Jump to content

Bhagavatatatparyanirnaya/C11/S3: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = तृतीयोऽध्यायः
| title        = तृतीयोऽध्यायः
}}
}}
== तृतीयोऽध्यायः ==
{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C11_S03_V03
| verse_id      = BTN_C11_S03_V03
Line 12: Line 10:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥
| verse_line1  = अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 48: Line 47:
| verse_line1  = कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
| verse_line1  = कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।
| verse_line2  = तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥
| verse_line2  = तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 75: Line 75:
| verse_line1  = धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
| verse_line1  = धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।
| verse_line2  = अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥
| verse_line2  = अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 110: Line 111:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
| verse_line1  = हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 136: Line 138:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥
| verse_line1  = प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 162: Line 165:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥
| verse_line1  = राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 215: Line 219:
| verse_line1  = तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।
| verse_line1  = तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।
| verse_line2  = अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥
| verse_line2  = अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 233: Line 238:
| verse_line1  = सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।
| verse_line1  = सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।
| verse_line2  = दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥
| verse_line2  = दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 251: Line 257:
| verse_line1  = श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
| verse_line1  = श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
| verse_line2  = मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥
| verse_line2  = मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 269: Line 276:
| verse_line1  = एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
| verse_line1  = एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
| verse_line2  = परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥
| verse_line2  = परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 286: Line 294:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = पिप्पलायन उवाच– स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥

Line 303: Line 312:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः । शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥

Line 320: Line 330:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब््राह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥

Line 337: Line 348:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = नासौ जजान न मरिष्यति नैधतेऽसौ न क्षीयते स च न विध्यति चारिणा हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥

Line 354: Line 366:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥
| verse_line1  = अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 379: Line 392:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥
| verse_line1  = आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 405: Line 419:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥
| verse_line1  = वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 423: Line 438:
| verse_line1  = लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः ।
| verse_line1  = लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः ।
| verse_line2  = महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥
| verse_line2  = महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 441: Line 457:
| verse_line1  = अर्चादौ हृदये वापि यथालब्धोपचारकैः ।
| verse_line1  = अर्चादौ हृदये वापि यथालब्धोपचारकैः ।
| verse_line2  = द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥
| verse_line2  = द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 459: Line 476:
| verse_line1  = आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः ।
| verse_line1  = आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः ।
| verse_line2  = शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥
| verse_line2  = शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 477: Line 495:
| verse_line1  = एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः ।
| verse_line1  = एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः ।
| verse_line2  = यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥
| verse_line2  = यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Revision as of 07:04, 9 April 2026

अन्तरिक्ष उवाच– एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥

आत्मप्रसिद्धये भूतानां भगवज्ज्ञानार्थम् ॥ ३ ॥
एवं सृष्ट्वा स भूतानि स्थविष्ठैः पञ्चधातुभिः ।एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥

गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।तत्तत्कर्मफलं गृह्णन् भ््रामतीह सुखेतरम् ॥ ६ ॥

एवं गुणान्भुञ्जानो भगवान् । तं सृष्टं मन्यमानो जीव इह सज्जते ।'शरीरे दोषहानेन गुणभोक्तारमीश्वरम् ।शरीरस्थतया जीवं मन्यमानः पतत्यधः ।तत्सृष्टा हि सदा जीवा देहादेर्जनिमत्त्वतः ।नित्यानन्दैकदेहोऽसौ विष्णुस्तत्क्वैकताऽनयोः॥ इति च ॥ ४-६ ॥
इत्थं कर्मगतीर्गच्छन् बह्वभद्रावहः पुमान् ।आभूतसंप्लवात् स्वर्गप्रलयावश्नुतेऽवशः ॥ ७॥

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥

'आभूतसम्प्लवाज्जन्म जीवेशत्वं विजानतः ।ततः पतत्यधो यस्मादुत्थानं नैव तु क्वचित्॥ इति च ।'कालाख्यः कलनाद्विष्णुर्व्यक्तमव्यक्तगं नयन्। इति च ॥ ८ ॥
ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥

वारिणा हृतगन्धा भूः सलिलत्वाय कल्पते ।सलिलं तद् हृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥

अव्यक्तं विशतीत्युक्तवा तस्य विस्तारो वारिणा हृतगन्धेत्यादि ।'सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः ।बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्॥ इति शब्दनिर्णये ॥
कालात्मना हृतगुणं नभ आत्मनि लीयते ।इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ॥ १५ ॥

प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥

नभ आत्मनि लीयत इत्युक्त्वेन्द्रियाणीत्याद्यपि विस्ताराय ॥ आत्मनि बुद्धौ ॥ १५,१६ ॥
एषा माया भगवतः सर्गस्थित्यन्तकारिणी ।त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥ १७ ॥

राजोवाच– यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८॥

'त्रिवर्णा वरणादुक्ता त्रिगुणानां हरेर्मतिः ।गुणात्मकत्वात्प्रकृतिस्त्रिवर्णेति प्रकीर्त्यते ।तत्र तु प्रकृतिस्तार्या तारिका तु हरेर्मतिः ।उभयं विष्णुमायोक्तं ज्ञातव्यमुभयं तथा॥ इति च ॥'बहूनां सहनिर्देश एकयाऽभिधयैव तु ।तयैवाभिधया तेषां परामृश्यैकमुच्यते ।तामेतामान्तरीं रीतिं विदुः शब्दविदो जनाः॥इति च ॥ १७,१८ ॥
प्रबुद्ध उवाच– कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १९ ॥

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ २० ॥

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।अतुल्यातिशयध्वंसाद् यथा मण्डलवर्तिनाम् ॥ २१ ॥

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।शाब्दे परे च निष्णातं ब््राह्मण्युपशमाश्रयम् ॥ २२ ॥

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥

मण्डलवर्तिनः युद्धरङ्गस्थाः ॥'देवाः सजाया मुच्यन्ते मानुषा उभयात्मकाः ।विजाया एव योगेशास्तेषां या यैव योग्यता ।तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चन॥ इति संदृश्ये ॥१९-२३॥
सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥

'सन्तस्तु त्रिविधाः प्रोक्ता उत्तमा मध्यमाधमाः ।उत्तमा देवतास्तत्र ऋष्याद्या मध्यमा मताः ॥अधमा मानुषोत्कृष्टास्ते चापि त्रिविधा मताः ।तत्राधमेषु येषां तु सङ्गो विघ्नाय वै भवेत् ॥तेषामुत्तमसङ्गस्य तेषां सङ्गं परित्यजेत् ।आदौ तु तेषामपि च सङ्ग उत्तमसङ्गतेः ॥साधनत्वान्नतु त्याज्यो यदि त्यक्तुं न शक्यते ।तदा तेऽपि तथा नेया यथा विघ्नो न वै भवेत् ॥तदुच्चसङ्गतेः क्वापि तदा दोषो न जायते ।प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते ॥सर्वथा चैव देवेषु सङ्गो मुनिगणेषु च ।भाव्यो हि तं विना नैव पुरुषार्थः क्वचिद्भवेत् ॥विशेषतः स्वोत्तमेषु विना सङ्गं न मुच्यते ।स्वनीचेषु तु देवेषु विना सङ्गं न पूर्यते ॥तस्मात्सत्सूत्तमेष्वेषु सङ्गः कार्यो विशेषतः ।अनाद्यनन्तकालेषु न च हाप्यः कथञ्चन ॥सतां तदुत्तमेशेशे किमु विष्णौ परात्परे॥ इति गारुडे ॥'बह्वपेक्षो हि जिज्ञासुरतो देहादिवृत्तये ।किञ्चित्सत्स्वपि सङ्गी स्यादशक्ये सति वर्तने ॥कृतकृत्यस्त्यजेत्सङ्गं सदा गुरुसुरादिषु ।सङ्गी स्यान्न हि तत्सङ्गं विना तु सुखभाग्भवेत् ॥तस्मादनाद्यनन्तैव सक्तिर्गुरुसुरादिषु ।अन्यत्र कृत्यापेक्षा स्यादिति सङ्गविनिर्णयः॥ इति भविष्यत्पर्वणि ॥ २४ ॥
श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।मनोवाक्कायदण्डं च सत्यं शमदमावपि ॥ २७ ॥

'श्रद्धा भागवते तन्त्रे वेदे भारतपञ्चमे ।विष्णोरव्यवधानेन वक्तृत्वात्सर्वथा भवेत् ॥कलाविद्यास्वनिन्दा च व्यवधानेन केशवे ।प्रवेशाद्यतिभिः कार्या ह्यन्यथा नरकं व््राजेत् ॥श्रन्नामास्तिक्यबुद्धिः स्यात्सा चैव द्विविधा मता ।अत्रोक्तमस्तीत्येकाऽत्र ममात्रास्ति प्रयोजनम् ॥इत्यन्या तत्र पूर्वा तु यतेः कार्या कलास्वपि ।द्वितीया न तु कर्तव्या पञ्चरात्रविरोधिषु ॥सदैव निन्दा सर्वैश्च ब््राह्मादिस्थावरान्तकैः ।सम्यक्वार्या तद्विना च तमो यान्ति विनिश्चयात् ॥कुर्वन्त्येव सुरास्तत्र तदन्येषां तमो भवेत् ।पञ्चरात्रं च वेदाश्च मूलरामायणं तथा ॥पुराणं भागवतं चैव भारतं च न भिद्यते ।एतेष्वपि यथा विष्णोराधिक्यप्रतिपादनम् ॥तद्भक्तानां च क्रमशः स एवार्थो न चापरः ।अन्यथा दृश्यमानं तु मोहायैव विनिर्दिशेत् ॥तस्मात्सर्वेषु शास्त्रेषु विष्णोराधिक्यमेव तु ।क्रमेण च तदीयानां प्रतिपाद्यं न चापरम्॥ इति ब््राह्माण्डे ।'अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।ततो भूय इव ते तमो य उ विद्याया रताः॥ इति च ।'गृहिणोऽप्यल्पबोधस्य न कलासु प्रयोजनम् ।आवर्तयेद्वेदतन्त्रं मुख्योक्तो हरिरत्र हि॥ इति हरिवंशेषु ॥ २७ ॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥

कृष्णात्मनाथेषु मनुष्येष्वपि सौहृदं किमु देवेषु महत्सु देवादिषु ॥ ३० ॥
पिप्पलायन उवाच– स्थित्युद्भवप्रलयहेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥

ओतुः स्वस्य हेतुरन्यो नास्ति । बहिः प्रलये मुक्तौ च ॥ ३६ ॥
नैनं मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः । शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल- मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥

'ब््राह्माद्या यं न जानन्ति करणाद्यभिमानिनः ।जानन्त्यनुग््राहाच्चास्य प्रधानाग्निं यथाऽर्चिषः ॥अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च न स्फुटम् ।वेदरूपा परं देवं वैलक्षण्यात्समस्तशः ॥आनन्दो नेदृशानन्द इत्युक्ते लोकतः परम् ।प्रतिभाति न चाऽभाति यथावद्दर्शनं विना॥ इति ब््राह्मतर्के ।बोधकः परमेश्वरः । ईदृशानन्दो न भवतीति निषेधवचनार्थ एव न सिध्यति विलक्षणानन्दाभाव इत्यर्थतः सिद्धिः ॥ ३७ ॥
सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब््राह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥

'त्रिगुणात्मकं प्रधानं च रजः सत्वं तमस्तथा ।प्राणो महानहङ्कारो जीवास्तदभिमानिनः ॥ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च ।शब्दाद्यर्थाः सुखं दुःखमिति प्रोक्तं द्विधा फलम् ॥एतत्सर्वं हरे रूपमित्याहुर्ज्ञानदुर्बलाः ।स एव बहुशक्तित्वाद्भाति चैषां तथा तथा ॥एवं कारणकार्याख्यं समस्तं हरिमेव तु ।केचित्पश्यन्ति च व्यस्तं केचिदाहुरपण्डिताः ॥एवं कारणकार्येभ्यः परमानन्दरूपिणम् ।अज्ञानाद्बहुधा प्राहुरेकं सन्तं सुदुर्जनाः ॥रूप्यत्वात्तद्वशत्वाच्च तद्रूपं चैतदीर्यते ।न तु तस्य स्वरूपत्वान्निर्दोषानन्दरूपिणः ॥कथं जडाजडैक्यं स्यात्कुतः पूर्णाल्पमोदयोः ।पूर्णाल्पज्ञानयोश्चैव पूर्णशक्त्यल्पशक्तयोः ॥निर्दुःखदुःखान्वितयोः स्वतन्त्रपरतन्त्रयोः ।अतः सर्वगुणैर्युक्तं सर्वदोषविवर्जितम् ॥अन्याभेदेन विज्ञाय तम एव प्रपद्यते ।निष्कृष्टं सर्वतो विष्णुं सर्वतश्च विलक्षणम् ॥ज्ञात्वा पूर्णगुणं यान्ति मुक्तिं नास्त्यत्र संशयः॥ इति तन्त्रभागवते ॥'अहं हि जीवसञ्ज्ञो वै मयि जीवः सनातनः ।मैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह ।अहं श्रेयो विधास्यामि यथाधीकारमीश्वरःइति मोक्षधर्मेषु ॥३८॥
नासौ जजान न मरिष्यति नैधतेऽसौ न क्षीयते स च न विध्यति चारिणा हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥

'यथेन्द्रियगतः प्राणस्तेषां शक्त्या विकल्प्यते ।दृष्टिदः श्रुतिदश्चेति मतिदो ज्ञानदस्तथा ॥इत्यादिभेदतो वाच्य एक एव महाबलः ।दृष्ट्यादिशक्तिस्तस्यैव ततो नान्यस्य कस्यचित् ॥एवं सद्रूपकं ब््राह्म तत्तच्छक्त्या विकल्प्यते ।एकमेव महाशक्ति प्राणस्यापि बलप्रदम्॥ इति हरिवंशेषु ॥ ३९ ॥
अण्डेषु पेशिषु तरुष्ववनिस्थितेषु प्राणेन जीव उपधावति तत्र तत्र । छन्ने मतीन्द्रियगुणेऽहमि च प्रसुप्ते कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥

'पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यते ।मृदुपिण्डश्च पेशं स्यात्क्वचिद्भद्रमपीष्यते॥ इत्यभिधानम् ।अवनिस्थितेषु स्वेदजेषु । भूस्वेदेन हि प्रायो जायन्ते । तदा कूटस्थे परमात्मन्यास जीवः । यं परमात्मानमृते सुप्त्यनुस्मृतिरेव न ।'देहाद्देहान्तरगतौ प्रविशेत्प्राणमेव तु ।जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम् ॥तदन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः ।ईषच्च सुप्तवद्यान्ति नैव मानुषजीववत् ॥स्वर्गस्थानां न तु स्वापः प्रायो देहेऽपि नाज्ञता ।मृतिसुप्तिप्रबोधादेर्नियन्ता हरिरेकराट् ॥तमृते नैव चावस्था नावस्थावान्न च स्मृतिः ।ततस्तु देवदेवेशः प्राणः प्राणेश्वरो हरिः ॥न हरेरीशिता त्वन्यः स हि सर्वाधिको मतः॥ इति हरिवंशेषु ॥ ४० ॥
राजोवाच– एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४३ ॥॥

आविर्होत्र उवाच– कर्माकर्मविकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥

'जानन्तोऽपि हि दुर्ज्ञेयः प्रश्नोऽयं ज्ञानिनामपि ।इति वेदयितुं ब््राह्मपुत्रा नोचुर्निमेः पुरा॥ इति तन्त्रभागवते ॥ईश्वरात्मत्वात् ईश्वरविषयत्वात् ॥ ४४ ॥
नाऽऽचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४६ ॥

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥

अज्ञः सन्नाचरन् ना । विकर्मणा मृत्योर्मृत्युमुपैति । स एवेश्वरार्पितं कुर्वाणः सिद्धिं लभते ।'अज्ञात्वा कुर्वतः कर्म स्खलनात्पापकारणम् ।तदेवार्पयतो विष्णोर्नैव पापाय तद्भवेत् ॥मनोदोषविहीनस्य न तु दोषवतः क्वचित् ।सत्सु केशवपूर्वेषु क्रमशो भक्तिहीनता ॥असद्भक्तिस्तथा स्नेहो बहुमानमथापि वा ।स्वोत्तमानां प््रिायत्यागादात्मप््रिायचिकीर्षया ॥अधिकेष्वेव नीचोच्चभक्तिव्यत्यास एव वा ।स्वोत्तमस्यात्मनश्चैव समस्नेहोऽथवा भवेत् ॥कार्येषु बहुमाने वा स्वात्मनः समतापि वा ।आधिक्ये किमु वक्तव्यमात्मनः शक्तिहापनम् । ।शक्तस्याशक्तवत्कर्म मनोदोषा इतीरिताः॥ इति कर्मतन्त्रे ॥४६॥
लब्ध्वा चाव्यग््रामाचार्यं तेन सन्दर्शितागमः ।महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥

अव्यग््रात्वेनाचार्यं लब्ध्वा ।'परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुमाव््राजेत् ।अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथेऽति च ॥ ४९ ॥
अर्चादौ हृदये वापि यथालब्धोपचारकैः ।द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥

'द्रव्यलिङ्गं शिलाद्यं स्यादात्मलिङ्गं मनोमयम् ।अथवा स्थण्डिलं चैव विष्णोर्लिङ्गं प्रकीर्तितम्॥ इति च ॥ ५१ ॥
आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः ।शेषमाधाय शिरसि स्वधाम््नयुद्वास्य सत्कृतम् ॥ ५५ ॥

तन्मयं तत्प्रधानम् ।'विष्णोर्भृत्योऽहमित्येव सदा स्याद्भगवन्मयः ।नैवाहं विष्णुरस्मीति विष्णुः सर्वेश्वरो ह्यजःइति च ॥ ५५ ॥
एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः ।यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे तृतीयोऽध्यायः ॥
'स्वादानात्स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते ।न तु जीवस्वरूपत्वात्स हि जीवेश्वरः प्रभुः॥ इति शब्दनिर्णये ॥ ५६ ॥