Jump to content

Bhagavadgitatatparya/C13: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
Line 1: Line 1:
== त्रयोदशोऽध्यायः ==
#REDIRECT [[Bhagavadgitatatparya#BGT_C13]]
{{Adhyaya
| document_id  = BGT
| chapter_num  = 13
| title        = त्रयोदशोऽध्यायः
}}
पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन ।सर्वार्थसङ्क्षेपोयम् ॥ १ ॥
{{VerseBlock
| verse_id      = BGT_C13_V01
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ।
| verse_line2  = एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥१ ॥
}}
 
{{Uvacha|अर्जुन उवाच}}
 
{{VerseBlock
| verse_id      = BGT_C13_V02
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
| verse_line2  = एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥२ ॥
}}
 
{{Uvacha|श्रीभगवानुवाच}}
 
{{VerseBlock
| verse_id      = BGT_C13_V03
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = क्षेत्रज्ञं चापि मां विदि्ध सर्वक्षेत्रेषु भारत ।
| verse_line2  = क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V04
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
| verse_line2  = स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥४ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V04
| id      = BGT_C13_V04_B01
| text    =
'हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् ।अव्यक्तादि शरीरं तत् तत्क्षेत्रं क्षीयतेत्र यत् ।इच्छा द्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः ।तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः ।विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः ।मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता ।चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः ।निषिद्धेच्छा च यत्र स्युर्नित्या सा मुक्तिरासुरी ।चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग्दृगात्मकः ।सुखमिच्छानुकूला च धृतिर्दैवी तु सा मता'' ॥ इति नारायणश्रुतिः ॥२ ॥ 'क्षेत्रज्ञो भगवान् विष्णुर्नह्यन्यः क्षेत्रमञ्जसा ।वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविलक्षणः ।स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः ।विलक्षणश्च जीवेभ्यः सर्वेभ्योपि सदैव च ।सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।सर्वत्र संस्थितत्वाद् वा सर्वतः पाणिपादवान् ।सर्वेंद्रियाणां विषयान् वेत्ति सोप्राकृतेंद्रियः ।यतोतोनिंद्रियः प्रोक्तो यन्न भिन्नेंद्रियोथवा ।गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान् ।अन्यथाभावराहित्यादचरश्चर एव च ।'चरणात् सर्वदेशेषु व्याप्तोणुर्मध्यमस्तथा ।सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः ।अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः ।सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः'' ॥ इति च ।न च जीवस्य क्षेत्रज्ञनाम- 'क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः'' ॥ इति हि भागवते ।अतः 'एतद् यो वेत्ति'' इत्युक्ते जीवस्यापि किञ्चिज्ज्ञानात् तत्प्राप्तेस्तन्निवारणार्थं 'क्षेत्रज्ञं चापि मां विदि्ध'' इत्याह । अन्यथा 'एतद् यो वेत्ति'' इत्युक्तेनैव सिद्धत्वात् 'क्षेत्रज्ञं चापि'' इति व्यर्थम् । भेदपक्षे तु नामनिरुक्त्यर्थं 'एतद् यो वेत्ति'' इति । सर्वाभेदमपि केचिद् वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः । तत्पक्षे तु 'यो वेत्ति'' इत्युक्ते ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेदविवक्षायां च सर्वं क्षेत्र(ज्ञ)मिति वक्तव्यम् । 'सर्वक्षेत्रेषु'' इति व्यर्थम् । न च तत्पक्षे मामित्यस्य कश्चिद् विशेषः । किन्त्वेक एव क्षेत्रज्ञ (अहम्) इति वक्तव्यम् ।॥३ ॥ यतश्च यत् । यतः परमेश्वरानुमतेरिदं याति प्रवर्तते । स चानुमन्ता यः । अनुसारिणी मतिरनुमतिः प्रेरणारूपा ।प्रेरणानुमतिः प्रोक्ता क्वचित् संवाद उच्यते ।प्रेरकत्वात्तु भगवाननुमन्ता प्रकीतितः ॥ इति च ।उपद्रष्टानुमन्ता चेत्यनेनैवानुमतिरनुमन्ता चोक्तः । ज्ञेयं यत्तदित्यादिना 'यत्प्रभाव'' इत्यपि ॥४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V05
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
| verse_line2  = ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V06
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = महाभूतान्यहङ्कारो बुदि्धरव्यक्तमेव च ।
| verse_line2  = इंद्रियाणि दशैकं च पञ्च चेंद्रियगोचराः॥६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V07
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
| verse_line2  = एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥७ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V07
| id      = BGT_C13_V07_B01
| text    =
चेतना चित्तव्याप्तिः ।
'सङ्घातो देह उद्दिष्टश्चित्तव्याप्तिस्तु चेतना'' । इति च ॥७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V08
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
| verse_line2  = आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥८ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V09
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = इंद्रियार्थेषु वैराग्यमनहङ्कार एव च ।
| verse_line2  = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V10
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
| verse_line2  = नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥१० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V11
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
| verse_line2  = विविक्तदेशसेवित्वमरतिर्जनसंसदि॥११ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V12
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
| verse_line2  = एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा॥१२ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V12
| id      = BGT_C13_V12_B01
| text    =
तत्त्वज्ञानविषयस्य विष्णोः । अपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम् । ज्ञायतेनेनेति ज्ञानम्, ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या 'एतज्ज्ञानम्'' इति ज्ञानसाधनं ज्ञानं चोक्तम् ॥ १२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V13
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
| verse_line2  = अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥१३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V14
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
| verse_line2  = सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥१४ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V14
| id      = BGT_C13_V14_B01
| text    =
अनादीत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्त्यर्थं 'अनादिमत्'' इत्याह ।
'मुख्यतो गुणपूर्णत्वात् परं ब्रह्म जनार्दनः ।
मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्यते'' ॥ इति च ।
'मूर्तं सदवगम्यत्वादज्ञेयत्वादसत् परम् ।
पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिदि्धतः ।
विलक्षणः सदसतोर्भगवान् विष्णुरव्ययः'' ॥ इति च ॥१३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V15
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = सर्वेंद्रियगुणाभासं सर्वेंद्रियविवर्जितं ।
| verse_line2  = असक्तं सर्व(भृच्चैव)भुक्चैव निर्गुणं गुणभोक्तृ च॥१५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V16
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = बहिरन्तश्च भूतानामचरं चरमेव च ।
| verse_line2  = सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥१६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V17
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
| verse_line2  = भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥१७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V18
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।
| verse_line2  = ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥१८ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V19
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
| verse_line2  = मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥१९ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V19
| id      = BGT_C13_V19_B01
| text    =
ज्ञानेन मुक्तौ प्राप्यत्वाज्ज्ञानगम्यम् । 'स्वयमेवात्मनात्मानं वेत्थ'' इति स्वज्ञेयत्वाज्ज्ञेयम् । अन्यज्ञेयत्वस्य 'ज्ञेयं यत् तत्'' इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन ।
स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः ।
परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात् परैः क्वचित् ।
तत्प्रसादं विना कश्चिन्नै(नं)वं वेत्तुं हि शक्नुयात् ।
स्ववेदनेन्यवित्तौ वा नासावन्यदपेक्षते ।
स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः ।
जीवानां स्वप्रकाशत्वं तत्प्रसादात् स्ववेदनम्'' । इति च ।
मद्भावाय मयि भावाय ॥ १५-१९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V20
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
| verse_line2  = विकारांश्च गुणांश्चैव विदि्ध प्रकृतिसम्भवान्॥२० ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V20
| id      = BGT_C13_V20_B01
| text    =
'प्रकृतिं पुरुषं च'' इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतना-चेतनप्रकृत्योः स्वीकाराय उभावपीति । विकाराणां सत्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव । 'उपद्रष्टानुमन्ता च'' इत्यादिवक्ष्यमाणत्वात् । गुणानां च विकारत्वेप्यधिकविकारत्वविवक्षयान्येषां 'विकारांश्च गुणांश्च'' इति पृथगुक्तिः ॥ २० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V21
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
| verse_line2  = पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥२१ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V21
| id      = BGT_C13_V21_B01
| text    =
'स्वदेहेंद्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः ।
आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता ।
जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा ।
परमः पुरुषो विष्णुः सर्वकर्तापि सन् सदा ।
विशेषकर्ता केषाञ्चिदुक्तो यद्वद् विकुण्ठपः ।
उच्यते सर्वपालोपि विशेषेण स कर्मणा'' ॥ इति च ।
परमेश्वरस्यैव सर्वकर्तृत्वेपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुं 'उच्यते'' इति स्थानद्वयेप्युक्तम् । कर्तृत्वेपि स एव मुख्यहेतुः । तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति 'कर्तृत्वे हेतुः प्रकृतिरुच्यते'' इति, सर्वहेतुत्वेपि विष्णोः प्रकृतेर्जीवं प्रति भोक्तृत्वदानेल्पप्रवृत्तिरिति 'पुरुषो भोक्तृत्वे हेतुरुच्यते'' इति विशेषहेतोरेवमुच्यत एव । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः ।
॥२१ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V22
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
| verse_line2  = कारणं गुणसङ्गोस्य सदसद्योनिजन्मसु॥२२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V23
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
| verse_line2  = परमात्मेति चाप्युक्तो देहेस्मिन्पुरुषः परः॥२३ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V23
| id      = BGT_C13_V23_B01
| text    =
'पुरुषः प्रकृतिस्थः'' इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः । कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निवारणायाह । 'पुरुषः प्रकृतिस्थो हि'' इति । हीत्यनुभवविरोधं दर्शयति तेषाम् । न हि ज्ञाना-ज्ञानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद् दृष्टम् । नचास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यपरोक्षभ्रमो दृष्टः । तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् । साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोवगतं तदपि प्रमाणमात्मैव । व्यवहारतोप्यस्तीत्यत्र प्रमाणाभावाद् भ्रान्तिर-भ्रान्तिर्वा न किञ्चित् सिद्ध्यति ।
अनुभवो भ्रान्तिः इत्युक्ते भ्रान्तित्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्येत् ? व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः ? प्रतीतित इत्युक्ते सैव कुतः ? स्वत इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात् । स्वाभावोपि स्यात् । स्वयमस्तीति च भ्रमः स्यात् । निरालम्बनो भ्रमो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः । तत्प्रमाणमप्यप्रमाणमेव । प्रमाणत्वभ्रम इति न किञ्चित् सिद्ध्यति ।
भ्रम इत्यस्यैव भ्रमत्वे अन्यस्याभ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्माकमित्युत्तरम् । न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वापवादो दृष्टः । दुर्घटत्वं भूषणमिति वदद्भिरात्मनोप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते ? अतिसुकरत्वात् । न चात्मनोप्यविद्यात्वं वदतां तेषामुत्तरम् । अतोनन्तदोषदुष्टत्वाद्धीति प्रसिद्ध्यैव भगवता निराकृताः॥ २२ ॥ अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुणसङ्गः । स्वतन्त्रकारणं तु परमेश्वर एवेत्याह उपद्रष्टानुमन्तेति ।
'सर्वेभ्य उपरि द्रष्टा यदुपद्रष्टॄनामकः ।
स्वातन्त्र्यात् स्वानुकूल्येन मत्या पे्ररयति स्म यत् ।
अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः ।
महाशक्तिर्यतो विष्णुर्महेश्वर इतीरितः ।
परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते ।
स एव सर्वदेहेषु देहिनोन्यो व्यवस्थितः'' ॥ इति च ।
'मां विदि्ध सर्वक्षेत्रेषु'' इति देहेप्युक्तः । तेनाहमेव स इति दर्शयति ।
॥२३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V24
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = य (एनं) एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
| verse_line2  = सर्वथा वर्तमानोपि न स भूयोभिजायते॥२४ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V24
| id      = BGT_C13_V24_B01
| text    =
'द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि ।
सह तत्तद्गुणैः सम्यग् ज्ञात्वा पश्यति यः पुमान् ।
सर्वथा वर्तमानोपि न स भूयोभिजायते'' ॥२४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V25
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
| verse_line2  = अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥२५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V26
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
| verse_line2  = तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥२६ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V26
| id      = BGT_C13_V26_B01
| text    =
'अनादियोग्यताभेदात् पुंसां दर्शनसाधनम् ।
नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः ।
स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः ।
तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन ।
ऋषयः केचिदृषयो नारदाद्या बहिस्त्वपि ।
देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात् ।
सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् ।
पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेपि तु ।
येषां ध्यानमृते दृष्टिस्तेषां ध्यानेपि दर्शनम् ।
स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माधिकोत्र च ।
केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः ।
यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् ।
श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् ।
पश्यन्त्यन्ये तथान्येभ्यः सर्वं श्रुत्वानुमत्य च ।
उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन ।
ऋषीन् राज्ञस्तथारभ्य प्रतिभाभ्यधिका क्रमात् ।
यावद् ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् ।
विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ।
अन्येषां श्रवणाज्ज्ञानं क्रमशो मानुषोत्तरम् ।
अत्यल्पप्रतिभानत्वान्मानुषाः श्रुतवेदिनः ।
सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः'' ॥ इति च ।
अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेपि मानुषाणामत्यल्पप्रतिभानत्वात् 'श्रुत्वान्येभ्यः'' इति विशेषणम् । मनुष्याणां प्रतिभामूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यते अल्पा चेति 'श्रुतिपरायणाः'' इति ।
'अश्रुतप्रतिभा यस्य श्रुतिस्मृऽत्यविरोधिनी ।
विश्रुता नृषु जातं च तं विद्याद् देवसत्तमम् ।
यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् ।
अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः ।
दशताौ सप्तपादौ विद्यात् तौ च सुरोत्तमौ ।
यावत् पञ्चाङ्गुलोनं तद्देवमानं क्रमात् परम् ।
पादे त्वङ्गुलमात्रोनं तदूनं चतुरङ्गुलम् ।
यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः ।
तावन्मनुष्यमानं स्यात् ततोधस्त्वासुरं स्मृऽतम् ।
द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः ।
ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम् ।
देवेष्ववरवज्ज्ञेयमृषीणां चक्रवर्तिनाम् ।
यावद् यावत् प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः ।
हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम्'' ॥ इति च ॥ २५-२६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V27
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
| verse_line2  = क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्वि भरतर्षभ॥२७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V28
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
| verse_line2  = विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥२८ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V29
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
| verse_line2  = न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥२९ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V29
| id      = BGT_C13_V29_B01
| text    =
'क्षेत्रक्षेत्रज्ञसंयोगात्'' इत्यत्र क्षेत्रं श्रीः'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्'' इति वक्ष्यमाणत्वात् ।'अव्यक्तं च महद् ब्रह्म प्रधानं क्षेत्रमित्यपि ।उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्घना ।सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा ।जीवोत्तमा च तेनैतैः शब्दैरेकाभिधीयते ।महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः ।अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः ।सोहङ्कार इति प्रोक्तो जीवाहङ्कृतिकृद् यतः ।उमा बुदि्धरिति ज्ञेया शब्दादिज्ञानदा यतः ।मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोपि तत्सुतः ।श्रोत्रं तु श्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् ।चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्हृतेः ।अश्विनौ घ्राणमाघ्रातेर्वागग्निर्वचनादपि ।हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः ।पादौ तु विष्णुनाविष्टौ यज्ञशम्भू शचीसुतौ ।पदनादेव पायुश्च भुक्तस्यैवाप्ययाद् यमः ।सन्तत्युपस्थितिकृतेरुपस्थः सशिवो मनुः ।विनायकस्तथाकाशो निरावृत्या प्रकाशनात् ।प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ।अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम् ।अदनात् प्रथनाज्जन्मजयहेतोस्तथाभिधाः ।शब्दाद्याः पञ्च शिवजाः शब्दनात् स्पर्शनादपि ।रूपणाद् रसनाच्चैव गन्धनाच्च तथाभिधाः ।सुखं धृतिश्चेतना च सुखनाद् विधृतेरपि ।चेतोनेतृत्वतश्चैव मुख्यवायुः सरस्वती ।श्रीश्चेच्छा चैव सा वायोः पत्नी त्वे(वं)व धृतिर्मता ।इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः ।पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिता अपि ।दुःखद्वेषौ कलिश्चैव द्वापरो ब्रह्मणः सुतौ ।प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे ।एतैरभिमतं यच्च तत्तन्नाम्नाभिधीयते ।चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम् ।क्षितिरेतद् भगवतो यदतः क्षेत्रमीर्यते ।क्षिणोति त्राति चैवैतत् सोतो वा क्षेत्रमुच्यते ।क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् ।एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः ।इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृऽतम् ।विकारा (विशेषा) इति यस्मात् ते विशेषविकृतिस्थिताः ।विशेषात् क्रियते यस्माद् विकारं कार्यम(न्तिमम्)न्तगम् ।विगतं करणं वात्र पुनर्नाशमृते यतः ।तत्सम्बन्धाद् विकाराख्या इच्छाद्या अभिमानिनः ।एतत् सर्वं सर्वदैव निर्दोषेणैव चक्षुषा ।प्रेरयन्नेव जानाति यत् क्षेत्रज्ञो हरिस्ततः'' ॥ इति च ।'यस्यात्मा शरीरम्'' इत्यादिश्रुतेश्चेतनस्यापि 'इदं शरीरं कौन्तेय'' इति शरीरत्वोक्तिर्युज्यते ।'सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित् सत्त्वं जनार्दनः ।सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते'' ॥ इति शब्दनिर्णये ।'तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्'' इति च पैङ्गिश्रुतिः ।'जनी प्रादुर्भावे'' इति धातोर्जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ।॥२७ ॥ जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् 'दुःखयोगादिरूपेण जीवेषु विनश्यत्स्वपि ।दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ।गुणैः सर्वैः समो नित्यं न हीनो हीनगोपि सन् ।इति पश्यति यो विष्णुं स एव न तमो व्रजेत्'' ॥ इति पाद्मे ॥ २८,२९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V30
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
| verse_line2  = यः पश्यति तथात्मानमकर्तारं स पश्यति॥३० ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V30
| id      = BGT_C13_V30_B01
| text    =
प्रकृत्य स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्य पूर्वप्रेरक इति । 'पूर्वं तु बादरायणो हेतुव्यपदेशात्'' इति भगवद्वचनात् ।'द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया'' ॥ इति च ।'स्वयं प्रकृत्य भगवान् करोति निखिलं जगत् ।नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः'' ॥ इति स्कान्दे ।तेनेति प्रस्तुतत्वादेव सिद्धम् । 'अहं सर्वस्य प्रभवः'' 'स हि कर्ता'' 'कर्तारमीशं पुरुषं ब्रह्मयोनिम्'' 'जन्माद्यस्य यतः'' 'मत्त एवेति तान् विदि्ध'' इत्यादिसकलप्रमाणविरोधश्चान्यथा । 'प्रकृत्यैव च'' इति चशब्दाच्चैतेनैवेति सिद्ध्यति ।'प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् ।क्वचित् समुच्चयं ब्रूयात् क्वचिद् दौर्लभ्यवाचकः'' ॥ इति शब्दनिर्णये ।प्रकृतेः कर्तृत्वं 'रचनानुपपत्तेश्च नानुमानम्'' इत्यादिना च निरस्तम् । 'न ऋते त्वत् क्रियते किञ्चनारे'' इति च । केवलप्रकृतेः कर्तृत्वाङ्गीकारे चशब्दोपि व्यर्थः । 'तत एव च विस्तारम्'' इति वाक्यशेषविरोधश्च । 'अहं बीजप्रदः पिता'' इति वक्ष्यमाणमत्रापि 'क्षेत्रक्षेत्रज्ञसंयोगात्'' इति प्रकृतमिति तेनापि विरोधः । अचेतनं करोतीति स्वोक्तिविरोधश्च ।'इच्छापूर्वक्रियादानं कर्तृत्वं मुख्यमीरितम्''  इति हि पैङ्गिश्रुतिः । विकारलक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव । तथापि लक्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् 'सर्वशः'' इत्यस्य सङ्कोचप्राप्तिः ।'अचेतनाश्रितं कर्म विकारात्मकमीरितम् ।यत्तु केवलचित्संस्थं प्रत्यभिज्ञाप्रमाणतः ।अविकारात्मकं ज्ञेयं तन्न तत् प्राकृतं भवेत्'' ॥ इति च ॥३० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V31
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
| verse_line2  = तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥३१ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V31
| id      = BGT_C13_V31_B01
| text    =
'एकविष्ण्वा(श्रितानां)श्रयाणां तु जीवानां भेदमेव यः ।
ततः परस्परं चैव तारतम्येन पश्यति ।
विष्णोरेव च विस्तारं जगतः स विमुच्यते'' ॥ इति च ॥३१ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V32
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
| verse_line2  = शरीरस्थोपि कौन्तेय न करोति न लिप्यते॥३२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V33
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
| verse_line2  = सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते॥३३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V34
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
| verse_line2  = क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥३४ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V34
| id      = BGT_C13_V34_B01
| text    =
शरीरस्थो जीवः । 'स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति'' इति श्रुतेः ।'शरीरस्थस्तु संसारी शरीराभिमतेर्मतः ।विष्णुः शरीरगोप्येष न शरीरस्थ उच्यते ।शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन ।तद्गतानां तु दुःखानां भोगोभिमतिरुच्यते ।तदभावान्नाभिमानी भगवान् पुरुषोत्तमः'' ॥ इति च ।अनादित्वान्निर्गुणत्वाच्च परमात्मा जीवोपि न । किमुत जडं न भवतीति ? शरीरोत्पत्तिलक्षणमप्यादिमत्त्वं परमस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादिगुणसम्बन्धश्च । सर्वं करोति परमात्मा । तथापि न लिप्यते । वादिसिद्धत्वादेव 'इष्टापूर्तं मन्यमाना वरिष्ठम्'' इत्यादिवन्निषेधः ।'कुर्वाणोपि यतः सर्वं पुण्यपापैर्न लिप्यते ।जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जितः ।विष्णुस्तद्विपरीतस्तु जीवोतस्तौ पृथक् सदा'' ॥ इति च ।'स एष नेति नेति'' इत्यादि च ॥ ३२-३४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C13_V35
| document_id  = BGT
| chapter_id    = BGT_C13
| verse_type    = shloka
| verse_line1  = क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
| verse_line2  = भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥३५ ॥
| commentary1  = bhagavadgitatatparya
}}
 
{{Bhashyam
| verse_id = BGT_C13_V35
| id      = BGT_C13_V35_author-note
| text    =
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञयोगो नाम त्रयोदशोध्यायः ॥
}}
 
{{Bhashyam
| verse_id = BGT_C13_V35
| id      = BGT_C13_V35_author-note
| text    =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये त्रयोदशोध्यायः ॥
}}
 
{{Bhashyam
| verse_id = BGT_C13_V35
| id      = BGT_C13_V35_B01
| text    =
जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ॥ ३५ ॥
}}
 
 
[[Category:Bhagavadgitatatparya]]

Latest revision as of 06:48, 13 April 2026