्ट उक्तार्थाधिक्यमेव च । नादो बली प्रवदति तथा भेरीध्वनिः प्रभोः ॥ अनुदात्तस्वरूपत्वादौदार्यं वदतीशितुः । तदपेक्षयाऽन्यनीचत्वं घण्टाद्याः स्वरितात्मकाः ॥ उच्चस्थितिमुदात्तस्तु स्वर्णचञ्च्वादिकः स्वरः । विष्णोर्वक्ति तथा मन्द्रः श्वासादिः प्रचयात्मकः ॥ एकप्रकारतां विष्णोः सदाचाल्यां वदत्यपि । इत्यादयः सर्वघोषा विष्णोरेव गुणोन्नतिम् ॥ वदन्ति किमु वेदाद्या मार्जाराद्यभिधास्तथा । मारयित्वा प्रभक्ष्यैव जरयत्यखिलं जगत् ॥ तेन मार्जार उद्दिष्टो मोषणान्मूषको हरिः । वर्षणाद् वृष उद्दिष्टो बलनाद्बलिनामकः ॥ तारणात् तृणनामाऽसावित्याद्येकोऽभिधीयते । सर्वनामापि भगवान् सर्वशक्तिश्च सर्ववित् ॥ ब्रह्मरुद्रादिजीवेभ्यो जडेभ्यः श्रिय एव तु । व्यतिरिक्तः सदानन्तसान्द्रानन्दैकरूपकः ॥ तस्यैव मुख्यनामानि समाकृष्येतरेष्वपि । उपचारात् प्रवर्तन्ते व्यवहारप्रसिद्धये ॥ तथैव सर्वनामानि प्रवर्तन्ते च मारुते । न तावन्मुख्यवृत्त्यैव मुख्यतोऽन्यव्यपेक्षया ॥ मुख्यतः सर्वनामा तु विष्णुरेको न चापरः । तस्मात् प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः ॥ अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते । वायुश्च सूर्यसंस्थः संस्तपत्येतज्जगत्त्रयम् ॥ आज्ञयैव हरेर्वायोः शक्त्या सूर्यस्तपत्ययम् ॥ इत्यादि च । न प्रसिद्धसूर्यस्येयं तापनशक्तिरिति ज्ञापयितुं प्राणो ह्येष य एष तपतीत्युक्तम् । प्राणाद्वा एष उदेति प्राणेऽस्तमेति इति श्रुतिः । प्राणशब्दश्च मुख्यतो विष्णौ प्रवर्तमानोऽपि वायावपि वर्तते । अतः सर्ववेदाद्यभिधेयत्वं वायोरप्यस्ति । प्राणस्य प्राणः इति श्रुतेरुभयोरपि प्राणशब्दः प्रसिद्ध एव । अयं वाव शिशुर्योऽयं मध्यमः प्राणः इति वायोर्विशेषणादुत्तमप्राणो विष्णुरिति च सिद्धम् । द्वावात्मानौ हि वेदेषु द्वौ प्राणौ द्वौ च चेतनौ । अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ॥ तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च । अज्ञानाभिभवस्पृष्टास्तस्मात् ते ह्यधमाः श्रुताः ॥ मध्यमो वायुरेवैक उत्तमः केवलो हरिः । सर्वशब्दोदितौ तस्मादेतौ द्वावेव नापरः ॥ अन्ये चैव मितैः शब्दैरुच्यन्ते नामितैः क्वचित्। श्रीरप्यखिलशब्दोक्ता विष्णुवन्न तु मुख्यतः ॥ तस्मादमितनामानावपि तौ मितनामवत् । श्रीश्च वायुश्च विष्णुस्तु मुख्योक्तेरमिताभिधः ॥ अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः । पृथङ्नामानि यस्मात् तद्गुणानेव प्रचक्षते ॥
इत्यादि ब्रह्माण्डे ॥ २ ॥
महाव्रतं कर्म चक्रे हौत्रं चक्रेऽत्र कौशिकः ॥ भृगुरध्वर्युरभवद् ब्रह्मा ब्रह्माऽभवत् स्वयम् । उद्गाता वायुरभवत् स्वयं नारायणः प्रभुः ॥ सादस्यमकरोत् तत्र तदन्येऽन्येऽपि चर्त्विजः । बृहतीसहस्रं शंसिष्यन् यदा सस्मार केशवम् ॥ वायुना सह देवेशस्तदा वासवमाविशत् । आविष्टो विष्णुनाऽथेन्द्रो वायुना सह कौशिकम् ॥ शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः । ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ॥ तच्छ्रुत्वा तुष्टिमगमत् केशवो वायुसंयुतः । द्वितीयवारं शंसेति प्राह तं च जनार्दनः ॥ प्रीत्यैव शक्रमाविष्टो विश्वामित्रः शशंस तत् । अतिप्रियत्वाद् भगवान् पुनरप्याह कौशिकम् ॥ तृतीयं च शशंसास्मै विष्णोरन्नं प्रकल्प्य तत् । ततोऽतितुष्टो भगवान् ददामि वरमित्यमुम् ॥ ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः । प्रादाद् द्वितीये सामीप्यं तृतीये पुनरेव च ॥ वरं ददानीत्युक्तः सन् मुनिः प्राह जनार्दनम् । सम्यक्त्वामेव जानीयामिति मोक्षे सुखोच्चताम् ॥ इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः । सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ॥ यस्मात् सर्वगुणत्वं स्यात् सर्वनामत्व एव तु । न हि दोषाभिधायीनि विष्णोर्नामानि कानिचित् ॥ अदोषत्वान्महाविष्णोर्न सामान्यवचांस्यपि । सर्वोत्तमगुणात्मत्वात् सदा नारायणस्य हि ॥ सर्वोत्तमगुणानेव नामान्याचक्षते हरेः । यावज्ज्ञानेन मोक्षः स्यात् तावज्ज्ञात्वापि कौशिकः ॥ अधिकज्ञानलब्ध्यर्थं मोक्षेऽधिकसुखाप्तये । जानीयां त्वामिति प्राह तस्मा आह स केशवः ॥ इन्द्राविष्टः प्राणनाम तथाऽन्याश्चाभिधाः प्रभुः । प्रकृष्टानन्दरूपत्वात् प्राण इत्यभिधीयते ॥ ओयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि । ततो वेत्तीति च त्वं स पूर्णत्वात् सर्वनामकः ॥ सर्वाणि बहुरूपत्वात् सर्वरूपेषु पूर्तितः । प्रभूतत्वाद् भूतनामा सर्वरूपप्रभूततः ॥ बहुरूपः स भूतानीत्युक्तो विष्णुस्सनातनः । सर्वैश्वर्यस्वरूपत्वादेष इत्यभिधीयते ॥ स एव सूर्यसंस्थः सन् लोकं तपति केशवः । सर्वनामवतस्तस्य ममान्नं मित्रमुच्यते ॥ अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । साऽन्नमित्युच्यते विष्णोर्भोग्यत्वान्मित्रमेव च ॥ दक्षभागस्थितेनत्वाद् दक्षिणं नाम सोच्यते ।
तस्या इनो हि विष्णुः स दक्षभागे स्थितः सदा ॥नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ॥
इति श्रुतिः ।न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ॥
इत्यादेश्च ।परमं यो महद्ब्रह्म परमं यः परायणम् ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रम्... ॥
इत्येव भारते परिहाराच्च ।दक्षिणाभिः सहैवैतन्मदधस्ताज्जगत्सदा । धन्याश्चर्योहमेवैको मित्रं मे दक्षिणा रमा ॥ इत्यवादीद्धरिर्भूपा धन्योऽसीत्युदितो मया ॥
इति नारदवचनम् ।तस्माद्योऽयं विजानाति स मित्रं तस्य नान्यथा ॥
इति भारतेमहाव्रतनियुक्तं यदृक्सहस्रं हरेः प्रियम् । तदुक्थमिति सम्प्रोक्तं तेने यो विष्णुरेव हि ॥ तस्मादुक्थायुरित्युक्त ऐश्वर्यादिन्द्र उच्यते । तस्मादुक्थायुरिन्द्रेति विष्णुर्यज्ञेषु पूज्यते ॥
इति गारुडेसाधुत्वं सत्यता प्रोक्ता साधुर्वायुर्हि सर्वतः ॥
इति शब्दनिर्णये ।द्वितीये स्वपुरप्राप्तिं तृतीयेऽन्तःपुरस्य च ॥ तथा स्वविषयं ज्ञानं विश्वामित्रे ददौ प्रभुः ॥
इति च गारुडे ।जडेश्वरभिदा चैव जडभेदस्तथैव च ॥ जडजीवभिदा चैव सत्योऽयं भेदपञ्चकः । न कदाचिन्निवर्त्योऽयं मुक्तौ संसार एव वा ॥ य एतदन्यथा ब्रूयुस्ते हि यान्त्यधरं तमः ॥
इति भविष्यत्पर्वणि ।ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥
इत्यादि च ।स्रष्टृत्वाच्चैव पातृत्वान्नियमाच्च प्रकाशनात् । सर्वत्वमुक्तं विष्णोस्तु न तु सर्वस्वरूपतः ॥
इति ।गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥
इति शब्दनिर्णये ।आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
इति मुक्तानामपि तारतम्यं चोक्तम् ।अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्ताश्च ये गणाः ॥ तारतम्यं च तेषां हि श्रुतावुदितमञ्जसा । क्षीरसागरदध्नास्तु केचित् तिष्ठन्ति मुक्तिगाः ॥ उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव परं हरिम् ॥ नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि ॥
इति ब्रह्मसारे ।कामस्य यत्राप्ताः कामाः तत्र माममृतं कृधीन्द्रायेन्दो परिस्रव ॥
इत्यादिना ब्रह्मसूर्ययमादीनां सर्वदेवानां दिवो देव्या अवरोधभूतानां सर्वदेवानां गङ्गाद्यब्देवतानां च वेदव्याख्यानं सोमयागादिकं कामचरणं च मुक्तानां भेदेनावस्थितानामुच्यते । मुक्ताश्चात्रोच्यन्त इति प्रतीयते । अमृतं कृधीति वचनात् । अमुक्तानां स्वे स्वे लोकेऽवस्थानं हि तेषाम् । मुक्तानां हि विष्णुलोकेऽवस्थानं देवानाम् ।योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ॥ इति आदित्यपुराणे ।
न च निर्णयकानि भगवद्वाक्यान्यपहाय मानुषवाक्यैरेव तेषामुपचारत्वादि कल्प्यम् । न च भोगरहिता मुक्तिर्नामान्याऽस्तीत्यत्र किञ्चिन्मानम् ।तथा मुक्तावुत्तमायां विष्णुमाविश्य भुञ्जते ॥ विष्णोर्वशाश्च ते सर्वे सर्वदा दुःखवर्जिताः । न तु विष्णुगुणान् सर्वे भुञ्जते ते कदाचन ॥ बाह्यभोगान् भुञ्जते च तारतम्येन कांश्चन । विष्णोर्देहाद् बहिश्चापि निर्गच्छन्ति यथेष्टतः ॥
इति स्कान्दे ।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
इति भगवद्वचनम् ।
घोषाणां सर्वजीवानामभिमानी चतुर्मुखः ॥ ऊष्माभिमानी वायुश्च प्रतिपाद्यो जनार्दनः । एतेषामधिपं विष्णुं बृहत्युक्थस्य देवताम् ॥ उपास्यैव वसिष्ठोऽभूद् वसिष्ठः शक्र एव च । एतां विद्यां कौशिकाय भरद्वाजाय चादरात् ॥ एतद्विद्याबलेनैव विद्याधीशेन बन्धुना । यज्ञेष्वाहूयते नित्यमिन्द्रो विष्णुप्रसादतः ॥ षट् त्रिंशद्रूपवान् विष्णुर्व्यञ्जनेषु च संस्थितः । तान्येव विष्णुरूपाणि रात्रीनामपि देवताः ॥ एकैकं च सहस्रं तद्व्यञ्जनेषु च रात्रिषु । रूपं विष्णोः स्थितं व्यूह्य षट् त्रिंशतिसहस्रधा ॥ षट् त्रिंशतिसहस्राणि स्वरगाणि हरेरपि । तान्येवाह्नां दैवतानि रूपाणि परमात्मनः ॥ द्वासप्ततिसहस्राणि रूपाण्येवं रमापतेः । शताब्दानामहोरात्रदैवतान्युत्तमानि च ॥ बृहतीसहस्रवर्णानामपि ध्यात्वाऽखिलान्यपि । शतवर्षहरिध्यानफलमाप्नोति पूरूषः ॥ एवं ज्ञात्वापि सम्पाद्य बृहतीनां सहस्रकम् । ज्ञानान्नारायणस्यैव प्रकृष्टज्ञानसन्ततेः ॥ स एव मे मयो विष्णुः प्रकृष्टज्ञानरूपकः । प्राधान्यं मयशब्दोऽयं वक्ति विष्णोः सदैव हि ॥ प्रधानोऽस्य हरिर्यस्मात् प्रज्ञारूपोऽधिदेवता । ब्रह्मामृतं च तेनायं ब्रह्मादिमय उच्यते ॥ सर्वोत्तमस्वरूपत्वाद्विष्णुरुक्तः स देवता । ब्रह्म पूर्णगुणत्वाच्च नित्यत्वादमृतं तथा ॥ एतादृशं तु यो विष्णुं प्रधानं वेत्ति सर्वदा । प्रज्ञादिभिर्गुणैः स्वस्मात् परेभ्यश्च सदाधिकम् ॥ प्रज्ञादेवब्रह्मामृतमयः स परिकीर्तितः । प्रज्ञादिमय एवं स भूत्वा देवान् क्रमेण च ॥ एति मारुतपर्यन्तान्मारुतेन च केशवम् । सम्पादनाच्च विद्यायः अस्याः परत एव च ॥ द्वासप्ततिसहस्राणि रूपाणि हि रमापतेः । बृहतीसहस्रसंस्थानि स्वरव्यञ्जनभेदतः ॥ तान्येव पुरुषस्थानि यस्मात् पुरुषसंस्थितम् । बृहतीसहस्रं तच्छंस्यं व्यज्यते न ह्यृते नरम् ॥ द्वासप्ततिसहस्राणि तान्येवाहर्निशासु च । विष्णुरूपाणि सूर्येऽपि त्वहोरात्रं हि सूर्यगम् ॥ तस्माद्योऽयमहं नामा सदाऽहेयत्वहेतुतः । स एवासौ सूर्यसंस्थः साक्षान्नारायणः प्रभुः ॥ योऽसौ सूर्यगतो विष्णुः सोऽहेयो भास्करादिभिः । एवं मनुष्यजीवेषु सूर्यादिषु च संस्थितः ॥ एक एव परो विष्णुरिति जीवसमीपगम् । ईक्षेन्नारायणं देवं सर्वजीवेश्वरेश्वरम् ॥
इत्यैतरेयसंहितायाम् ।प्रज्ञेत्युक्तो द्योतनाच्च प्रद्युम्नो देवतोदितः ॥ अमं करोति यच्छास्त्रमृतं स्वस्मिन् पुनः पुनः । सङ्कर्षणोऽमृतं तस्माद् वासुदेवस्तु बृंहणात् ॥ जीवानां मुक्तिदानेन ब्रह्मेति कथितः प्रभुः । एवमेकोऽपि भगवांश्चतुर्धा समुदीरितः ॥
इत्यादि चातुरात्म्ये ।आधिक्यं ज्ञायते विष्णोर्नितरां हि पुनः पुनः ॥ प्राप्नोति देवताश्चैव केशवान्ताः क्रमेण तु । योग्या अस्याश्च विद्यायाः देवा ऋषय एव च ॥
इत्यादि सत्तत्त्वे ।पदं वाक्यं कुतश्च स्यान्नाल्पार्थमपि कुत्रचित् ॥ उच्चाराद्यर्थमपि वा नास्ति किञ्चित् स्वरादिकम् । महार्थमेव सर्वं हि वेदे वा वैदिकेऽपि वा ॥
इति ।अर्थान्तरार्था द्विविधा प्रयुक्तेति हि निर्णयः ॥
इति गारुडे ।यच्चास्य सन्ततो भावस्तस्मादात्मेति कथ्यते ॥
इति भारते ।स यात्यन्धतमो घोरं नित्यातिशयदुःखदम् ॥ सर्वोत्तमं तु यो विष्णुं भिन्नं जानाति सर्वतः । नित्यानन्दमसौ याति वासुदेवप्रसादतः ॥
इति चैतरेयसंहितायाम् ।अध्यायान्ते द्विरुक्तिः स्यात् पूर्वोक्तस्यावधारणे ॥
इति शब्दनिर्णये ॥