Jump to content

Bruhadaranyaka/C1/S6: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
Line 1: Line 1:
== सप्तान्नब्राह्मणम् ==
#REDIRECT [[Bruhadaranyaka#BR_C01_S06]]
{{Adhyaya
| document_id  = BR
| chapter_num  = 1
| title        = सप्तान्नब्राह्मणम्
}}{{VerseBlock
| verse_id      = BR_C01_S06_V01
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = यत्सप्तान्नानि मेधया तपसाऽजनयत् पितैकमस्य साधारणं द्वे देवानभाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न कस्मात् तानि न क्षीयन्तेऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद । सोऽन्नमत्ति प्रतीकेन स देवानपि गच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V01
| id      = BR_C01_S06_V01_B01
| text    =
पिता विष्णुः । यत् यदा । तपसा प्राणिनां कर्मभिः । मेधया स्वेच्छया ।
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V01
| id      = BR_C01_S06_V01_B01
| text    =
स हीदमन्नं धिया धिया जनयते कर्मभिः इति वचनात् ।
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V02
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = यत्सप्तान्नानि मेधया तपसाऽजनयत् पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् ॥ २ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V03
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = द्वे देवानभाजयदिति हुतं च प्रहुतं च । तस्माद् देवेभ्यो जुह्वति च प्रजुह्वत्यथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् ॥३॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V04
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वै वाऽग्रे प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद इति ॥ ४ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V05
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न तद्यदिदमाहुः संवत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतीति न तथा विद्याद्यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति ॥५॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V06
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = कस्मात् तानि न क्षीयन्तेऽद्यमानानि सर्वदेति । पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते ॥ ६ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V07
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = यो वैतामक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात् क्षीयेत ॥ ७ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V08
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = ह सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेनात्त्येतत् स देवानपि गच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ ८ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V09
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीभीरित्येतत् सर्वं मन एव तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति यः कश्च शब्दो वागेव सैषा ह्यन्तमायत्तैषा हि नः प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वाऽयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ९ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V09
| id      = BR_C01_S06_V_B01
| text    =
सप्तान्नानि यदा विष्णुः परमः पुरुषो विभुः ।
ससर्ज तेषां स्वार्थानि चकार त्रीणि केशवः ॥
मनो वाचं तथा प्राणं तस्मात् तैस्तुष्टिमेति सः ।
तस्मात् तद्भक्तिकामः स्यात् सङ्कल्पं तत्कृतिं प्रति ॥
कुर्यात् तद्वेदनेच्छां च श्रद्धां तस्य गुणोन्नतौ ।
अश्रद्धामन्यसाम्ये वाऽप्यन्येषामुन्नतौ ततः ॥
अन्येषां तत्स्वरूपत्वे प्राकृतत्वादिकेऽस्य च ।
धृतिं तन्निन्दिवागादौ प्राप्ते तत्रैव चाधृतिम् ॥
तन्मतस्य विसर्गार्थे ह्रियं तद्भक्तिवर्जने ।
तद्विवेके धियं चैव तदज्ञाने भियं तथा ॥
वाचं नित्यं तद्गुणोक्तौ प्राणं तत्कर्मणि स्फुटम् ।
तदन्यकर्मसन्त्यागे चापानं व्यानमस्य च ॥
विरोधिनां निरासित्वेऽथोदानं योगधारणे ।
मनोवागादीन्द्रियाणां समानं नियमेऽत्र तु ॥
अन्नमुक्तेषु सुस्थैर्ये नरः कुर्यात् सदैव हि ।
अनेकगोचरेच्छा स्यात् काम एकाश्रये स्थितः ॥
प्राणः प्रवृत्तिहेतुः स्यादपानस्तु निवर्तने ।
बलकर्मा तथा व्यान उदानो योगकर्मकृत् ॥
देहेन्द्रियमनोनेता समानो नः स्थितिप्रदः ।
मनोवाक्प्राणसान्निध्यप्राधान्याज्जीव उन्नतिः ॥
मनोवाक्प्राणरूपोऽसौ भगवान् पुरुषोत्तमः ।
मनोवाक्प्राणतस्तस्य जाता अन्येऽभिमानिनः ॥
ब्रह्मा सरस्वती वायुर्मनआद्यभिमानिनः ।
सर्वस्यान्तः स्थितं विष्णुमायत्ता वाग्घि नः सदा ॥
सर्ववाचश्च घोषाश्च विष्णोर्नामेति कीर्तिताः ।
तज्ज्ञानां तत्फलं च स्यादज्ञानां तत्फलं न तु ॥
सर्वेन्द्रियगतं ज्ञानं मनआयत्तमीरितम् ।
पृष्टे स्पृष्टोऽप्यनेनाहं स्पृष्ट इत्येव वेत्त्यतः ॥
मनस्यव्याकुलेऽन्यत्र नैव वेत्ति कथञ्चन ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V10
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ १० ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V11
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥११॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V12
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = देवाः पितरो मनुष्या एत एव वागेव देवाः मनः पितरः प्राणो मनुष्याः ॥ १२ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V13
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ १३ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V14
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं वाचस्तद्रूपं वाग्धि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ १४ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V15
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं तद्भूत्वाऽवति ॥ १५ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V16
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वाऽवति ॥ १६ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V16
| id      = BR_C01_S06_V16_B01
| text    =
लोकवेदसुरज्ञातपित्रादेश्चाभिमानिनः ।
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V17
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निस्तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ १७ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V18
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनं समेतां ततः प्राणोऽजायत स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १८ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V19
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समास्सर्वेऽनन्तास्स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयत्यथ यो हैताननन्तानुपास्ते अनन्तं स लोकं जयति ॥ १९ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V19
| id      = BR_C01_S06_V19_B01
| text    =
द्युपृथिव्यग्निसूर्यापां सोमस्याप्यभिमानिनः ॥
स इन्द्रः परमैश्वर्यादशत्रुः समवर्जनात् ।
वायुरेते समा व्याप्तौ ब्रह्मेरौ गुणतोऽधिकौ ॥
अनन्ताश्च गुणा ह्येषामन्यजीवव्यपेक्षया ।
तेभ्योऽप्यनन्ता विष्णोस्तु तेषामेवमुपासकः ॥
नित्यलोकोपभोगी स्यादनित्यस्यान्यथा भवेत् ।
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V20
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदशकला ध्रुवैवास्य षोडशी कला ॥ २० ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V21
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = स रात्रिभिरेवाच पूर्यते अप च क्षीयते । सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ २१ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V21
| id      = BR_C01_S06_V21_B01
| text    =
वायुः प्रजापतिः सोऽसौ चन्द्रसंस्थो विशेषतः ॥
रात्रौ रात्रौ क्षयादस्य पूरणाद् रात्रिनामकाः ।
कलाः पञ्चदश प्रोक्ता ध्रुवैवास्य तु षोडशी ॥
अकलोऽपि स चन्द्रस्य कलाभिः प्रोच्यते तथा ।
सोऽमावास्यां यतो रात्रौ प्राणभृत्सु व्यवस्थितः ॥
कल्यावेशादल्पदोषः कृकलासवधोऽपि सन् ।
तस्यां रात्रौ महान् दोषो देवतावेशतो भवेत् ॥
वायुः संवत्सरः प्रोक्तो वत्सो विष्णोरसौ यतः ।
सम्यगेव रतिं याति .
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V22
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित् पुरुषस्तस्य वित्तमेव पञ्चदशकला आत्मैवास्य षोडशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते तदेतन्नाभ्यं यदयमात्मा प्रधिर्वित्तं तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनाऽगादित्येवाहुः ॥ २२ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V22
| id      = BR_C01_S06_V22_B01
| text    =
....................... स एवं विदुषि स्थितः ॥
अध्रुवास्तु कला यद्वत् सौम्यस्तस्य तथा धनम् ।
आगमापायवत्त्वात् तु ध्रुवावद्देह उच्यते ॥
नाभिस्थानं शरीरं तु चक्रस्य प्रधिवद्धनम् ।
सर्वस्वविजयेऽप्यस्मात् प्रधिमात्रं हि गच्छति ॥
एवं महागुणान् देवानेवं यो वेद पूरुषः ।
न चैभ्योऽतिप्रियः कश्चिद्विष्णोरस्ति कदाचन ॥
चतुर्थं भोज्यमेवान्नं सर्वसाधारणं स्मृतम् ।
आत्मनोऽतिसमीपत्वं तस्य योऽन्नस्य मन्यते ॥
अक्षयं पापमस्य स्याद्देवब्रह्मस्वहारिणः ।
तदेवमन्त्रयुक्तत्वाद् बलिहोमात्मना द्वयम् ॥
देवानां प्रददौ विष्णुस्तस्मान्नैवेच्छया यजेत् ।
यदीच्छया यजेत् तेषामपहर्ता भविष्यति ॥
देवस्वं तेन येनैव काम्यार्थं विनियोजितम् ।
परकीयेन वित्तेन तस्मिन् विनिमये यथा ॥
चतुष्पाद्भ्यो द्विपद्भ्यश्च पशुभ्यः पयआत्मकम् ।
प्रायच्छत् सप्तमान्नं स गोक्षीरं मुख्यमत्र च ॥
आत्मने चैव देवानां तद्धोमार्थं प्रकल्पितम् ।
संवत्सरं गोपयसा येन होमो हरेः कृतः ॥
भगवत्तत्त्वविदुषा तस्य मुक्तिर्न संशयः ।
अदृष्टभगवद्रूपस्यैतद्दर्शनकारणम् ॥
भगवद्दृष्टिपूतस्तु विना होमेन मुच्यते ।
सप्तान्नसृष्टितत्त्वज्ञस्त्वेकहोमेन मुच्यते ॥
विशेषज्ञो यतः सोऽयं भगवत्तत्त्ववेदने ।
को नाम भगवान् विष्णुः परमानन्दरूपतः ॥
प्राणिनां कर्मभिश्चैव स्वेच्छया च पुनः पुनः ।
सप्तान्नं सृजते यस्मादन्नानामक्षयस्ततः ॥
तस्मादक्षितिनामासौ भगवान् पुरुषोत्तमः ।
य एवमक्षितिं वेद भगवन्तं सनातनम् ॥
अप्रयत्नेन भोगाः स्युर्यथेष्टास्तस्य सर्वदा ।
सप्तान्नोपासनं यस्माद्देवानां योग्यमुत्तमम् ॥
तस्माद्देवत्वमाप्नोति योग्यो देवपदस्य यः ।
ऊर्जं देवान्नमुद्दिष्टं ऊर्जितास्तु गुणास्तथा ॥
तदप्याप्नोति न नरा योग्या एतदुपासते ।
ज्ञानमात्रेण देवानां सामीप्यं प्राप्नुवन्ति ते ॥
इति नारायणीये ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V23
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति ॥ २३ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V24
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माऽहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता एतावद्वा इदं सर्वमेतस्मात् सर्वं सन्नयमितोऽभुनजदिति तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः । तस्मादेनमनुशासति स यदैवंविदस्माल्लोकात् प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम स पुत्रेणैवास्मिंल्लोके प्रतितिष्ठत्यथैनमेते देवाः प्राणाः अमृता आविशन्ति ॥ २४ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V24
| id      = BR_C01_S06_V24_B01
| text    =
ब्रह्मेति वेदः । स्वाध्यायादिकर्तृत्वात् पुत्रस्त्वं ब्रह्मेत्याद्युच्यते । आत्मा भवति व्यापको भवति ।
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V24
| id      = BR_C01_S06_V24_B01
| text    =
पुनः पुनः कर्मकृतिर्मानुष्यजय उच्यते ।
जन्मान्तरं विना नैव कर्मणा तत्तु युज्यते ॥
पुत्रेण विद्यया नित्यमेकैकेनापि युज्यते ।
उभाभ्यां किमु वक्तव्यमष्टभागफलं सुतात् ॥
विद्यया त्वर्धमाप्नोति सर्वं सप्तान्नविल्लभेत् ।
पुत्रमाविश्य सामर्थ्यान्मुच्यतेऽच्छिद्रकर्मणः ॥
अक्ष्णं पुदिति च च्छिद्रं पुत्रस्तत्त्राणको भवेत् ।
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V25
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ २५ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V26
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = दिवश्चैनमादित्याच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ २६ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V27
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति स वै दैवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति स य एवंवित् सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति ॥ २७ ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V27
| id      = BR_C01_S06_V27_B01
| text    =
पृथिव्यादिस्थिता देवाः सरस्वत्यादिकास्त्रयः ॥
अधिकावेशतो देवेष्वतो देवा इति स्मृताः ।
यदावेशात् सर्वमुक्तं सत्यं देवी तु वाघ्धि सा ॥
यदावेशान्न दुःखी स्यादानन्दी दैवतं मनः ।
यदावेशात् सर्वकार्येष्वम्लानः प्राण एव सः ॥
सर्वसामर्थ्ययुक्तः स्यान्न म्रियेत कदाचन ।
एवं सप्तान्नविन्मुक्तस्त्रिभिराविष्ट एव तु ॥
सर्वेषु व्याप्तिमन्वेति न दुःखी प्राणिषु स्थितेः ।
सप्तान्नोपासनायोग्या देवा एकान्ततो हि यत् ॥
देवांश्च पापं नाप्नोति तस्मात् पापं न तस्य तु ।
देवा मनुष्यतामंशैराप्ता ये पुत्रतः फलम् ॥
स्यात् तेषामेव चामुक्तेर्मुक्तानां न तु किञ्चन ।
मुक्तानां देववागादेरावेशः सम्प्रकीर्तितः ॥
प्राणज्ञानं यथाऽवन्ति रहस्यमिति सर्वदा ।
एवं मुक्तस्वरूपं चाप्यवन्त्येव रहस्यतः ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V28
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथातो व्रतमीमांसा । प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्योन्येनास्पर्धन्त ।
| verse_line2  = वदिष्याम्येवाहमिति वाग् ।
| verse_line3  = दध्रे द्रक्ष्याम्यहमिति चक्षुः।
| verse_line4  = श्रोष्याम्यहमिति श्रोत्रम् ।
| verse_line5  = एवमन्यानि कर्माणि यथाकर्म तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत् तान्याप्त्वा मृत्युरवारुन्धत्तस्माच्छ्राम्यत्येव वाक् श्राम्यति चक्षुः श्राम्यति श्रोत्रमथेममेव नाप्नोद्योऽयं मध्यमः प्राणस्तानि ज्ञातुं दध्रिरेऽयं वै नः श्रेष्ठो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवं स्तस्मादेत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २८ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V29
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति ।
| verse_line2  = चन्द्रमा एवमन्या देवता यथादैवतं स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुस्सैषा नास्तमिता देवता यद्वायुः ॥ २९ ॥
}}
 
{{VerseBlock
| verse_id      = BR_C01_S06_V30
| document_id  = BR
| chapter_id    = BR_C01
| verse_type    = mantra
| verse_line1  = अथैष श्लोको भवति ॥
| verse_line2  = यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति । प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।
| verse_line3  = तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद्वा एतेऽमुं ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।
| verse_line4  = तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नुवदिति ।
| verse_line5  = यद्युच्चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ ३० ॥
| commentary1  = bruhadaranyaka
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V30
| id      = BR_C01_S06_V30_B01
| text    =
उत्तमः सर्वदेवेषु प्राण एव हरेरनु ।
चतुर्मुखस्य प्राणस्य न विशेषोऽस्ति कश्चन ॥
तस्माद् विष्णोर्व्रतस्यानु नित्यं प्राणव्रतं चरेत् ।
हंसोपास्तिः श्वासरूपे तयोर्व्रतमुदीरितम् ॥
हंसरूपी हि तौ देवौ श्वसोच्छ्वासप्रवर्तकौ ।
तस्मात् प्राण्यादपान्याच्च सद्रूपं संस्मरन् सदा ॥
नान्यस्योपासनं कुर्यात् तद्भृत्यत्वं विना क्वचित् ।
इन्द्रियाणि ससर्जादौ वासुदेवः प्रजापतिः ॥
अध्यात्ममिन्द्रियाण्याहुरधिदैवं तु देवताः ।
अध्यात्ममग्निर्वाङ्ग्नामा चक्षुरादित्य उच्यते ॥
श्रोत्रं तु चन्द्रमा नाम मनः स्थूलं तु वासवः ।
येन यज्ञादिकं कुर्याच्छेषरुद्रविपास्तथा ॥
मनः सूक्ष्मं ज्ञानयोग्यं शेषो व्याख्यानगोचरम् ।
रुद्रस्तु मननाख्यं च गरुडो ध्यानगोचरम् ॥
वायुः प्राण इति प्रोक्तो येन सर्वं नियम्यते ।
त एते भगवत्सृष्टा व्यूदिरेऽध्यात्मसंस्थिताः ॥
अधिदैवे ज्वलत्कर्मा वह्निः सूर्यस्तु तापकः ।
सोमः कान्तौ वृष्टिकर्मा वासवः शेष एव तु ॥
पञ्चरात्रप्रवृत्तीशो रुद्रस्तत्स्थक्रियापरः ।
सर्वप्रवर्तको वायुर्ज्ञानमोक्षप्रदस्तथा ॥
वेदप्रवृत्तिकृद्धीन्द्रस्तेऽधिदैवे च पस्पृधुः ।
अहं श्रेयानहं श्रेयानिति तानब्रवीद्धरिः ॥
स्वकर्म यस्त्वविश्रान्तं कुर्याच्छ्रेयान् स वः स्मृतः ।
इति श्रुत्वा ततश्चक्रुः कर्म स्वं स्वमनारतम् ॥॥
तानेताञ्छ्रमरूपेण प्राप ब्रह्मा प्रजापतिः ।
श्रान्ताः स्वं भगवत्कर्म न शेकुः सर्वदेवताः ॥
वायुं तु समशक्तित्वान्नाप ब्रह्मा प्रजापतिः ।
तेनासौ भगवत्कर्म सर्वं च कृतवान् सदा ॥
श्रमात् पापात्मको मृत्युर्भगवत्कर्मवर्जनात् ।
अन्यान् देवानवापाशु नैव वायुं कदाचन ॥॥
ते वायुं ज्ञानमैच्छन्त श्रेष्ठोऽयमिति निश्चिताः ।
तं ज्ञात्वा तेन चाविष्टास्तद्भृत्यत्वमुपागताः ॥
तस्मात् प्राणाश्च मरुत इत्येषां नाम संस्थितम् ।
वायोर्देवा हि जायन्ते लयमेष्यन्ति तत्र च ॥
तस्मान्नित्यं तद्व्रताश्च तद्व्रतोऽतो भवेत् सदा ।
अन्यदेवव्रतारम्भं यदि कुर्यात् समापयेत् ॥
तेनासौ वायुना साकं भगवन्तमुपेष्यति ॥ इति नारायणश्रुतौ ।
}}
 
{{Bhashyam
| verse_id = BR_C01_S06_V30
| id      = BR_C01_S06_V30_B01
| text    =
आनन्द्येव भवति । न शोचतीत्यतो मुक्त इत्यवगम्यते ॥
}}
 
 
[[Category:Bruhadaranyaka]]

Latest revision as of 06:45, 13 April 2026