Jump to content

Bhagavatatatparyanirnaya/C11/S20: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = विंशोऽध्यायः
| title        = विंशोऽध्यायः
}}
}}
== विंशोऽध्यायः ==
{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C11_S20_V05
| verse_id      = BTN_C11_S20_V05
Line 39: Line 37:
| verse_line1  = यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
| verse_line1  = यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
| verse_line2  = न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
| verse_line2  = न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 56: Line 55:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥
| verse_line1  = नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 74: Line 74:
| verse_line1  = कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।
| verse_line1  = कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।
| verse_line2  = गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥
| verse_line2  = गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 92: Line 93:
| verse_line1  = भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः ।
| verse_line1  = भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः ।
| verse_line2  = क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥
| verse_line2  = क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 110: Line 112:
| verse_line1  = तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।
| verse_line1  = तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।
| verse_line2  = न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥
| verse_line2  = न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 170: Line 173:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥
| verse_line1  = एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}



Revision as of 07:04, 9 April 2026

गुणदोषभिदादृष्टिर्नियमात् तेन हि स्वतः ।नियमेनापवादश्च भिदाया इति हि भ्रमः ॥ ५ ॥


श्रीभगवानुवाच– योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥


निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कर्मिणाम् ॥ ७ ॥


यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥


'स्वतः सर्वगुणात्मा तु विष्णुरेकः सनातनः ।अन्यत्सर्वं तत्प््रिायत्वाद्गुणो दोषस्तथाऽप््रिायम् ॥एवं ज्ञानवतां दृष्टिरज्ञस्तन्नावगच्छति ।कालदेशविशेषेषु प्रीतिभेदमवेक्ष्य तु ॥अविज्ञानवतस्तस्य मर्यादा वेदतः कृता ।गुणदोषभिदा नास्ति भगवत्प््रिायमन्तरा ॥गुणदोषदृशेर्दोषो ह्यन्यत्र भगवत्प््रिायात् ।गुणाश्च दोषतामीयुर्दोषाश्च गुणतां क्वचित् ॥अतो दोषो न दोषः स्यान्न गुणोऽपि गुणो भवेत् ।भगवत्प्रीतिविज्ञानाद्गुणदोषभिदां यदि ॥पश्येत्तत्तु गुणायैव विपर्यासं न कारयेत् ।गुणदोषभिदा क्वापि स्वातन्त्र्येण न हि क्वचित्॥ इति ब्राह्मनये ॥'स्वतस्तु गुणदोषत्वदृशेर्भेदेन वस्तुनाम् ।दोषोऽथ गुण एव स्याद्भगवत्प्रीतितो गुणः ॥दोषस्तु तद्वैपरीत्यादिति दृष्ट्या भवेद्गुणः ।कालदेशविशेषेण प्रीत्यज्ञानाज्जगत्स्थितेः ॥मर्यादा गुणदोषाणां कृता वेदेषु सर्वशः ॥ इति परायणे ॥एतदेवोच्यते ।'स्वेस्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।विपर्ययस्तु दोषः स्यादुभयोरेष निर्णयः॥ इति च ॥'सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः ।मानुषाः कर्मयोगास्तु त्रिधैते योगिनः स्मृताः ॥सर्वेषां सर्वयोगैश्च प्राप्या मुक्तिर्न संशयः ।तथापि तु विशेषेण स स तेषां विधीयते ॥भगवद्गुणानुसारेण वेदार्थो नीयते हि यैः ।भक्तियोगास्तु ते प्रोक्तास्तादृशा हि सुराः सदा ॥अङ्गानुसारि वेदार्थं ज्ञात्वा तदनुसारतः ।भगवद्गुणा यैर्नीयन्ते ते प्रोक्ता ज्ञानयोगिनः ॥कर्माणि शास्त्रतो ज्ञात्वा तत्प्राधान्यानुसारतः ।विज्ञाता यैर्गुणा विष्णोर्ज्ञेयास्ते कर्मयोगिनः ॥भक्तिर्ज्ञानं च किञ्चित्तु पश्चात्तेष्वपि जायते ।तथापि ते कर्मयोगाः कर्मपूर्वत्वकारणात् ॥भगवद्गुणानुरागित्वमधिकं भक्तियोगिनाम् ।तस्मात्तेऽभ्यधिका ह्येषु देवा एव विशेषतः ॥ईषद्वैराग्यमल्पं तु पूर्वं देवेषु जायते ।पश्चाद्विरागोऽभ्यधिको देवानां नात्र संशयः ॥ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च ।विरागोऽभ्यधिकस्तेषां सदैव सनकादिनाम् ॥ज्ञानाधिक्यान्मनुष्येभ्यो भण्यन्ते ज्ञानयोगिनः ।न तु ज्ञानाधिकास्ते वै देवेभ्यस्तु कथञ्चन ॥देवानामपि कर्मित्वं विद्यते यद्यपि स्फुटम् ।तथापि प्रत्यवायित्वान्मनुष्याः कर्मयोगिनः ॥त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः ।महायोगेश्वरेशेशस्तस्माद्ब्रह्मा चतुर्मुखः॥ इति त्रियोगे ॥ ५-८ ॥
नृदेहमासाद्य सुदुर्लभं यः प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स मार्गणः ॥ १७ ॥


मार्गणवच्छरीरान्ते पतति ॥ १७ ॥
कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।गुणदोषविधानेन त्वंहसां त्याजनेच्छया ॥ २७ ॥


स्वतोऽशुद्धानां कर्मणाम् । अनेन गुणदोषविधानेन नियमःकृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्यनुसारेणानुष्ठाने गुणत्वमेवेत्यर्थः ॥ २७ ॥
भिद्यते हृदयग््रान्थिश्छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३१ ॥


हृदयग््रान्थिः अन्तःकरणाख्यो बन्धः ॥ ३१ ॥
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।न ज्ञानान्न च वैराग्यात् प्रायः श्रेयो भवेदिह ॥ ३२ ॥


मद्भक्तियुक्तस्य भक्त्यनुसारिज्ञानवैराग्ये विनाऽन्यस्माज्ज्ञानाद्वैराग्याच्च न श्रेयो भवेत् ।'रागिणोऽपि विमुच्यन्ते देवा नास्त्यत्र संशयः ।रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैः॥ इति च ॥'स्मर्तव्या विषये दोषा यतिभिर्न तु दैवतैः ।हरिरेव सदा पूज्य इत्यर्थं दैवतैरपि॥ इति च ॥वैराग्यार्थमपि विषयदोषादिज्ञानं सनकादीनां भाव्यं देवानां तदपि भगवद्भजनस्यैव सारतापरिज्ञानार्थमेवेत्यर्थः ॥ ३२ ॥
यत् कर्मभिर्यत् तपसा ज्ञानवैराग्यतश्च यत् ।योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३३ ॥


सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३४ ॥


न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३५ ॥


नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमकल्मषम् । तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३६ ॥


न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः ।साधूनां समचित्तानां बुद्धेः पारमुपेयुषाम् ॥ ३७ ॥


एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ ३८ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे विंशोऽध्यायः ॥
रागिणोऽपि ते भक्तियोगिनो भक्तिफलत्वेन किमपि नापेक्षन्ते ॥'यदि दद्याद्भक्तियोगफलं मोक्षमपीश्वरः ।भक्तियोगफलत्वेन न तद्गृह्णीयुरेव ते ॥कामिनोऽपि स्वयं कामान्भुञ्जते न फलात्मना ।तस्माद्विरागेऽप्यधिका देवा एव हि तादृशाःइति च ॥ ३५ ॥'उत्तमो भक्तियोगस्तु ज्ञानयोगस्तु मध्यमः ।अधमः कर्मयोगश्च ब््राह्मैको मुख्यभक्तिभाक् ॥ज्ञानमप्यधिकं तेषां नियतं भक्तियोगिनाम् ।उदेति भगवद्भक्त्या तद्वन्न ज्ञानयोगिनः ॥भक्त्यंशकं यतो ज्ञानं ज्ञानस्नेहात्मिका च सा ।तथापि ज्ञानयोगित्वं मानुषज्ञानतोऽधिकम् ॥भक्तियोगे ततो यत्नः कार्यो विद्वद्भिरञ्जसा॥ इति च ॥ ३८ ॥