Bhagavatatatparyanirnaya/C11/S4: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = चतुर्थोऽध्यायः | | title = चतुर्थोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C11_S04_V03 | | verse_id = BTN_C11_S04_V03 | ||
| Line 13: | Line 11: | ||
| verse_line1 = भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । | | verse_line1 = भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । | ||
| verse_line2 = स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥ | | verse_line2 = स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 30: | Line 29: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥ | | verse_line1 = यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 47: | Line 47: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥ | | verse_line1 = आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 64: | Line 65: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥ | | verse_line1 = धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 81: | Line 83: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥ | | verse_line1 = इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 98: | Line 101: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥ | | verse_line1 = त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 115: | Line 119: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥ | | verse_line1 = हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 132: | Line 137: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥ | | verse_line1 = संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 149: | Line 155: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥ | | verse_line1 = देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 07:04, 9 April 2026
भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् ।स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥३॥
'विष्णोस्तु पुरुषाख्यानि त्रीणि रूपाण्यतो विदुः ।प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् ।तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यते॥ इति माहात्म्ये ॥३॥
यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानांशकेन विशतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
यत्काये ॥ ४ ॥
आदावभूच्छतधृती रजसाऽस्य सर्गे विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
'ब््राह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः॥ इति ब््र•ह्मे ॥रजसा तमसा च ब््राह्मरुद्रदेहसृष्टेः । रागक्रोधकारणत्वाच्च ॥ ५ ॥
धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । नैष्कर्म्यलक्षणमुवाच चचार योगं योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
स्वविषयज्ञानरूपः प्रभावरूपश्च ॥ ६ ॥
इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाऽप्सरोगणवसन्तसुमन्दवातैः स्त्रीप््रोक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
'ज्ञानरूपानपि सुरान्विना प्राणं क्वचित्परे ।आविशन्ति ह्यतस्तेषामज्ञानादि न तु स्वतः॥ इति देवतत्त्वे ।'अथैनमेव नाऽप्नोद्योऽयं मध्यमः प्राणः । एवमेता देवताः पाप्मना विद्धाः तं हासुरा ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवं हैव विध्वंस-माना विष्वञ्चो विनेशुः॥'सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैनां मृत्युमत्यवहत सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्॥ इत्यादिश्रुतिश्च ॥ ७ ॥
त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः कस्तान् विलंघ्य व््राजतात् परमं पदं ते । नान्यस्य बर्हिषि बलिं ददतः स्वभागं धत्ते पदं त्वमविता यदि विघ्नमूर्धि्न ॥ १० ॥
स्वभागं बलिं ददतो विघ्नमूर्धि्न यदि भवान्पदं धत्ते । तर्हि नान्यस्य बलिः॥ १० ॥
हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयाऽवतीर्ण- स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
'कुमारनामा तु हरिबर्््राह्मचारिवपुः स्वयम् ।सनत्कुमाराय परं प्रोवाच जगदीश्वरःइति स्कान्दे ॥'विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम् ।सनत्कुमारप्रमुखा योगेशाः परमेश्वरात्॥ इति प्रकाशसंहितायाम् ॥ १७ ॥
संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
'सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा ।ध्वान्तं निवारयास्माकं मुमुग्धीति च वादिनः॥ इति व्यासतन्त्रे ॥'स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् ।हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः॥ इति भयभञ्जने ॥ १९ ॥
देवासुरे युधि स दैत्यपतीन् सुरार्थे हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः । भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्थोऽध्यायः ॥
'उपेन्द्ररूपी भगवान्प्रतिमन्वन्तरं प्रभुः ।असुरान् हन्ति नियतं श्राद्धदेव्ये च वामनः॥ इति वामने ॥२०॥