Bhagavatatatparyanirnaya/C3/S11: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = एकादशोऽध्यायः | | title = एकादशोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C03_S11_V04 | | verse_id = BTN_C03_S11_V04 | ||
| Line 14: | Line 12: | ||
| verse_line2 = विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः । | | verse_line2 = विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः । | ||
| verse_line3 = आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ ४ ॥ | | verse_line3 = आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ ४ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 32: | Line 31: | ||
| verse_line1 = एतावान् जीवलोकस्य संस्थाभेदः समासतः । | | verse_line1 = एतावान् जीवलोकस्य संस्थाभेदः समासतः । | ||
| verse_line2 = धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥ | | verse_line2 = धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 51: | Line 51: | ||
| verse_line2 = यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः । | | verse_line2 = यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः । | ||
| verse_line3 = कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥ | | verse_line3 = कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 70: | Line 71: | ||
| verse_line2 = गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः । | | verse_line2 = गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः । | ||
| verse_line3 = पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥ ११ ॥ | | verse_line3 = पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥ ११ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 88: | Line 90: | ||
| verse_line1 = विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । | | verse_line1 = विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया । | ||
| verse_line2 = ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥ | | verse_line2 = ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 106: | Line 109: | ||
| verse_line1 = यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् । | | verse_line1 = यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् । | ||
| verse_line2 = सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥ | | verse_line2 = सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 125: | Line 129: | ||
| verse_line2 = आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । | | verse_line2 = आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः । | ||
| verse_line3 = द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादयः ॥ १४ ॥ | | verse_line3 = द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादयः ॥ १४ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 144: | Line 149: | ||
| verse_line2 = चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । | | verse_line2 = चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः । | ||
| verse_line3 = वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १५ ॥ | | verse_line3 = वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 162: | Line 168: | ||
| verse_line1 = षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः । | | verse_line1 = षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः । | ||
| verse_line2 = षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥ | | verse_line2 = षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 180: | Line 187: | ||
| verse_line1 = रजोभाजो भगवतो लीलेयं हरिमेधसः । | | verse_line1 = रजोभाजो भगवतो लीलेयं हरिमेधसः । | ||
| verse_line2 = सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥ | | verse_line2 = सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 198: | Line 206: | ||
| verse_line1 = वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः । | | verse_line1 = वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः । | ||
| verse_line2 = उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥ | | verse_line2 = उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 252: | Line 261: | ||
| verse_line1 = कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः । | | verse_line1 = कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः । | ||
| verse_line2 = हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥ | | verse_line2 = हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 270: | Line 280: | ||
| verse_line1 = अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । | | verse_line1 = अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । | ||
| verse_line2 = रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥ | | verse_line2 = रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 288: | Line 299: | ||
| verse_line1 = वैकृतास्त्रय एवैते देवसर्गश्च सत्तम । | | verse_line1 = वैकृतास्त्रय एवैते देवसर्गश्च सत्तम । | ||
| verse_line2 = वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥ | | verse_line2 = वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 315: | Line 327: | ||
| verse_line1 = भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः । | | verse_line1 = भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः । | ||
| verse_line2 = दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥ | | verse_line2 = दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 334: | Line 347: | ||
| verse_line2 = एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । | | verse_line2 = एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः । | ||
| verse_line3 = सृजत्यमोघसङ्कल्प आत्मैवाऽत्मानमात्मना ॥ २९ ॥ | | verse_line3 = सृजत्यमोघसङ्कल्प आत्मैवाऽत्मानमात्मना ॥ २९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 06:55, 9 April 2026
मैत्रेय उवाच–विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।
आत्मनि परमेश्वरे मन आवेश्य ॥ ४ ॥
एतावान् जीवलोकस्य संस्थाभेदः समासतः ।धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥
अनिमित्तस्य ब्रह्मार्पणबुद्ध्या कृतस्य । 'अः इति ब्रह्मइति श्रुतेः ॥ ९ ॥
विदुर उवाच–यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।
'लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यते। इत्यभिधानम् ॥१०॥
मैत्रेय उवाच–गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।
गुणव्यतिकरमाकरोति तद्द्रष्टा । अप्रतिष्ठितोऽन्यत्र ।'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिमि्न। इति श्रुतिः ।तदुपादानम् । गुणव्यतिकरोपादानकर्तारम् । सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य । ब्रह्मविष्णुमहेश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि ॥ ११ ॥
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
ब्रह्म निर्मातृकम् । मायया सामर्थ्येन । तत्र यत्संहर्त्रीश्वराख्यं रूपं तत्कालाख्यम् । कल च्छेदन इति धातोः ।'अथ त्रयी वाव प्रकृतिः सत्वं रजस्तम इति तां नारायणः पर्यपश्य-दनन्यप्रतिष्ठः तं वा एतमाहुः पुरुष इति पूर्णो ह्येष भवति स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश । ब्रह्मा ब्रह्माणं नाम चतुर्मुखं ईश ईशानं नाम पञ्चमुखं यो वा ईश ईशानमाविवेश तं वा एनं काल इत्याचक्षते काल इत्याचक्षतेइति सौकरायणश्रुतिः ॥ १२ ॥
यथेदानीं तथा चाऽग्रे पश्चादप्येतदीदृशम् ।सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च यः ॥ १३ ॥
सृष्टिश्च प्रलयश्चैव संसारो मुक्तिरेव च ।देवऋषिप्रभृतयो लोका भूरादयस्तथा ॥अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः ।जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते ।देवैर्ब्रह्मादिभिः शप्ता ऋषिभिर्मानुषादिभिः ॥सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः ।सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः ॥अन्यसाम्यविदो विष्णोर्विष्णुद्वेष्टार एव च ।सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचित्॥इति स्कान्दे ॥ १३ ॥
कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ।
'तामसस्य पदार्थस्य सत्वं हि लयकारणम् ।सात्विकस्य तमश्चैव तयोरपि रजः क्वचित् ॥गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना ।कालतः कालसङ्ख्याजो लयः सर्वस्य वस्तुनः॥ इति ब्रह्मतर्के ।'तमसो रजस्तु द्विगुणं रजसः सत्वमेव च ।परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः ॥तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम् ।सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम् ॥तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम् ।तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् ॥विलये दशांशतः सत्व एकांशेन तमस्यपि ।मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः ॥यदा तु तद्रजः सर्वं तमसा सह सङ्गतम् ।तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्भवम् ॥तत्र त्रिभागो रजस एकोंऽशस्तमसस्तथा ।तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ॥तदेव केवलं सत्वमितरापेक्षया भवेत् ।श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते ॥मूलं तमस्तथा दुर्गा महालक्ष्मीस्त्रिमूलिका ।गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः ॥यद्रजो मूलरजसि मूले तमसि यद्रजः ।तमश्च मूले तमसि महत्तत्त्वं तदात्मकम् ॥दशांशास्तत्र सत्वं स्युरेकांशो रज एव तु ।तद्दशांशं तमो ज्ञेयम् अहङ्कारस्तदात्मकः ॥स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु ।इतरापेक्षया सत्वं सत्वाद्यास्तद्वदस्य च ।तत्तमोंऽशात्सात्विकांशो मन आद्याः प्रकीर्तिताः ।रजसोंशस्त्विन्द्रियाणि तमसोंऽशश्च खादयः॥इत्यादि तत्त्वविवेके ॥ १४ ॥
भूतसर्गस्तृतीयस्तु तन्मात्रद्रव्यशक्तिमान् ।चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।
भूतानि द्रव्यशक्तीनि भूतेषु द्रवणं यतः ।तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः ॥क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु ।ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः ॥एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् ।मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः ॥तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः ।तत्रापि सात्विको रुद्रस्तत्रापि तु चतुर्मुखः ॥अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे ।विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः ॥त एवेन्द्रियरूपेण यतस्त्वतिविकारिणः ।ज्ञानमात्रगुणोद्रिक्तास्तस्मात्तैजसनामकाः ॥अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु ।वैकारिकत्वनामापि ततस्तेषां न विद्यते ॥यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते ।विद्यायोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् ॥तामसानि हि भूतानि किञ्चिद्व्यवहितत्वतः ।ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयम्॥ इति च ॥ १५ ॥
षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।षडिमे प्राकृताः सर्गा वैकृतानपि मे शृृणु ॥ १७ ॥
अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः ।अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥तामसानां तु भूतानां सहस्रं सत्वभागिनाम् ।शतांशरजसामेकतमसां सर्ववेदिनाम् ॥केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका ।जाताऽतिकृष्णा तद्देहात् दैत्यरक्षःपिशाचकाः ॥यद्रजो भौतिकं तेन मानुषाणां सदा जनिः ।तमोगूढेन रजसा त्वितरस्थास्नुचारिणाम् ॥भौतिकेन तु सत्वेन गूढं ब्रह्मण आण्डजम् ।रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् ॥तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः ।गूहितं भूतरजसा तत्सत्वं मानुषा यदा ॥देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः ।गुणातीतं च यद्रूपं ब्रह्मादीनां सुखात्मकम् ॥चिद्रूपं तच्च सत्वस्यैवोत्कर्षो यत्र विद्यते ।तच्चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः ॥उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये ।प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् ।विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः॥ इति च ॥अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः ।तदुपादानकः सर्गः प्राकृतः परिपठ्यते ॥अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते ।पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा ॥उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता ।तत्स्रष्टृत्वज्ञापनाय तस्मात्सा प्राकृता मता॥ इति च ॥ १७ ॥
रजोभाजो भगवतो लीलेयं हरिमेधसः ।सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥
एते गुणा हरेः सम्यक्स्वातन्त्र्यविषयाः सदा ।स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽन्येषु तु क्रमात् ।देवेष्वेव तदन्येषु परतन्त्रा हि ते मताः॥ इति च ॥ १८ ॥
वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥
स्थास्नुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते ।प्रायः परोपकर्तृत्वात्ते मुख्यस्त्रोतसः स्मृताः ॥नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः ॥यज्ञोपयोगं च सतामुपकारं विनाऽपि च ॥तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः ।प्रायोऽधोगमनं यस्मात्प्रयत्नेन विना भवेत् ॥अर्वाक् स्रोतस इत्येव मानुषाः परिकीर्तिताः ।नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः ।ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिताः॥ इति ब्राह्मे ।तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् ।असुराणां रक्षसां च पिशाचानां तथैव च ।अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्॥ इति च ।मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति ।'ऊर्ध्व इत्येव यैस्तूच्चतम एवाभिधीयते ।ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे ।उच्छब्द उच्चमात्रेऽपि तस्मात्स्थास्नुषु भण्यते॥ इति च ।'तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः ।यत्प्रत्यक्षानुमानाभ्यां हृद्गज्ञानं न शास्त्रतः॥ इति पाद्मे ।यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः ॥ १९ ॥
तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥
गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।एते चैकशफाः क्षत्तः शृृणु पञ्चनखान् पशून् ॥ २२ ॥
श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ ।सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥
कङ्कगृध्रबश्येना भासवल्लूरबर्हिणः ।हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥
अष्टाविंशद्विशेषेण यज्ञेषूपकृतं यतः ।तिरश्चां तावदेतस्मात् गण्यते शास्त्रवेदिभिः ॥गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः ॥गौरश्च शरभश्चैव चमरी श्वसृगालकौ ।वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ ॥कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा॥ इति ब्रह्माण्डे ।कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः ।'तत्तदाकारसंयुक्तान्सृज्यान्स्रष्टारमेव च ।यः सदा संस्मरेद्योगी न स भूतोऽभिजायते॥इति स्कान्दवचनात्प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः ।'उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् ।अप्रसिद्धज्ञापनार्थं द्विधा शास्त्रवचः स्मृतम्॥ इति षाड्गुण्ये ।'वल्लूरो नृत्तपक्षी च स ललूकश्च कथ्यते। इत्यभिधाने ।'अष्टाविंशत्प्रधानास्तु तिरश्चां यास्तु जातयः ।यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् ॥जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः ।तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वशः॥इति सत्यसंहितायाम् ॥ २०-२४ ॥
अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥
'रजोनिष्ठास्तमोनिष्ठा द्वेधाऽर्वाक्स्रोतसः स्मृताः ।असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिकाः॥ इति व्योमसंहितायाम् ।दुःखे च सुखमानिनोऽसुराः ।'सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसि। इति वचनात् ॥'सुखे सुखैकभावास्तु देवा नैवं तु दानवाः। इति षाड्गुण्ये ॥२५॥
वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥
'कुमारन्तीति कौमारो देवानामण्डजोद्भवः ।वैकारिकाणां जननात्प्राकृतो वैकृतश्च सः ।वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः ।उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपि॥ इति ।देवसर्गश्चेति चकारार्थ उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वे-नोक्तः ॥ २६ ॥
देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥
भूतप््रोतपिशाचाश्च विद्याध्राः किन्नरादयः ।दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥
'प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु ।पितॄणां शतमेवात्र असुरास्त्रिंशदेव च ॥गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् ।सप्ततिर्यक्षरक्षस्सु त्रिंशच्चारणजातिषु ॥शतं सिद्धास्तथाऽन्यासु सप्ततिः सर्वजातिषु ।ऊर्ध्वस्रोतस एते वै अन्येऽर्वाक्स्रोतसः स्मृताः ॥वैकारिकेषु देवेषु एते वै मुग्धभोगिनः ।अभोगिनस्तदन्ये तु देवा एते ततः स्मृताः ॥सर्वज्ञास्ते सहाराध्या भक्तास्तेष्वन्तरेव च ।नृत्तगानादिकर्तारो वाहनादिकृतस्तथा ॥सिद्धसिद्धेतिवक्तारश्चाराश्चैषां क्वचित्क्वचित् ।सेवाकरा इति ह्येतैर्भेदैरष्टविधा मताः ॥अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः ।तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः॥ इति तत्त्वविवेके ।'यदि देवादयो दोषाज्जायेरन्मानुषादिषु ।तथाऽपि देवा विज्ञेया असुराद्यास्तथा ध्रुवम्। इति च ॥२७,२८॥
अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च ।एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे एकादशोऽध्यायः ॥
'गुणाप्लुतो हरिर्नित्यं गुणानां मध्यगो यतः ।अनहंवेदनात्तस्य गुणासंस्पर्श एव च॥ इति च ।'सृष्ट्वा देवादिदेहान्स आत्मानं बहुधाऽकरोत् ।तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदतः॥ इति नारदीये ।'कर्ता च करणं चैव कर्म चैव स्वयं हरिः ।आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता॥ इत्याग्नेये ॥ २९ ॥