ब्रह्मसूत्रभाष्यम्/C01/S01/A012: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
पादान्त्यप्राणाधिकरणम्
‘प्राणो विष्णुरित्युक्तम् । तत्र ‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुश्र्योत्रं मनो वाक्प्राणः’ इत्यत्र प्राणस्य विष्णुत्वं न विद्यते । इन्द्रियैः सहाभिधानादिति । अत आह-
ॐ प्राणस्तथाऽनुगमात् ॐ ॥ 28-28 ॥
‘तं देवाः प्राणयन्त’ ‘स एषोऽसुः स एष प्राणः’ ‘प्राण ऋच इत्येव विद्यात्’ ,’तदयं प्राणोऽधिष्ठति’ इत्याद्यनुगमात्, अत्रापि प्राणो विष्णुरेव ।
इति स्कान्दे । ब्रह्मशब्दानुगमाच्च ॥ 28 ॥‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’
ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभूमा ह्यस्मिन् ॐ ॥ 29-29 ॥
‘प्राणो वा अहमस्मृषे’ इति वक्तरात्मोपदेशादिन्द्र एवेति चेन्न,’प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इति बह्वध्यात्मसम्भन्धो ह्यत्र विद्यते ॥ 29 ॥
ॐ शास्त्रदृष्ट्यातूपदेशो वामदेववत् ॐ ॥ 30-30 ॥
शास्त्रमन्तर्यामि ।‘संविच्छास्त्रं परं पदम्’ इति हि भागवते ।
इति पाद्मे ।‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’
‘अहं मनुरभवं सूर्यश्च’ इत्यादिवत् ॥ 30 ॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ ॥ 31-31 ॥
तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’ इति जीवलिङ्गम् । प्राणसंवादादि मुख्यप्राणलिङ्गम् । तस्मान्नेति चेन्न । अन्तर्बहिः सर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रितत्वाच्च ।
‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’
‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः’ इत्यादिना ।
इति ब्रह्माण्डे ।‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’
तत्तदुपासनायोग्यतया च पुरुषाणाम् ।
इति ब्राह्मे ॥‘केषाञ्चित् सर्वगत्वेन केषाञ्चिद्धृदये हरिः ।
केषाञ्चिद्बहिरेवासावुपास्यः पुरुषोत्तमः’
‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’ इति च ॥ 31 ॥
॥ इति पादान्त्यप्राणाधिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥01-01 ॥