Bruhadaranyaka/C5/S11: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = एकादशं ब्राह्मणम् | | title = एकादशं ब्राह्मणम् | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BR_C05_S11_V01 | | verse_id = BR_C05_S11_V01 | ||
| Line 12: | Line 10: | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत् कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ | | verse_line1 = अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत् कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ | ||
| commentary1 = bruhadaranyaka | |||
}} | }} | ||
Revision as of 07:05, 9 April 2026
अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत् कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥
॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये एकादशं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये सप्तमाध्याये एकादशं ब्राह्मणम् ॥
अग्निनामा तु भगवानौदर्याग्नौ प्रतिष्ठितः ।
विश्वैर्गुणैः समेतत्वादनन्तत्वाच्च स प्रभुः ॥
वैश्वानर इति प्रोक्तः सोऽग्निरंगप्रणेतृतः ।
तस्य विष्णोस्तुतिरियं क्रियते वायुना सदा ॥
कर्णौ पिधाय या नित्यं श्रोतुं शक्याऽखिलैः सदा ॥ इति तंत्रमालायाम् ॥