Jump to content

Bhagavatatatparyanirnaya/C10/S72: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
(4 intermediate revisions by the same user not shown)
Line 1: Line 1:
{{Adhyaya
#REDIRECT [[Bhagavatatatparyanirnaya#BTN_C10_S72]]
| document_id  = BTN
| chapter_num  = 10
| title        = द्विसप्ततितमोऽध्यायः
}}
{{VerseBlock
| verse_id      = BTN_C10_S72_V11
| document_id  = BTN
| chapter_id    = BTN_C10
| verse_type    = shloka
| verse_line1  = न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
| verse_line2  = ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
 
{{Commentary
| verse_id = BTN_C10_S72_V11
| id      = BTN_C10_S72_V11_B1
| name    = Bhashyam
| label    = Bhashyam
| text    =
अम्मयाद्यभिमानिन्यो देवताः उरुकालेनैव पुनन्ति, गुरूपदेशं प्रापयित्वा॥ ११ ॥
}}
 
{{VerseBlock
| verse_id      = BTN_C10_S72_V12
| document_id  = BTN
| chapter_id    = BTN_C10
| verse_type    = shloka
| verse_line1  = नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ्मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥
}}
 
{{VerseBlock
| verse_id      = BTN_C10_S72_V13
| document_id  = BTN
| chapter_id    = BTN_C10
| verse_type    = shloka
| verse_line1  = यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिश्च जले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥
| commentary1  = bhagavatatatparyanirnaya
}}
 
{{Commentary
| verse_id = BTN_C10_S72_V13
| id      = BTN_C10_S72_V13_B1
| name    = Bhashyam
| label    = Bhashyam
| text    =
भेदकृतः अन्यथाज्ञानिनः । विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञानमेवाप-गमयन्ति ॥'प्राकृतैः दृश्यमानन्तु न द्रवं तीर्थमुच्यते ।देवाश्च न शिलामात्राः किन्तु तत्रान्तरस्थिताः ॥गुरूपदेशेन विना न ते दृश्याः कथञ्चन ॥न ज्ञायते च तद्रूपं अन्यथाज्ञानिनां च ते ॥कोपाच्छापं प्रयच्छान्ति तस्माद्गरुमुपाव्रजेत् ।तस्मात्तीर्थानि देवाश्च नित्यं विद्वत्सु संस्थिताः ॥''इति गारुडे ॥'भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता ।वस्तुयाथात्म्यतस्तस्य भिन्नत्वादिति सूरिभिः ॥अन्यथाज्ञानमेवातो भेदज्ञानं विनिन्दितम् ।न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित् ॥शिला देव इति ज्ञानं देवोऽस्मीति तु या दृशिः ।उत्तमस्याधमत्वेन नीचास्योच्चतया दृशिः ॥असमस्य समत्वेन समस्यासमदर्शनम् ।द्रवं तीर्थमिति ज्ञानं देहोऽहमिति या मतिः ॥असद्भार्यादिषु स्वीयदर्शनं चैवमादिकम् ।भेदज्ञानमिति प्रोक्तं या चान्याप्यन्यथामतिः ॥तस्मात्तदपहानाय संसेव्याः गुरुवो वराः ।तत्रस्थाः देवताः सर्वाः प्रीयन्ते गुरुपूजया ।नैवान्यथैषां प्रीतिः स्याद्गुरूक्तिमपहाय तु ॥तस्मात्पूजाविशेषेण सतां कार्या नृणां सदा ॥भक्तिस्तु तारतम्येन विशिष्टेष्वधिका भवेत् ॥ "इति स्कान्दे ॥'उत्तमा अपि देवेशाः अवरान् विदुषो नृणाम् ।पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः ॥तेषु स्थित्वा स्वयं पूजां गृह्णन्त्यनुपमां सदा ।ज्ञानानि च प्रयच्छन्ति तस्मादेवंविदा सदा ॥पूजिताः स्युः सुरवराः सब्रह्माणः सकेशवाः ॥ "इति वामने ॥ १२-१३ ॥
}}
 
{{VerseBlock
| verse_id      = BTN_C10_S72_V19
| document_id  = BTN
| chapter_id    = BTN_C10
| verse_type    = shloka
| verse_line1  = ब्रह्म ते हृदयं शुक्लं तपः स्वाध्यायसंयमैः ।
| verse_line2  = यत्रोपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥ १९ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
 
{{Commentary
| verse_id = BTN_C10_S72_V19
| id      = BTN_C10_S72_V19_author-note
| name    = Bhashyam
| text    =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे द्विसप्ततितमोऽध्यायः ॥
}}
 
{{Commentary
| verse_id = BTN_C10_S72_V19
| id      = BTN_C10_S72_V19_B1
| name    = Bhashyam
| label    = Bhashyam
| text    =
हृदयं प्रियं हृद्ययनात् ॥
}}
 
 
[[Category:Bhagavatatatparyanirnaya]]

Latest revision as of 06:44, 13 April 2026