Jump to content

Bhagavadgitatatparya/C1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
__TOC__
#REDIRECT [[Bhagavadgitatatparya#BGT_C01]]
<div class="gr-page-nav">[[Bhagavadgitatatparya|श्रीमद्भगवद्गीताप्रस्थानम्]] · [[Bhagavadgitatatparya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
| document_id  = BGT
| chapter_num  = 1
| title        = प्रथमोऽध्यायः
}}
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥
शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् ।
वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेञ्जसा ॥
न भारतसमं शास्त्रं कुत एवानयोः समम् ।
भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ॥
देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः ।
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते ॥
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः ॥
अर्थितो व्यासतां प्राप्य केवलं तत्त्वनिर्णयम् ।
चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ॥ इति ब्रह्माण्डे ।
तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतमर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्वितदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोप्यधर्मः, भगवदधीनत्वात् सर्वस्येति बोधयति भगवान् नारायणः । सर्वं चैतदत्रैवावगम्यते -
''अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि'' ॥ (२-३३)
इत्यादिना युद्धस्य स्वधर्मत्वम् ।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिदि्धं विन्दति मानवः ॥ (१८-४६)
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ (१८-४७)
सर्वगुह्यतमं भूयः शृृणु मे परमं वचः ।
इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ (१८-६४-६६)
इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ (११-५३, ५४)
इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपि मोक्षस्य तदधीनत्वं च ।
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ (११-५५)
इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च ।
''कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ।" (४-१५)
इत्यादिना ज्ञानिनोपि भगवत्कर्म ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ (११-५२)
इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् । (१८-६४)
दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव ॥ (१६-५)
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ (९-१३)
'दर्शयात्मानमव्ययं''
दर्शयामास पार्थाय परमं रूपमैश्वरम् । (११-९)
इत्यादिनार्जुनस्योत्तमाधिकारित्वमपरोक्षज्ञानित्वं च ।
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥
बुदि्धर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । (१०, २-४)
'महर्षयः सप्त पूर्वे'' ... । (१०-६)
'एतां विभूतिं योगं च'' ... । (१०-७)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ (१०-८)
'तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयामि'' (१०-११)
'तेषामहं समुद्धर्ता मृत्युसंसारसागरात्'' । (१२-७)
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ (५-२९)
ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ॥ (७-२)
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । (७-६,७)
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् ।
'राजविद्या राजगुह्यम्'' ... । (९-१,२)
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ (९-४)
'भूतभृन्न च भूतस्थः'' ... । (९-५)
'न त्वत्समोस्त्यभ्यधिकः कुतोन्यः'' (११-४३)
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । (१४-१)
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ॥
सम्भवः सर्वभूतानां ततो भवति भारत । (१४-३)
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ॥
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । (१४-२७)
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः ।
अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद् भजति मां सर्वभावेन भारत ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुध्वा बुदि्धमान् स्यात्कृतकृत्यश्च भारत ॥ (१५, १६-२०)
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यम् ... ॥ (३-२२)
इत्यादिना सर्वस्माद् भगवतो भेदः, सर्वस्य तदधीनत्वं, तस्यानन्याधीनत्वं, सर्वोत्तमत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं, तथा तज्ज्ञानादेव मोक्ष इत्यादि ।
'अधा ते विष्णो विदुषा• चिदर्ध्यः स्तोमो• यज्ञश्च राध्यो• हविष्म•ता'' । (ऋ.मं १, सू. १५६-१)
पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् ।
यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।
भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम् ।
भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ॥
ततोपि भूयसीं भक्तिं दद्यात्ताभ्यां विमोचयेत्
मुक्तोपि तद्वशो नित्यं भूयो भक्तिसमन्वितः ।
सान्द्रानन्दस्वरूपैव भक्तिर्नैवात्र साधनम्
ब्रह्मरुद्ररमादिभ्योप्युत्तमत्वं स्वतन्त्रताम् ॥
सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् ।
निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिलाधिकः ॥
स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः ।
तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ॥
अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः ।
अधिकार्युत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः ।
नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः ।
तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाथवा ॥
बहुवारतदभ्यासात्तिरोभावोपि नो भवेत् ।
यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ॥
पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ।
अस्य देवस्य मी•हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदेहि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विना विरावत् ॥ (ऋ. ७-४०-५)
'एको नारायण आसीन्न ब्रह्मा न च शङ्करः'' ।
स मुनिर्भूत्वा समचिन्तयत्तत एते व्यजायन्त
विश्वो हिरण्यगर्भोग्निर्यमो वरुणरुद्रेन्द्रा इति'' ।श्व
'एको नारायण आसीन्न ब्रह्मा नेशानः'' ।
'वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः'' ।
'यं यं कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् ।
शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्तास्य न क्वचित्'' ॥
सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।
अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः ॥ इति पैङ्गिश्रुतिः ।
'परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति'' । (ऋ. ६-९९-१)
'अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः ।
न समो वाधिको वापि विद्यते तस्य कश्चन ।
नासीन्न च भविष्यो वा परतः स्वत एव च'' । इत्यादिश्रुतेश्च ।
'यस्त्वात्मरतिरेव स्याद्'' इत्यादि तु मुक्तविषयम् ।
यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि ।
तस्मात् कुर्वीत कर्माणीत्याह कृष्णोर्जुनं स्मयन् ॥ इति च स्कान्दे ।
ज्ञानयोगेन साङ्ख्यानाम् इत्यादि तु बाह्यकर्मसङ्कोचापेक्षया ।
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । (३-५)
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः । (३-८)
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्'' । (१८-६)
'ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।''
न सर्वकर्मणां त्यागः कस्यचिद् भवति क्वचित् ।
त्यागिनो यतयोपि स्युः सङ्कोचाद् बाह्यकर्मणाम् । इत्यादि ।
'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः'' इत्यादि चोत्पन्नज्ञानतिरो-भावनिवृत्त्यर्थम् ॥
{{VerseBlock
| verse_id      = BGT_C01_V01
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
| verse_line2  = मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१ ॥
}}
 
{{Bhashyam
| verse_id = BGT_C01_V01
| id      = BGT_C01_V01_uvaaca
| text    =
धृतराष्ट्र उवाच
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V02
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
| verse_line2  = आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥२ ॥
}}
 
{{Bhashyam
| verse_id = BGT_C01_V02
| id      = BGT_C01_V02_uvaaca
| text    =
सञ्जय उवाच
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V03
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
| verse_line2  = व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V04
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
| verse_line2  = युयुधानो विराटश्च द्रुपदश्च महारथः॥४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V05
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
| verse_line2  = पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V06
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
| verse_line2  = सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V07
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।
| verse_line2  = नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते॥७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V08
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
| verse_line2  = अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥८ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V09
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
| verse_line2  = नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V10
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
| verse_line2  = पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥१० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V11
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
| verse_line2  = भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥११ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V12
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
| verse_line2  = सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V13
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
| verse_line2  = सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोभवत्॥१३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V14
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
| verse_line2  = माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥१४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V15
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
| verse_line2  = प्रौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥१५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V16
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठरः ।
| verse_line2  = नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥१६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V17
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
| verse_line2  = धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥१७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V18
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
| verse_line2  = सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V19
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
| verse_line2  = नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥१९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V20
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
| verse_line2  = पृवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥२० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V21
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = हृषीकेशं तदा वाक्यमिदमाह महीपते ।
}}
 
{{Bhashyam
| verse_id = BGT_C01_V21
| id      = BGT_C01_V21_uvaaca
| text    =
अर्जुन उवाच
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V22
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = यावदेतान् निरीक्षेहं योद्धुकामानवस्थितान् ।
| verse_line2  = कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥२२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V23
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = योत्स्यमानानवेक्षेहं य एतेत्र समागताः ।
| verse_line2  = धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥२३ ॥
}}
 
{{Bhashyam
| verse_id = BGT_C01_V23
| id      = BGT_C01_V23_uvaaca
| text    =
सञ्जय उवाच
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V24
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
| verse_line2  = सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥२४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V25
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
| verse_line2  = उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥२५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V26
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
| verse_line2  = आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥२६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V27
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
| verse_line2  = तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥२७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V28
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
}}
 
{{Bhashyam
| verse_id = BGT_C01_V28
| id      = BGT_C01_V28_uvaaca
| text    =
अर्जुन उवाच
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V29
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
| verse_line2  = वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥२९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V30
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।
| verse_line2  = न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥३० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V31
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = निमित्तानि च पश्यामि विपरीतानि केशव ।
| verse_line2  = न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे॥३१ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V32
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
| verse_line2  = किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥३२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V33
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
| verse_line2  = त इमेवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V34
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
| verse_line2  = मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥३४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V35
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = एतान्न हन्तुमिच्छामि घ्नतोपि मधुसूदन ।
| verse_line2  = अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥३५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V36
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ।
| verse_line2  = पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥३६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V37
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
| verse_line2  = स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥३७ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V38
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
| verse_line2  = कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥३८ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V39
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
| verse_line2  = कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥३९ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V40
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
| verse_line2  = धर्मे नष्टे कुलं कृत्स्नमधर्मोभिभवत्युत॥४० ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V41
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
| verse_line2  = स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥४१ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V42
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
| verse_line2  = पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥४२ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V43
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
| verse_line2  = उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४३ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V44
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
| verse_line2  = नरके नियतं वासो भवतीत्यनुशुश्रुम॥४४ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V45
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।
| verse_line2  = यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥४५ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V46
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
| verse_line2  = धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥४६ ॥
}}
 
{{VerseBlock
| verse_id      = BGT_C01_V47
| document_id  = BGT
| chapter_id    = BGT_C01
| verse_type    = shloka
| verse_line1  = एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
| verse_line2  = विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७ ॥
}}
 
{{Bhashyam
| verse_id = BGT_C01_V47
| id      = BGT_C01_V47_uvaaca
| text    =
सञ्जय उवाच
}}
 
{{Bhashyam
| verse_id = BGT_C01
| id      = BGT_C01_author-note
| text    =
॥ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोध्यायः ॥
}}
 
[[Category:Bhagavadgitatatparya]]

Latest revision as of 06:48, 13 April 2026