Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S01/A015: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:11, 2 March 2026

महातमोऽधिकरणम्

‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।अपि नीचगतौ किञ्चित् किमु मानुषदेहिनः’ इति वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह-


ॐ न तृतीये तथोपलब्धेः ॐ ॥ 19-313 ॥


‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्गतिस्तिर्यग्यातना तम इति । द्वेवाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ 19 ॥


ॐ स्मर्यतेऽपि च लोके ॐ ॥ 20-314 ॥



लोकसिद्धं चैतत्। चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।



ॐ दर्शनाच्च ॐ ॥ 21-315 ॥


‘नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसल्लीनान् निश्येषसुखवर्जितान् ॥


नित्यमेव तथाभूतान् विमिश्रांश्च गणान् बहून् । निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥


अपश्यत् त्रिविधान् ब्रह्मा साक्षादेव चतुर्मुखः’ इति दर्शनवचनाच्च पाद्मे॥ 21 ॥


ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ 22-316 ॥


तृतीये तृतीयतमस श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्तिः ॥ 22 ॥


ॐ स्मरणाच्च ॐ ॥ 23-317 ॥