ब्रह्मसूत्रभाष्यम्/C02/S03/A040: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
कर्तृत्वाधिकरणम्
ईश्वरस्यैव कर्तृत्वमुक्तम् । ’यत् कर्म कुरुते तदभिसम्पद्यते’ इति जीवस्याप्युपलभ्यते । अत आह-
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ 33-251 ॥
जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोऽपि कर्ता ॥ 33 ॥
ॐ विहारोपदेशात् ॐ ॥ 34-252 ॥
‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इत्यादिना मोक्षेऽपि ॥ 34 ॥
ॐ उपादानात् ॐ ॥ 35-253 ॥
साधनाद्युपादानप्रतीतेश्च ॥ 35 ॥
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ 36-254 ॥
‘आत्मानमेव लोकमुपासीत’ इति क्रियायां व्यपदेशाच्च । अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥ 36 ॥
तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति –
ॐ उपलब्धिवदनियमः ॐ ॥ 37-255 ॥
यथा ज्ञान इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ‘य आत्मानमन्तरो यमयति’ इति च श्रुतिः ॥ 37 ॥
कुतः ? –
ॐ शक्तिविपर्ययात् ॐ ॥ 38-256 ॥
अल्पशक्तित्वाज्जीवस्य ॥ 38 ॥
ॐ समाध्यभावाच्च ॐ ॥ 39-257॥
समाधानाभावाच्चास्वातन्त्र्यं प्रतीयते ॥ 39 ॥
ॐ यथा च तक्षोभयथा ॐ ॥ 40-258 ॥
यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ॥ 40 ॥
ॐ परात् तु तच्छ्रुतेः ॐ ॥ 41-259 ॥
सा च कर्तृत्वशक्तिः परादेव ।
इति हि पैङ्गि श्रुतिः ॥ 41 ॥‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’
ॐ कृतप्रयत्नापेक्षस्तुविहितप्रतिषेधावैयर्थ्यादिभ्यः ॐ ॥ 42-260 ॥
ततोऽप्रयोजकत्वं शास्त्रस्य नापद्यते । कृतप्रयत्नापेक्षत्वात् तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि ।
इति भविष्यत्पर्वणि ।
‘एतदेवं न चाप्येवमेतदस्ति च नास्ति च’ इति च मोक्षधर्मे ॥ 42 ॥