ब्रह्मसूत्रभाष्यम्/C02/S03/A041: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
अंशाधिकरणम्
‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः । स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥ इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ॥ 43-261 ॥
‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ ।
‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ ।
‘यस्तद्वेद स पितुष्टिताऽसत्’ ।
‘यस्ताविजानात् स पितुष्पिताऽसत्’।
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’इत्यादिना नावाव्यपदेशादंशो जीवः ।
तथा च पाराशर्यायणश्रुतिः-
‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति’ च इति ।
‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन ।
नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः ।
‘ब्रह्मा दाशा ब्रह्म कितवाः, ब्रह्मैवेमे दाशा’इत्यभेदेनाप्येकेऽधीयते ।
तथा चाग्निवेश्यश्रुतिः-
‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिरे’ इति ॥
वाराहे च-
‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।
बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥
यतो भेदेन तस्यायमभेदेन च गीयते ।
अतश्चांशत्वमुद्धिष्टं भेदाभेदौ न मुख्यतः’ इति ॥ 43 ॥
ॐ मन्त्रवर्णात् ॐ ॥ 44-262 ॥
‘पादोऽस्य विश्वा भूतानि’ इति ॥ 44 ॥
ॐ अपि स्मर्यते ॐ ॥ 45-263 ॥
‘ममैवांशो जीवलोके जीवभूतः सनातन’ इति ॥ 45 ॥
अनंशत्वश्रुतेर्गतिं चाह –
ॐ प्रकाशादिवन्नैवं परः ॐ ॥ 46-264 ॥
अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः।यथा तेजोऽम्शस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता। यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ॥ 46 ॥
ॐ स्मरन्ति च ॐ ॥ 47-265 ॥
‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’ ।
‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः’ ॥
‘स्वांशश्चाथो विभिन्नांश इति द्वेधाऽम्श इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥
॥ इति वाराहे ।
‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति च ॥ 47 ॥
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ 48-266 ॥
परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि देहसम्बन्धात् ।’य आत्मानमन्तरो यमयति’ । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिना । न तु परस्य।
‘वासुदेव सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्तधाऽहमितेऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञान बन्धो न मुक्तितो सर्व एव ह्येते पूर्णा अजरा अमृताः परमाः परानन्दाः’ इति चतुर्वेदशिखायाम् ।
युज्यते च ज्योतिरादिवत् यथाऽऽदित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च ।
मोक्षधर्मे च –
‘यत्किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।
भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति ।
वाराहे च-
‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः ।
अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥
अदेहबन्धयोग्यत्वाद्यथासूर्यप्रभाऽक्षिणी ।
यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥
अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम्’ इति ॥ 48 ॥
ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ 49-267 ॥
अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम्-
‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि, कृष्णो रामः कपिलः इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि। तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णाः सर्वे एव बध्यन्तेऽथ मुच्यन्ते च केचन’ इति ॥ 49 ॥
ॐ आभास एव च ॐ ॥ 50-268 ॥
‘रूपं रूपं प्रतिरूपो बभूव’ इति प्रतिबिम्बत्वाच्च न साम्यम् ।
वाराहे च–
‘द्विरूपूवंशकौ तस्य परमस्य हरेर्विभोः ।
प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥
प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः ।
प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु’ इति ॥
इति पैङ्गिश्रुतिः ॥‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’
‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’ इति च श्रुतिः ॥ 50 ॥