Jump to content

Mithyatvanumanakhanadanam: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: Removed redirect
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
(7 intermediate revisions by the same user not shown)
Line 1: Line 1:
= मिथ्यात्वानुमानखण्डनम् =
<div class="gr-doc-title">मिथ्यात्वानुमानखण्डनम्</div>
__NOTOC__
__TOC__

== अध्यायाः ==
{{Adhyaya
* [[Mithyatvanumanakhanadanam/C1|मिथ्यात्वानुमानखण्डनम्]]
| document_id  = MTK
| chapter_num  = 1
| title        = मिथ्यात्वानुमानखण्डनम्
}}
{{Bhashyam
| verse_id = MTK_C01
| id      = MTK_C01_B01
| text    =
‘विमतं मिथ्या दृश्यत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नम्(शुक्तिरजतम्) ’ इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः । अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः । सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता । दृश्यत्वाभावादसिद्धो हेतुः । अनिर्वचनीयासिद्धेरेव सपक्षाभावाद्विरुद्धः । आत्मनोऽपि दृश्यत्वादनैकान्तिकः । जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः । प्रत्यक्षादिविरुद्धत्वाद् ‘विश्वं सत्यम्’ इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः । ‘रजतं दृष्टम्’ इति भ्रममात्रत्वात् ‘विमतं सत्यं दृश्यत्वात्, आत्मवत्’इत्यपि प्रयोज्यत्वात् प्रकरणसमः । ‘विमतं सत्यं प्रमाणदृष्टत्वात्, यदित्थं तत्तथा, यथात्मा’ इति प्रयोगात् सप्रतिसाधनः । शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात् साध्यविकलो दृष्टान्तः । उक्तप्रकारेण दृश्यत्वाभावात् साधनविकलः । प्रमाणविरुद्धत्वमुपाधिः ।
}}
 
{{Bhashyam
| verse_id = MTK_C01
| id      = MTK_C01_B02
| text    =
साध्यधर्मविशिष्टः पक्षः । साध्यसमानधर्मविशिष्टः सपक्षः । साध्यविपरीतधर्मविशिष्टः विपक्षः । पक्षवचनं प्रतिज्ञा । लिङ्गं हेतुः । निदर्शनं दृष्टान्तः ॥
}}
 
{{Bhashyam
| verse_id = MTK_C01
| id      = MTK_C01_B03
| text    =
यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना । निर्दोषाखलिकल्याणगुणं वन्दे रमापतिम् ॥
}}
 
{{Bhashyam
| verse_id = MTK_C01
| id      = MTK_C01_author-note
| text    =
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रपञ्चमिथ्यात्वानुमानखण्डनम् ॥
}}

[[Category:Sanskrit Documents]]
[[Category:Sanskrit Documents]]
[[Category:Mithyatvanumanakhanadanam]]
[[Category:Mithyatvanumanakhanadanam]]

Latest revision as of 13:32, 13 April 2026

मिथ्यात्वानुमानखण्डनम्