BramhasutraBhashyam/C03/S03/व्याख्या/bhashya: Difference between revisions
Appearance
BramhasutraBhashyam>ShastraImport Imported from BS.xml via ShastraEditor |
m 1 revision imported |
(No difference)
| |
Latest revision as of 19:18, 10 March 2026
अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ इति वचनात् । सर्ववेद निर्णयोत्पाद्यज्ञानं ब्रह्म ।’आत्मेत्येवोपासीत’ इत्यादिविधीनां तदुक्त युक्तीनां चाविशिष्टत्वात् ॥ 01 ॥
‘विज्ञानमानन्दं ब्रह्म’’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि प्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न । एकस्यामपि शाखायां’आत्मेत्येवोपासीत’‘ॐ खं ब्रह्म’ इत्यादिभेददर्शनात् ॥ 02 ॥
‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधेः । हिशब्दात्
इति स्मृतेः ।
इति स्मृतेः ।
‘सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः ।
आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥
आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥
सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः ।
शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’
यथा सर्वं सलिलं समुद्रं गच्छत्येवं सर्वाणि वचनानि ब्रह्मज्ञानार्थानीति नियमः ।
आग्नेये च –
‘यथा नदीनां सलिलं शक्ये सागरगं भवेत् ।
‘सर्वैश्च वेदैः परमो हि देवो जीज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत् ।
इति चतुर्वेदशिखायाम् ।
इति चतुर्वेदशिखायाम् ।
‘सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् ।
इति ब्रह्मतर्के ॥ 05 ॥
इति ब्रह्मतर्के ॥ 05 ॥
सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः ।
‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतीहासैः ।
इति भाल्लवेयश्रुतिः ।
इति भाल्लवेयश्रुतिः ।
आग्नेये च-
विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।
यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥
यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥
एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः ।
योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥
योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥
समानविषये चोपसंहारः । न तु’सोऽरोदीत्’ इत्यादिनाम् ।
गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन।
इति बृहत्तन्त्रे ॥ 06 ॥
इति बृहत्तन्त्रे ॥ 06 ॥
‘आत्मेत्येवैपासीत’ इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्य इति विशेषवचनाभावात् ।
‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’ इति विशेषवचनाच्च ।
आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥
प्रकरणभेदान्नवोपसंहारः कार्यः । परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥
सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नात्मवित्’ इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः ।
‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृति ।
इति च ब्रह्मतर्के ॥
इति च ब्रह्मतर्के ॥
इति चेत् सत्यम् । उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव ।
‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’ इति कौण्डिन्यश्रुतौ ॥ 09 ॥
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।
‘गुणैःसर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।
इति भविष्यत्पर्वणि ॥ 10 ॥
इति भविष्यत्पर्वणि ॥ 10 ॥
सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति ।
‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् ।
इति पाद्मे ॥ 11 ॥
इति पाद्मे ॥ 11 ॥
प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।
‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
इति ब्रह्मतर्के ॥ 12 ॥
इति ब्रह्मतर्के ॥ 12 ॥
फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिः ।
‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।
इति हि वाराहे ॥ 13 ॥
इति हि वाराहे ॥ 13 ॥
इतरे गुणाः फलसाम्यापेक्षयोपसंहर्थव्याः ॥ 14 ॥
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥
‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुधीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥
ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥
नान्यत् प्रयोजनं ज्ञानाध्यानात् कर्मकृतेरपि ।
इति परमसंहितायाम् ॥
इति परमसंहितायाम् ॥
‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।
नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् ।
इति ब्रह्मतन्त्रे ॥ 15 ॥
इति ब्रह्मतन्त्रे ॥ 15 ॥
‘आत्मेत्येवोपासीत’ इत्यनुपसंहारप्रमाणम् ॥ 16 ॥
न च’आनन्दादयः प्रधानस्य’ इत्युक्तिविरोधः । यतः’सत्यं ज्ञानमनन्तम् ब्रह्म।’विज्ञानमानन्दम् ब्रह्म’ इतिवदेवात्मशब्दगृहीतिः । ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्युत्तरात् ।
‘आनन्दानुभवत्त्वाच्च निर्दोषत्वाच्च भण्यते ।
इति बृहत्तन्त्रे ॥ 17 ॥
इति बृहत्तन्त्रे ॥ 17 ॥
सर्वगुणानामान्वय आत्म शब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’ इति वचनादिति चेत् सत्यम् । स्याच्च्यैवं । आत्मेत्येवेत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥
‘अलौकिकास्तस्य गुणा ह्युपास्य अलौकिकं मुक्तिकार्यं यतोऽस्य’
इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥
इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥
अपूर्वत्वेऽपि समानानामेवोपसंहारः। न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ॥ 20 ॥
परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते।
‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः ।
इति ब्रह्मतन्त्रे ॥ 21 ॥
इति ब्रह्मतन्त्रे ॥ 21 ॥
न वा ऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥
‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’ इति भाल्लवेयश्रुतिः ॥ 23 ॥
सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् ।
‘देवादीनामुपास्यास्तुभृतिव्याप्त्यादयो गुणाः ।
इति च ब्रह्मतर्के ॥ 24 ॥
इति च ब्रह्मतर्के ॥ 24 ॥
पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् ।
‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
इति ब्रह्मतर्के ॥ 25 ॥
इति ब्रह्मतर्के ॥ 25 ॥
‘भिन्धि विद्धि श्रुणीहीति फलभेदेन सर्वशः ।
इति बृहत्तन्त्रे ॥
इति बृहत्तन्त्रे ॥
नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः ।’ब्रह्मविदाप्नोति परम्’ इति मोक्षवाक्यशेषत्वादितरेषाम् ॥
तच्चोक्तम्’’एतत् सामगायन्नास्ते’ इत्यादि ।
‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।
नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥
नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥
‘कृष्णो मुक्यैरिज्यते वीतमोहैः’ इति च भारते ॥ 27 ॥
स्वेच्छयैवेत्यङ्गीकर्तव्यम् । मुक्तस्य तीर्णत्वात् ।‘तीर्णो हि तदा सर्वां भवति’ इति ह्यन्ये पठन्ति ।
वायुप्रोक्ते च
‘स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः ।
ब्रह्मलोकं गताः सर्वे ब्रह्मणा च परं गताः ।
स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥
बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥
‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।
नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥
नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥
तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।
इति हि ब्रह्माण्डे ॥ 30 ॥
इति हि ब्रह्माण्डे ॥ 30 ॥
उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥
प्राप्तज्ञानानामपि केषाञ्चिन्मुक्तिप्राप्तिः केषाञ्चिन्न, यथोपसंहारनियम इति न मन्तव्यम् ।
‘सर्वेगुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्युपसंहारविरोधादन्यत्राविरोधात् ।
‘न कश्चिद्ब्रह्मवित् स्मृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः स्मृतिहेति’ इति कौण्डन्यश्रुतेश्च ।
यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्च॥ 32 ॥
यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते ।‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यः ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्दः’ इति चतुर्वेदशिखायाम् ।
अध्यात्मे च –
‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।
यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥
यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥
न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । औपसदवच्छिष्यवत् ।
उक्तं च तुरश्रुतौ –
‘नानाविधा जीवसङ्घा विमुक्तौन चैव तेषां ब्रह्मधियां विरोधः।
दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥
दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥
नामाध्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम्। न प्राणात् किञ्चिद्बूय उक्तम् । तथाऽपि पूर्ववत् स्यात् इति न वाच्यम् ।
प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान् प्राणो ह्येव भूयांस्तस्माद्भूयान् नाम’ इति कौण्ठरव्यश्रुतेः ॥ 35 ॥
यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेन्न। प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम्। दृष्यते चान्यत्रोत्तमत्वम् ॥ 36 ॥
प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चेन्न । श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात् परमात्मनो ह्युपदिष्टम् ॥ 37 ॥
उक्तं प्राणात् परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण’एष तु वा अतिवदति’ इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।
‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।
तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति च ब्रह्मतन्त्रे ॥ 38 ॥
तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति च ब्रह्मतन्त्रे ॥ 38 ॥
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः ।
ब्रह्मतर्के च –
‘नामादिप्राणपर्यन्ताद्योहि सत्यादिरूपवान् ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥
‘सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः ।
इति चाध्यात्मे ॥ 39 ॥
इति चाध्यात्मे ॥ 39 ॥
स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोतीश्वरेच्छानुसारेण ।
‘सर्वायतना सर्वकाला सर्वेच्छा न बद्धाबन्धिका सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः ।
‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् ।
इति ब्रह्मतर्के ॥ 40 ॥
इति ब्रह्मतर्के ॥ 40 ॥
अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।
‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकर्माऽपि सर्वदा ।
इति बृहत्तन्त्रे ॥ 41 ॥
इति बृहत्तन्त्रे ॥ 41 ॥
अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥
तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । हिशब्देन’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतिं सूचयति । श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः ।
ब्रह्मतर्के च –
ब्रह्मतर्के च –
‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ॥ 43 ॥
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ॥ 43 ॥
न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति।’आचार्यवान् पुरुषो वेद’ इति ह्युक्तम् ॥ 44 ॥
ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन’भगवांस्त्वेव मे कामं ब्रूयात्’ श्रुतं ह्येव भगवद्दृशेभ्य आचार्याद्यैव विद्या विदिता साधिष्ठं प्रापयति’ इति वचनात् ।‘अत्र ह न किञ्चन वीयाय’ इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रदानमेव बलवत् । तर्हि तावताऽलमिति न मन्तव्यम् ।’श्रोतव्यो मन्तव्यः’ इत्यादेस्तदपि कर्तव्यम् ।
वाराहे च –
वाराहे च –
‘गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् ।
तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’ इति ॥ 45 ॥
तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’ इति ॥ 45 ॥
न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।
‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।
गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥
गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥
समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् ।
इति बृहत्तन्त्रे ॥
इति बृहत्तन्त्रे ॥
‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि ।
कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥
कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥
ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।
इति महासंहितायाम् ॥ 46 ॥
इति महासंहितायाम् ॥ 46 ॥
‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतीदेशाच्च॥ 47 ॥
न च’कर्मण्यैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिनाऽन्यन्मोक्षसाधनम् ।
‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ इति निर्धारणाद्विद्ययैव मोक्षः ॥ 48 ॥
न केवलं विद्यया किन्त्वपरोक्षज्ञानेनैव च।
सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’ इति कौशिकश्रुतेः ॥ 49 ॥
सावधारणा बलवति श्रुतिः ।
‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपपन्नः॥
न कर्मभिर्न धनैर्नैव चान्यैः पश्ये सुखं तेन तत्त्वं ब्रवीहि’
इति बलवल्लिङ्गम् ॥
इति बलवल्लिङ्गम् ॥
‘नास्त्यकृतः कृतेन’ इत्युपपत्तिश्च ।
‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
इति युक्तिमद्बगवद्वचनम् ॥
इति युक्तिमद्बगवद्वचनम् ॥
अतो न प्रमाणान्तरबाधः ।’कर्मण्यैव’ इत्ययोगव्यवच्छेदः ॥ 50 ॥
न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् ।
किन्तु भक्त्यादिभिश्च ।
‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः ।
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥
तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः ।
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥
‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।
दद्याच्छमदमादिश्च तेन चैते गुणाः पुनः ॥
तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’
उपासनाभेदवद्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ –
‘अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवावाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते’ इति । आध्यात्मे च –
‘दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।
दर्शनेनान्तरेणान्ये देवाः सर्वत्र दर्शनात् ॥
न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः ।
‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’
इति हि नारायणतन्त्रे॥
इति हि नारायणतन्त्रे॥
‘मुच्यते नात्र सन्देहो दृष्ट्वा तु स्वात्मयोग्यया’ इति च ॥
‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥ 53 ॥
परमात्मैवं भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यते।
मायावैभवे च
‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः ।
भक्तिरित्युच्यते सैव करणं परमीशितुः’॥
अंशांशिनोरेकत्वमेव । अंशिकर्मनिर्मितशरीर एवांशस्य भावात् ॥ 55 ॥
ज्ञानादिभेधे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादंशस्य ।
परमसंहितायां च –
‘अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा ।
पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥
पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥
ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते। हिशब्दात्
‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।
इति ब्रह्मतर्कवचनात् ॥ 57 ॥
इति ब्रह्मतर्कवचनात् ॥ 57 ॥
सर्वदेवतामन्त्रा यथाऽधीयन्त एवमविरोधो वा ।
‘उपासनाङ्गदेवानां परमाङ्गतया भवेत् ।
इति बृहत्तन्त्रे ॥ 58 ॥
इति बृहत्तन्त्रे ॥ 58 ॥
सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् । सर्वत्र सहभावात् दीक्षाप्रायणीयोदयनीयसवनत्र यावभृथात्मकः क्रतुः ।
‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः
इति च गौपवनश्रुतिः ॥ 59 ॥
इति च गौपवनश्रुतिः ॥ 59 ॥
‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
अतः पूर्णत्वमीशस्य वानैवैषां प्रदृश्यते ।
इति ब्रह्मतर्के ।
इति ब्रह्मतर्के ।
अतो भूमत्वमपि नानैवोपास्यते ॥ 60 ॥
स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया ।
‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।
इति च ब्रह्मतर्के ॥ 61 ॥
इति च ब्रह्मतर्के ॥ 61 ॥
‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥
अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।
इति बृहत्तन्त्रे ॥ 62 ॥
इति बृहत्तन्त्रे ॥ 62 ॥
अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं’चक्षोः सूर्यो अजायत’ इत्यादि तथा भावना कर्तव्या॥63॥
‘यस्मिन् यस्मिन् यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’ इति पौत्रायणश्रुतेः ॥ 64 ॥
‘अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत।
तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’
‘साधारण्यात् सर्वगुणाः परस्य समाहार्यास्तत्त्वदृशो मुमुक्षोः’ इति माण्डव्यश्रुतेश्च ॥ 66 ॥
न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ॥ 67 ॥
‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् ।
इति कमठश्रुतौ ॥ 68 ॥
इति कमठश्रुतौ ॥ 68 ॥