Bruhadaranyaka/C5/S6: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
}} | }} | ||
== षष्ठं ब्राह्मणम् == | == षष्ठं ब्राह्मणम् == | ||
{{VerseBlock | |||
| verse_id = BR_C05_S06_V01 | |||
| document_id = BR | |||
| chapter_id = BR_C05 | |||
| section_id = BR_C05_S06 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = तद्यत्तत् सत्यमसौ स आदित्यो य एष एतस्मिन् मंडले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मंडलं पश्यति नैनमेते रश्मयःप्रत्याययन्ति ॥१॥ | |||
}} | |||
{{AuthorNote| text = ॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये षष्ठं ब्राह्मणम् ॥}} | |||
{{AuthorNote| text = ॥ इति बृहद्भाष्ये सप्तमाध्याये षष्ठं ब्राह्मणम्॥}} | |||
{{Commentary | |||
| verse_id = BR_C05_S06_V01 | |||
| id = BR_C05_S06_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
स वासुदेवो भगवानादित्यस्थो जनार्दनः । | |||
आदित्यनामा सम्प्रोक्तो आदानाद्धविषां सदा ॥ | |||
स एव दक्षिणाक्षिस्थस्तच्च रूपद्वयं हरेः । | |||
अन्योऽन्यस्मिन् स्थितं नित्यं प्राणैश्च सह रश्मिभिः ॥ | |||
दक्षिणाक्षिस्थितो विष्णुर्यदाऽस्मादुत्क्रमिष्यति । | |||
तदैव म्रियमाणस्तु जीवः पश्येद्विरश्मिकम् ॥ | |||
सूर्यस्य मंडलं नास्य प्रतीयन्ते हि रश्मयः । | |||
तत्क्षणे नियमेनैव केषाञ्चित् सप्तभिर्दिनैः ॥ | |||
}} | |||
[[Category:Bruhadaranyaka]] | [[Category:Bruhadaranyaka]] | ||
Revision as of 05:36, 8 April 2026
षष्ठं ब्राह्मणम्
तद्यत्तत् सत्यमसौ स आदित्यो य एष एतस्मिन् मंडले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योन्यस्मिन् प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मंडलं पश्यति नैनमेते रश्मयःप्रत्याययन्ति ॥१॥
स वासुदेवो भगवानादित्यस्थो जनार्दनः ।
आदित्यनामा सम्प्रोक्तो आदानाद्धविषां सदा ॥
स एव दक्षिणाक्षिस्थस्तच्च रूपद्वयं हरेः ।
अन्योऽन्यस्मिन् स्थितं नित्यं प्राणैश्च सह रश्मिभिः ॥
दक्षिणाक्षिस्थितो विष्णुर्यदाऽस्मादुत्क्रमिष्यति ।
तदैव म्रियमाणस्तु जीवः पश्येद्विरश्मिकम् ॥
सूर्यस्य मंडलं नास्य प्रतीयन्ते हि रश्मयः ।
तत्क्षणे नियमेनैव केषाञ्चित् सप्तभिर्दिनैः ॥