Bruhadaranyaka/C1/S1: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
}} | }} | ||
== अश्वब्राह्मणम् == | == अश्वब्राह्मणम् == | ||
{{VerseBlock | |||
| verse_id = BR_C01_S01_V01 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S01 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः । संवत्सरः आत्मा अश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं, पृथिवी पाजस्यं, दिशः पार्श्वे । अवान्तरदिशः पर्शवः । ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा । नक्षत्राण्यस्थीनि नभो मांसान्युवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
श्रीमदानन्दतीर्थभगवत्पादाचार्यप्रणीतं बृहदारण्यकोपनिषद्भाष्यम् | |||
प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् । | |||
सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥ १ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः । | |||
तथा जगाद सूर्याय याज्ञवल्क्याय सोऽब्रवीत् ॥ २ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम् । | |||
कण्वाय याज्ञवल्क्योऽदात् काण्वं तेन प्रकीर्तितम् ॥ इति वाराहे । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
अश्वस्वरूपो ब्रह्माऽभूदश्वरूपाज्जनार्दनात् । | |||
तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः ॥ | |||
तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः । | |||
सर्वं जगत्तदङ्गेषु तस्मात् सन्निहितं स्मृतम् ॥ | |||
तयोरङ्गेष्विदं यस्मात् जगत्सर्वं प्रतिष्ठितम् ॥ इति प्रध्याने । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
उच्चैःश्रवाः सन्निहितो मेध्येऽश्वे तत्र केशवः । | |||
तस्मिन्निदं जगत्सर्वं ब्रह्मा चोच्चैःश्रवःस्थितः ॥ इति सौपर्णे । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
पर्वताः सिकताश्चैव नद्यः कूपाः सरांसि च । | |||
हविः कपालयूपाद्या देवता एव सर्वशः ॥ | |||
तत्तन्नामैव नामैषां भिन्नानामभिमानतः । | |||
नामानि तान्यपि हरेः स हि सर्वगुणाधिकः ॥ इति नारदीये । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
उषाः शिरो ब्रह्मनाम तत्त्वमस्यादयोऽखिलाः । | |||
सप्तम्यर्थाः समुद्दिष्टाः पञ्चम्यर्थास्तथा श्रुताः ॥ | |||
षष्ठ्यर्थाश्च चतुर्थ्यर्थास्तृतीयार्थाश्च सर्वशः । | |||
तदैक्यवाचिवच्छब्दाः अपि तद्गत्ववाचकाः ॥ | |||
ऐक्यार्था नैव ते सर्वे भिन्नरूपाः यतः सदा । | |||
ईशाङ्गवाचिनो वा स्युस्तेषामेव तदर्थतः ॥ | |||
सप्तसु प्रथमा यस्मात् तत्तद्योग्यार्थता भवेत् ॥ इति ब्रह्मतर्के । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
अङ्गप्रत्यङ्गशो व्याप्तो विष्णुरेव तुरङ्गमे । | |||
अतो विष्ण्वङ्गगं सर्वं मेध्याङ्गस्थमुदीरितम् ॥ इति च । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
पुनरप्यश्वस्य मेध्यस्येतिवचनं कस्यचिदश्वस्यैवमासीदितीतिहासरूपेण नोच्यते किन्तु सर्वमेध्यानामेवमिति ज्ञापनार्थम् । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
सर्वव्यक्तिष्वभिव्याप्त्यै तात्पर्याधिक्यवित्तये । | |||
प्रतीतानुपपत्तेरप्यभासत्वविवक्षया ॥ | |||
पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक् पृथक् ॥ इति च । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
विष्णोः पुरीषस्थानीया काठिन्यात् पृथिवी श्रुता । | |||
तत्स्थत्वात् सिकताः सर्वा उवध्यस्थाः प्रकीर्तिताः ॥ | |||
उर्व्यास्तु पादगत्वेऽपि नोवध्यत्वं विरुध्यते । | |||
यतस्तदभिमानिन्यो देवता अनुकीर्तिताः ॥ | |||
तासां च बहुरूपत्वादैश्वर्याच्च परेशितुः । इति च । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
अवान्तरदिशो विष्णोरस्थिपुच्छान्युदाहृताः । | |||
पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते ॥ | |||
शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः । | |||
संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः ॥ | |||
क्लोमानश्च यकृच्चैव मांसी गिर्यभिमानिनः । | |||
आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः ॥ इति च । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V01 | |||
| id = BR_C01_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
नभोऽभिमानी विघ्नेशो विष्णोर्मांसाश्रितः सदा । | |||
अन्तरिक्षाभिमानी च तत्सूनुरुदरे स्थितः ॥ इति च ॥ १ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S01_V02 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S01 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = अहर्वा अश्वं पुरस्ताद् महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनौ रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥॥ इति अश्वब्राह्मणम् ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V02 | |||
| id = BR_C01_S01_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
अश्वपूर्वापरौ होम्यौ महिमानौ ग्रहौ स्मृतौ । | |||
अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ ॥ | |||
कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ । | |||
समुद्रेकात् समुद्रस्तु विष्णुः पूर्वमुदाहृतः ॥ | |||
उपचारेण तूद्रेकादपरश्च चतुर्मुखः । | |||
स विष्णुर्हयनामा सन् देववाह्येषु संस्थितः ॥ | |||
वाजिनामा तु गन्धर्वेष्वर्वनामाऽसुरेषु च । | |||
मनुष्येष्वश्वनामाऽसौ तद्बन्धुः स्वयमेव सः ॥ | |||
तस्मादेवोत्थितिस्तस्य रूपभेदो न तस्य च । | |||
ऐश्वर्यात् स तथापीशो व्यक्तिभावं गमिष्यति ॥ | |||
हत्वा याति यतः शत्रून् हरिस्तस्मात् हयः स्मृतः । | |||
सर्वदा युद्धकर्तृत्वाद्वाजी चापि प्रकीर्तितः ॥ | |||
अर्वाऽभिगमनादुक्त आशुत्वादश्व उच्यते ॥ इति वैहायसे । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V02 | |||
| id = BR_C01_S01_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
तेषां तेषां वाहनेषु स्थित्वा तत्तत्कर्मकर्तृत्वात् तत्तन्नामा । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V02 | |||
| id = BR_C01_S01_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
पतन्ति नियतं हन्तुं देवाश्वाः शत्रुमूर्धसु । | |||
वेगाधिका आसुराश्वा वेगमात्रं नृवाहनः ॥ इति स्कान्दे । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S01_V02 | |||
| id = BR_C01_S01_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
गन्धर्वास्तु सदा युद्धरता देवानुगा यतः । | |||
तदशक्तौ तु देवानां युध्यन्ते स्वामिनो यतः ॥ | |||
केचिद् गानरता नित्यं गन्धर्वा नर्तकाः परे । | |||
केचिद् वाद्यरता नित्यं चारणा देवचारकाः ॥ इति च ॥ | |||
}} | |||
[[Category:Bruhadaranyaka]] | [[Category:Bruhadaranyaka]] | ||
Revision as of 05:36, 8 April 2026
अश्वब्राह्मणम्
ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः । संवत्सरः आत्मा अश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं, पृथिवी पाजस्यं, दिशः पार्श्वे । अवान्तरदिशः पर्शवः । ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा । नक्षत्राण्यस्थीनि नभो मांसान्युवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यप्रणीतं बृहदारण्यकोपनिषद्भाष्यम्
प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् ।सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैः सदा सेव्यमानं विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥ १ ॥
यथा तुष्टाव लक्ष्मीशं सर्गादौ चतुराननः ।
तथा जगाद सूर्याय याज्ञवल्क्याय सोऽब्रवीत् ॥ २ ॥
वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम् ।
कण्वाय याज्ञवल्क्योऽदात् काण्वं तेन प्रकीर्तितम् ॥ इति वाराहे ।
अश्वस्वरूपो ब्रह्माऽभूदश्वरूपाज्जनार्दनात् ।
तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः ॥
तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः ।
सर्वं जगत्तदङ्गेषु तस्मात् सन्निहितं स्मृतम् ॥
तयोरङ्गेष्विदं यस्मात् जगत्सर्वं प्रतिष्ठितम् ॥ इति प्रध्याने ।उच्चैःश्रवाः सन्निहितो मेध्येऽश्वे तत्र केशवः ।
तस्मिन्निदं जगत्सर्वं ब्रह्मा चोच्चैःश्रवःस्थितः ॥ इति सौपर्णे ।
पर्वताः सिकताश्चैव नद्यः कूपाः सरांसि च ।
हविः कपालयूपाद्या देवता एव सर्वशः ॥
तत्तन्नामैव नामैषां भिन्नानामभिमानतः ।
नामानि तान्यपि हरेः स हि सर्वगुणाधिकः ॥ इति नारदीये ।उषाः शिरो ब्रह्मनाम तत्त्वमस्यादयोऽखिलाः ।
सप्तम्यर्थाः समुद्दिष्टाः पञ्चम्यर्थास्तथा श्रुताः ॥
षष्ठ्यर्थाश्च चतुर्थ्यर्थास्तृतीयार्थाश्च सर्वशः ।
तदैक्यवाचिवच्छब्दाः अपि तद्गत्ववाचकाः ॥
ऐक्यार्था नैव ते सर्वे भिन्नरूपाः यतः सदा ।
ईशाङ्गवाचिनो वा स्युस्तेषामेव तदर्थतः ॥
सप्तसु प्रथमा यस्मात् तत्तद्योग्यार्थता भवेत् ॥ इति ब्रह्मतर्के ।अङ्गप्रत्यङ्गशो व्याप्तो विष्णुरेव तुरङ्गमे ।
अतो विष्ण्वङ्गगं सर्वं मेध्याङ्गस्थमुदीरितम् ॥ इति च ।
पुनरप्यश्वस्य मेध्यस्येतिवचनं कस्यचिदश्वस्यैवमासीदितीतिहासरूपेण नोच्यते किन्तु सर्वमेध्यानामेवमिति ज्ञापनार्थम् ।
सर्वव्यक्तिष्वभिव्याप्त्यै तात्पर्याधिक्यवित्तये ।
प्रतीतानुपपत्तेरप्यभासत्वविवक्षया ॥पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक् पृथक् ॥ इति च ।
विष्णोः पुरीषस्थानीया काठिन्यात् पृथिवी श्रुता ।
तत्स्थत्वात् सिकताः सर्वा उवध्यस्थाः प्रकीर्तिताः ॥
उर्व्यास्तु पादगत्वेऽपि नोवध्यत्वं विरुध्यते ।
यतस्तदभिमानिन्यो देवता अनुकीर्तिताः ॥
तासां च बहुरूपत्वादैश्वर्याच्च परेशितुः । इति च ।अवान्तरदिशो विष्णोरस्थिपुच्छान्युदाहृताः ।
पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते ॥
शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः ।
संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः ॥
क्लोमानश्च यकृच्चैव मांसी गिर्यभिमानिनः ।
आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः ॥ इति च ।नभोऽभिमानी विघ्नेशो विष्णोर्मांसाश्रितः सदा ।
अन्तरिक्षाभिमानी च तत्सूनुरुदरे स्थितः ॥ इति च ॥ १ ॥
अहर्वा अश्वं पुरस्ताद् महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनौ रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥॥ इति अश्वब्राह्मणम् ॥
अश्वपूर्वापरौ होम्यौ महिमानौ ग्रहौ स्मृतौ ।
अहोरात्राभिमन्तारौ तयोरप्यभिमानिनौ ॥
कामश्चाथ रतिश्चैव विष्णुब्रह्मशरीरजौ ।
समुद्रेकात् समुद्रस्तु विष्णुः पूर्वमुदाहृतः ॥
उपचारेण तूद्रेकादपरश्च चतुर्मुखः ।
स विष्णुर्हयनामा सन् देववाह्येषु संस्थितः ॥
वाजिनामा तु गन्धर्वेष्वर्वनामाऽसुरेषु च ।
मनुष्येष्वश्वनामाऽसौ तद्बन्धुः स्वयमेव सः ॥
तस्मादेवोत्थितिस्तस्य रूपभेदो न तस्य च ।
ऐश्वर्यात् स तथापीशो व्यक्तिभावं गमिष्यति ॥
हत्वा याति यतः शत्रून् हरिस्तस्मात् हयः स्मृतः ।
सर्वदा युद्धकर्तृत्वाद्वाजी चापि प्रकीर्तितः ॥
अर्वाऽभिगमनादुक्त आशुत्वादश्व उच्यते ॥ इति वैहायसे ।तेषां तेषां वाहनेषु स्थित्वा तत्तत्कर्मकर्तृत्वात् तत्तन्नामा ।
पतन्ति नियतं हन्तुं देवाश्वाः शत्रुमूर्धसु ।
वेगाधिका आसुराश्वा वेगमात्रं नृवाहनः ॥ इति स्कान्दे ।
गन्धर्वास्तु सदा युद्धरता देवानुगा यतः ।
तदशक्तौ तु देवानां युध्यन्ते स्वामिनो यतः ॥
केचिद् गानरता नित्यं गन्धर्वा नर्तकाः परे ।
केचिद् वाद्यरता नित्यं चारणा देवचारकाः ॥ इति च ॥