ब्रह्मसूत्रभाष्यम्/C01/S02/A013: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
अत्तृत्वाधिकरणम्
‘जन्माद्यस्य यतः’ इत्युक्तम् । तत्रात्तृत्वं,
ॐ अत्ताचराचरग्रहणात् ॐ ॥ 09-40 ॥
न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।
इति श्रुतिः ॥ 09 ॥
ॐ प्रकरणाच्च ॐ ॥ 10-41 ॥
अप्संवत्सरसृष्ट्यादिना तत्प्रकरणाच्च ।
‘नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।
सो त्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥
शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् ।
तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥
तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ।
थं तं कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।
इति ब्रह्मवैवर्ते ॥ 10 ॥