Bhagavatatatparyanirnaya/C11/S6: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = षष्ठोऽध्यायः | | title = षष्ठोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C11_S06_V08 | | verse_id = BTN_C11_S06_V08 | ||
| Line 20: | Line 18: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥ | | verse_line1 = स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 37: | Line 36: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥ | | verse_line1 = पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 54: | Line 54: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥ | | verse_line1 = नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 71: | Line 72: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥ | | verse_line1 = अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 88: | Line 90: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥ | | verse_line1 = त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 105: | Line 108: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥ | | verse_line1 = तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 122: | Line 126: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥ | | verse_line1 = बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 140: | Line 145: | ||
| verse_line1 = यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । | | verse_line1 = यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । | ||
| verse_line2 = शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥ | | verse_line2 = शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 167: | Line 173: | ||
| verse_line1 = यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् । | | verse_line1 = यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् । | ||
| verse_line2 = गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥ | | verse_line2 = गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 202: | Line 209: | ||
| verse_line1 = स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च । | | verse_line1 = स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च । | ||
| verse_line2 = गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥ | | verse_line2 = गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 07:04, 9 April 2026
त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यः स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८॥
स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्विकैः समविभूतिभिरात्मविद्भि- र्व्यूह्यार्चितः सवनशः समविक्रमैश्च ॥ ८,१० ॥
यः प्रकाशरूपः ॥ १० ॥
पर्युष्टया पतितया वनमालयेयं संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः । यः सुप्रणीतममुयाऽर्हणमाददानो भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥
'अस्पर्धिनी स्पर्धिनीव श्रीरास्ते वनमालया ।न हि स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति ताम्॥ इति वामने ॥ १२ ॥
नस्योतगाव इव यस्य वशे भवन्ति देवाश्च यस्तनुभृदायुषि रज्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥
तनुभृदायुषि सम्बद्धः अश्चेति तनुभृदायुषि रज्यमानाः ।'ब््राह्मणा संपरित्यक्तो मृत इत्युच्यते नरः। इति भारते ॥ १४ ॥
अस्यासि हेतुरुदयस्थितिसंयमानां अव्यक्तजीवमहतामपि कालमात्रः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥
कालमात्रः कालनिर्माता ज्ञाता च । सृष्टिलयाद्यर्थम् । नित्यत्वेन च । अव्यक्तस्यापि स्रष्टृत्वात्काल एवं भूतः तस्मादप्युत्तमस्त्वम् ।'कालाज्जीवात्तथाऽव्यक्तान्महतश्चोत्तमो यतः ।उत्तमः पुरुषस्तस्माद्भगवान्विष्णुरच्युतः॥ इति ॥ १५ ॥
त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥
'नारायणाख्यः परमः शेते लक्ष्म्याऽन्वितो लये ।स एव पुरुषाख्यं तु द्वितीयं रूपमात्मनः ।कृत्वा रमायां पुरुषनामानं तु चतुर्मुखम् ॥प्रधानाख्यां च गायत्रीं ससर्ज पुरुषात्मकः ।चतुर्मुखः स पुरुषो महत्तत्त्वाभिधं पुनः ॥प्रधाननाम््नयां गायत्र्यां ससर्जात्मानमेव तु ।श्रद्धाभिधां च गायत्रीं ताभ्यां शेषोऽन्वजायत॥ इत्यादि सृष्टिविक्षेपे ॥ १६ ॥
तत् तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थान् जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥
येऽन्ये ज्ञानिनः स्वतः परिहृतान्विषयान् बिभ्यति ॥ १७ ॥
बिभ््रात् तवामृतकथोदवहास्त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥
सर्वं बिभ््रातस्तव ॥ १९ ॥
यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् ।अवतीर्णस्य कृष्णस्य यदा प्रागात्तदा हरिम् ।स्वस्थानगमनापेक्षी ब््राह्मा तुष्टाव सामरः ॥'संवत्सरद्वयं चैव पश्चात्स्थित्वा जनार्दनः ।अभिपेदे परं स्थानं चातुर्मास्याधिकं पुनः॥ इति भविष्यत्पुराणे ॥ २५ ॥
तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।लोकं जिघृक्षत्यूर्ध्वं मे वेलामिव महार्णवः ॥ ३० ॥
यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥
'सतामपि कलौ प्राप्ते विकारो मनसो भवेत् ।तस्माद्यदूंश्च संजह्ने नैते स्युः पापिनस्त्विति ॥पुनर्लोकविवृद्ध्यर्थमौत्तरेयादिकान्हरिः ।आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः ॥स्वात्मनः सह यानेन पुरुषार्थोऽधिको भवेत् ।इत्यनुग््राहबुध्द्या च संजह्रे स्वकुलं विभुः॥ इति च ॥ ३०,३१ ॥
वाताशना महर्षयः श्रमणा ऊर्ध्वमन्थिनः ।ब््राह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनोऽमलाः ॥४८॥
वयं त्विह महायोगिन् भ््रामन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ॥ ४९ ॥
स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च ।गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे षष्ठोऽध्यायः ॥
'आत्मनोऽवमतां ब््राूयुरुत्तमा अपि सर्वशः ।कदाचिदेव स्वगुणान्स्निग्धेष्वेव हि साधवः॥ इति नारदीये ॥