Bruhadaranyaka/C1/S7: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
}} | }} | ||
== त्रयब्राह्मणम् == | == त्रयब्राह्मणम् == | ||
{{VerseBlock | |||
| verse_id = BR_C01_S07_V01 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S07 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S07_V02 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S07 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामेतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S07_V03 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S07 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्माऽऽत्मैकः सन्नेतत्त्रयं तदेतदमृतं सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥ | |||
}} | |||
{{AuthorNote| text = ॥ इति त्रयब्राह्मणम् ॥}} | |||
{{AuthorNote| text = ॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥}} | |||
{{AuthorNote| text = ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः ॥}} | |||
{{Commentary | |||
| verse_id = BR_C01_S07_V03 | |||
| id = BR_C01_S07_V03_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
सहैव माति जानातीति समम् । आत्मा प्राणः । नामरूपयोरपि प्राणाधीनत्वादेकमित्युच्यते । | |||
प्राणो वायुरिति प्रोक्तस्तत्पत्नी नाम भारती । | |||
रूपं तु तत्सुतो रुद्रो वशे प्राणस्य तद्द्वयम् ॥ | |||
अमृतो वायुरुद्दिष्टो नित्यज्ञानात्मकत्वतः । | |||
सत्यं यथार्थवक्तृत्वाद्भारती रुद्र एव च ॥ इति । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S07_V03 | |||
| id = BR_C01_S07_V03_B02 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
रुद्रं वेदेषु च प्राणः प्रविष्टश्छादितः सदा । | |||
सत्य इत्युच्यते नित्यं स्वरूपेणामृतः स्मृतः ॥ इति च । | |||
}} | |||
[[Category:Bruhadaranyaka]] | [[Category:Bruhadaranyaka]] | ||
Revision as of 05:36, 8 April 2026
त्रयब्राह्मणम्
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामेतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्माऽऽत्मैकः सन्नेतत्त्रयं तदेतदमृतं सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥
सहैव माति जानातीति समम् । आत्मा प्राणः । नामरूपयोरपि प्राणाधीनत्वादेकमित्युच्यते ।
प्राणो वायुरिति प्रोक्तस्तत्पत्नी नाम भारती ।
रूपं तु तत्सुतो रुद्रो वशे प्राणस्य तद्द्वयम् ॥
अमृतो वायुरुद्दिष्टो नित्यज्ञानात्मकत्वतः ।
सत्यं यथार्थवक्तृत्वाद्भारती रुद्र एव च ॥ इति ।रुद्रं वेदेषु च प्राणः प्रविष्टश्छादितः सदा ।
सत्य इत्युच्यते नित्यं स्वरूपेणामृतः स्मृतः ॥ इति च ।