Bruhadaranyaka/C2/S3: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
| chapter_num = 2 | | chapter_num = 2 | ||
| title = मूर्तामूर्तब्राह्मणम् | | title = मूर्तामूर्तब्राह्मणम् | ||
}} | }} | ||
| Line 14: | Line 10: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C02 | | chapter_id = BR_C02 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च, मर्त्यं चामृतं, स्थितं च यच्च, सच्च त्यञ्च ॥ १ ॥ | | verse_line1 = द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च, मर्त्यं चामृतं, स्थितं च यच्च, सच्च त्यञ्च ॥ १ ॥ | ||
| Line 33: | Line 27: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C02 | | chapter_id = BR_C02 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् सत् तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥ | | verse_line1 = तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् सत् तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥ | ||
| Line 52: | Line 44: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C02 | | chapter_id = BR_C02 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद् यदेतत् त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषस्तस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥ | | verse_line1 = अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद् यदेतत् त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषस्तस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥ | ||
| Line 71: | Line 61: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C02 | | chapter_id = BR_C02 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = अथाध्यात्मम् इदमेव मूर्तं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत् सत् तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥ | | verse_line1 = अथाध्यात्मम् इदमेव मूर्तं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत् सत् तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥ | ||
| Line 81: | Line 69: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C02 | | chapter_id = BR_C02 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत् त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य ह्येष रसः ॥ ५ ॥ | | verse_line1 = अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत् त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य ह्येष रसः ॥ ५ ॥ | ||
| Line 100: | Line 86: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C02 | | chapter_id = BR_C02 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = एतस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥ | | verse_line1 = एतस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥ | ||
}} | }} | ||
{{ | {{Commentary | ||
| verse_id = BR_C02_S03_V06 | |||
| id = BR_C02_S03_V06_author-note | |||
| name = Bhashyam | |||
| text = | |||
॥ इति मूर्तामूर्तब्राह्मणम् ॥ | |||
}} | |||
{{ | {{Commentary | ||
| verse_id = BR_C02_S03_V06 | |||
| id = BR_C02_S03_V06_author-note | |||
| name = Bhashyam | |||
| text = | |||
॥ इति मूर्तामूर्तब्राह्मणम् ॥ ४३ ॥ | |||
}} | |||
{{Commentary | {{Commentary | ||
Revision as of 04:44, 9 April 2026
मूर्तामूर्तब्राह्मणम्
द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च, मर्त्यं चामृतं, स्थितं च यच्च, सच्च त्यञ्च ॥ १ ॥
विशरणावसादनयुक्तं सत् । ततं सर्वज्ञं च त्यम् ।
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् सत् तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥
प्रलयेऽपि भगवदन्तरेव रता अक्षिताऽवस्थितेति श्रीरन्तरिक्षम् । य एष तपतीत्यादित्यस्थो हिरण्यगर्भ उच्यते ।
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद् यदेतत् त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषस्तस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥
मण्डले पुरुष इति भगवान् विष्णुः ।
अथाध्यात्मम् इदमेव मूर्तं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्यमेतत्स्थितमेतत् सत् तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष रसः ॥ ४ ॥
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत् त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य ह्येष रसः ॥ ५ ॥
एवमेव चक्षुर्दक्षिणेक्षन्पुरुषश्च ।
एतस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदाथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
॥ इति मूर्तामूर्तब्राह्मणम् ॥
॥ इति मूर्तामूर्तब्राह्मणम् ॥ ४३ ॥
तस्यैवामूर्तरसस्य भगवतो नेति नेतीत्यादेशः । अतस्तस्मादमूर्तसारत्वादित्यर्थः । अथेत्यानन्तर्यार्थे । इति नेति नेति मूर्तामूर्तविलक्षण इत्यर्थः । उभयसादृश्यनिषेधार्थं द्विवारम् । इति नेति निषिध्यमानमप्येतस्मादन्यत्परं नास्ति एष एव परः । मूर्तामूर्तं त्वपरमेवैतदपेक्षया । मूर्तामूर्तमेवाध्यात्मं प्राणा इत्युच्यन्ते । ब्रह्मणो वायोश्चामूर्तत्वात् ।
मूर्तामूर्तमिदं रूपं ब्रह्मणः प्रतिमात्मकम् ।
नैतत्स्वरूपमेतत् स्यात् तद्धि सर्वपरं सदा ॥
श्रियो वायोर्विरिञ्चाच्च येऽन्ये मूर्ता हि ते स्मृताः ।
मूरं पापं हि तेनाप्तं मूर्तमित्यभिधीयते ॥
विशीर्णं चावसन्नं च तदेवातः सदुच्यते ।
पराधीनगतित्वाच्च स्थितमित्यभिधीयते ॥
तस्य सारो विरिञ्चस्तु तद्विरुद्धस्वभावकः ।
मूर्ताद्विरुद्धरूपत्वाच्छ्रीर्वायुश्चाप्यमूर्तकौ ॥
सर्वज्ञौ च ततौ चैव नियतो हरिणैव तौ ।
तयोः सारस्तु भगवान् हरिर्नारायणः परः ॥
आदित्यमण्डले चैव चक्षुष्वपि च सुस्थितः ।
तत्रैव संस्थितो ब्रह्मा मूर्तसारोऽपि तस्य च ॥
विष्णुरेव परः सारस्तस्य रूपाण्यनेकधा ।
महारजनवासोवत् पाण्ड्वाविकवदेव च ॥
विद्युत्पद्मेन्द्रगोपादिवह्निवत् सुखभास्वरः ।
नैवासौ मूर्तवद्विष्णुर्न च मूर्तरसोपमः ॥
न चामूर्तोपमो देवः स एव परमः सदा ।
तस्यान्यदपरं सर्वं सत्यसत्यः स एकराट् ॥
मूर्तामूर्तात्मकाः प्राणास्तेषां सत्यः स एव हि ॥
इति नारायणश्रुतौ ।प्रथमनिषेधेनैव मूर्तरससादृश्यमपि निषिद्धम् ॥