Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S02/A017: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:11, 2 March 2026

हृदयाग्रज्वलना(तदोकोऽ)धिकरणम्

ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ॥ 17-520 ॥



तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।


‘यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभावितः’ ॥

इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च।


‘आचार्यस्तु ते गतिं वक्ता’ इति हि लिङ्गम् ।



‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायान्नमृतत्वमेति विष्वङ्गन्या उत्क्रमणे भवन्ति’ इति च ॥ 17 ॥


ॐ रश्म्यनुसारी ॐ ॥ 18-521 ॥


निष्क्रामति ।


‘सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्तत्र श्वेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैष निर्गच्छति’ इति हि पौत्रायणश्रुतिः ॥ 18 ॥


ॐ निशि नेति चेन्न सम्बन्धात् ॐ ॥ 19-522 ॥


रश्म्यभावान्निशि ज्ञानिना उत्क्रमणं न युक्तमिति चेन्न। सर्वदा सम्बन्धाद्रश्मीनाम् ॥ 19 ॥


कियत्कालम् ? –


ॐ यावद्देहभावित्वाद्दर्शयति च ॐ ॥ 20-523 ॥


यावद्देहो विद्यते तावद्रश्मिसम्बन्धोऽस्त्येव ।


‘संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो यावदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते’ इति हि माध्यन्दिनायनश्रुतिः ॥ 20 ॥


ॐ अतश्चायनेऽपि हि दक्षिणे ॐ ॥ 21-524 ॥


‘दक्षिणे मरणाद्याति स्वर्गं ब्रहमोत्तरायणे’ इत्युक्तेऽपि ज्ञानिनो दक्षिणायनोत्क्रान्तिर्युज्यते ।


‘शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः । तावन्त् एव निर्दिष्टा उत्तरायणरश्मयः ॥


ते सर्वे देहसम्बद्दा सर्वदा सर्वदेहिनाम् ।

महर्लोकादिगन्तरा उत्तरायणरश्मिभिः ।

निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः ॥


उत्तरं दक्षिणमिति त एव तु निगद्यते । न तु कालविशेषोऽस्ति ज्ञानिनां नियमात् फलम् ॥