Bhagavatatatparyanirnaya/C10/S27: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_num = 10 | | chapter_num = 10 | ||
| title = सप्तविंशोऽध्यायः | | title = सप्तविंशोऽध्यायः | ||
}} | }} | ||
| Line 14: | Line 10: | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_id = BTN_C10 | | chapter_id = BTN_C10 | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः । | | verse_line1 = दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः । | ||
| Line 25: | Line 19: | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_id = BTN_C10 | | chapter_id = BTN_C10 | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः । | | verse_line1 = तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः । | ||
| Line 36: | Line 28: | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_id = BTN_C10 | | chapter_id = BTN_C10 | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥ | | verse_line1 = राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥ | ||
| Line 46: | Line 36: | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_id = BTN_C10 | | chapter_id = BTN_C10 | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥ | | verse_line1 = श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥ | ||
| Line 56: | Line 44: | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_id = BTN_C10 | | chapter_id = BTN_C10 | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । | | verse_line1 = नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । | ||
| Line 67: | Line 53: | ||
| document_id = BTN | | document_id = BTN | ||
| chapter_id = BTN_C10 | | chapter_id = BTN_C10 | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च । | | verse_line1 = कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च । | ||
| Line 74: | Line 58: | ||
}} | }} | ||
{{ | {{Commentary | ||
| verse_id = BTN_C10_S27_V15 | |||
| id = BTN_C10_S27_V15_author-note | |||
| name = Bhashyam | |||
| text = | |||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे सप्तविंशोऽध्यायः ॥ | |||
}} | |||
{{Commentary | {{Commentary | ||
Revision as of 04:43, 9 April 2026
सप्तविंशोऽध्यायः
दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः ।ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥
तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः ।जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥
श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च ।नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे सप्तविंशोऽध्यायः ॥
'कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः ।सम्यक्कृष्णं परं ब्रह्म ज्ञात्वा कालात्परं ययुः ।पूर्वं च ज्ञानसंयुक्तास्तत्रापि प्रायशस्तथा ॥अतस्तासां परं ब्रह्म गतिरासीन्न कामतः ।न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः ॥कामयुक्ता तदा भक्तिर्ज्ञानं चातो विमुक्तिगाः ।अतो मोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते ॥अतोदकत्वेन सदा द्वेषिणामधरं तमः ।मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः ॥भक्तिभागी पृथङ्मुक्तिमगाद्विष्णुप्रसादतः ।कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् ॥द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् ।अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात्॥ इति स्कान्दे ॥जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथापि ॥ब्रह्मतया न सम्यक् ।'प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा।'रमाया दत्तक्षणम्इत्यादिवचनात् ॥कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता ।'विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः ।द्वेषिणश्च हरौ नित्यं द्वेषेण तमसि स्थिताः॥ इति च ।'भक्त्या हि नित्यकामित्वं न तु मुक्तिं विना भवेत् ।अतः कामितया वाऽपि मुक्तिर्भक्तिमतां हरौ ॥स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरस्त्रियः ।काश्चित्काश्चिन्न कामेन भक्त्या केवलयैव तु ॥मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित्॥ इति पाद्मे ।'भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् ।कामभक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः ॥उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः ।जारत्वेनाप्सरस्त्रीणां कासांचिदिति योग्यता ॥योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति ।अयोग्योपासनाकर्तुरनर्थश्च भविष्यति ॥तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्यमुपासनम्॥ इति भद्रिकायाम् ।'पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च ।पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ॥प्रपितामहो मे भगवानिति सर्वजनस्य तु ।गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः ॥मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः ।गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः ॥इत्येवोपासनं कार्यं नान्यथा तु कथञ्चन॥ इति वाराहे ॥१०-१५॥