BramhasutraBhashyam/C01/S03/व्याख्या/bhashya: Difference between revisions
Appearance
BramhasutraBhashyam>ShastraImport Imported from BS.xml via ShastraEditor |
m 1 revision imported |
(No difference)
| |
Latest revision as of 19:18, 10 March 2026
‘तमेवैकं जानथ आत्मानम्’इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात् तैर्नैवाप्तागुणपूर्णता’ इति ब्रह्मवैवर्ते ॥ 1 ॥
‘अमृतस्यैष सेतुः’ इति ‘ब्रह्मविदाप्नोति परम्’,‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ ,‘मुक्तानां परमा गतिः’ ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।
‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तः स्यादेष शास्त्रनिर्णयः’॥ इत्यादित्यपुराणे ॥ 2 ॥
नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् ।
‘सोऽन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो हरिर्योऽनन्तो यो विष्णुर्यः परः परोवरीयान्’
ब्रह्माण्डे च
ब्रह्माण्डे च
‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशानादेव चेशानो महैदेवो महत्त्वतः ॥
ईशानादेव चेशानो महैदेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् ।
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।
कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामाऽसावैश्वर्यादिन्द्र उच्यते ॥
बृंहणाद्ब्रह्मनामाऽसावैश्वर्यादिन्द्र उच्यते ॥
एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः ।
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।
वामने च –
‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः ।
इति ॥
इति ॥
स्कान्दे च –
‘ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’इति
प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’इति
‘चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति ।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेषनामानि ददौ स्वकीयान्यपि केशवः’इति च ब्राह्मे ॥ 3 ॥
एतैरेव हेतुभिर्न जीवो वायुश्च । ‘अजायमानो बहुधा विजायत’ इति तस्यैव बहुधा जन्मोक्तेः ॥ 04॥
न चैक्यं वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ इति भेदव्यपदेशात् ॥ 05 ॥
‘द्वे विद्ये वेदितव्ये’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्यो अभिचाकशीति’
‘सम्प्रसादात्’ पूर्णसुखरूपत्वात् ‘अध्युपदेशात्’ सर्वेशामुपर्युपदेशाच्च विष्णुरेव भूमा ।
‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
इति श्रुतिः
इति श्रुतिः
‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इत्यादिना नोत्क्रमणादिलिङ्गविरोधोऽपि ॥08॥
सर्वगतत्वादिधर्मोपपतेश्च ॥09॥
‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवाक्षरम् ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’
‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’ । ‘यस्मिन्निदं सञ्च वि चैदि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादि श्रुतेः ।
‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’ । ‘यस्मिन्निदं सञ्च वि चैदि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादि श्रुतेः ।
‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।
इति च स्कान्दे ॥ 10 ॥
इति च स्कान्दे ॥ 10 ॥
सा च धृतिः प्रशासादुच्यते ।’ एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना । तच्च प्रशासनं विष्णोरेव ।
‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ ।
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’ इत्यादिश्रुतेः ।
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’ इत्यादिश्रुतेः ।
‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’।
यो हृच्छयस्तमहमिह ब्रवीमि’
‘अस्थूलमनणु’ इत्यादिना स्थूलाण्वादीनामन्यवस्तुस्वभावानां व्यावृत्तेश्च।
‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको योऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’ इत्यादेर्विष्णोरेव ते धर्माः ।
‘अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।
। इति च ब्राह्मे ॥ 12 ॥
। इति च ब्राह्मे ॥ 12 ॥
‘तदैक्षत’ इतीक्षतिकर्मव्यपदेशात् स एव विष्णुरत्रोच्यते ।
‘नान्योऽतोऽस्ति द्रष्टा’,’नान्यदतोऽस्ति द्रष्ट्रु’ इत्यादिना तस्यै व हि तल्लक्षणम् ।
बहुत्वं चानिकारेणैवोक्तं’अजायमानो बहुधा विजायत’ इति ॥13॥
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य स विजिज्ञासितव्यः’ इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरे विष्णुरेव ।
‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’
‘स एष सर्वेभ्यः पाप्मभ्य उदितः’
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।
इति पाद्मे ।
इति पाद्मे ।
सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम् ॥
‘सत्यकामोऽअपरो नास्ति तमृते विष्णुमव्ययम् ।
इति च स्कान्दे ॥ 14 ॥
इति च स्कान्दे ॥ 14 ॥
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते ।
‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेस्तं हि सुप्तो गच्छति । ‘अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके’ इति लिङ्गं च तथा दृष्टम् ।
‘अरश्च वै ण्यश्च सासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥ 15 ॥
‘एष सेतुर्विधृतिः’ इति धृतेः’एष भूताधिपतिरेण भूतपालः’इत्याद्यस्य महिम्नोऽस्मिन्नुपलब्धेः ।
‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’
‘एतस्य वा अक्षरस्य प्रशासने गार्गि’
‘स हि सर्वाधिपतिः स हि सर्वकालः स ईशः स विष्णुः’
‘सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः’
इति स्कान्दे ॥16॥
इति स्कान्दे ॥16॥
‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तुदुपासितव्यम्’ इति प्रसिद्धेश्च । तदन्तस्थापेक्षत्वान्न सुषिरश्रुतिविरोधः ॥17॥
‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्टद्यते’ ‘एष आत्मेति होवाच’ इति जीवपरामर्शात् स इति चेन्न ।
तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ 18 ॥
‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादुत्तरवचनाज्जीव एवेति चेन्न । तत्र हि परमेश्वरप्रसादादाविर्भूतस्वरूपो मुक्त उच्यते।यत्प्रसादात् स मुक्तो भवति स भगवान् पूर्वोक्तः॥19 ॥
‘यं प्राप्य स्वेन रूपेण जीवोऽभिनिष्पद्यते स एष आत्मा’ इति परमात्मार्थश्च परामर्शः ॥ 20 ॥
‘दहर’ इत्यल्पश्रुतेर्नेति चेन्न ।’निचाय्यत्वादेवं व्योमवच्च’ इत्युक्व्तात् ‘एष म आत्माऽन्तर्हृदये ज्यायन्’ इति श्रुत्युक्तत्वाच्च ॥ 21 ॥
‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुकृतेः,
‘तस्य भासा सर्वमिदं विभाति’ इति वचनाच्च परमात्मैवानिर्देश्यसुखरूपः ।
न हि ज्ञानिसुखमनुभाति सर्वम् । न च तद्भासा । ‘अहं तत्तेजो रश्मीन्’ इति नारायणभासा हि सर्वं भाति ॥ 22 ॥
‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति
‘न तद्भासयते सूर्यो न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति च ॥ 23 ॥
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति च ॥ 23 ॥
वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।
‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
इति स्कान्दे ॥
इति स्कान्दे ॥
तच्चलिङ्गं विष्णोरेव। तस्मैव प्राणत्वोक्तेः’तद्वैत्वं त्वं प्राणो अभवः’ इति ॥ 24 ॥
सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया युज्यते । इतरप्राणिनामङ्गुष्ठाभावेऽपि मनुष्याधिकारत्वान्न विरोधः ॥ 25 ॥
तदुपरि मनुष्याणां सतां देवादित्वप्राप्युपरि । सम्भवति हि तेषां विशिष्टबुद्ध्यादिभावात् । तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेदभावात् । दृश्यन्ते हि जरितार्यादयः ॥ 26 ॥
मानुषा एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेन्न । अनेकेषां देवतापदप्राप्तेर्दर्शनात् ।
‘ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः’ इति ॥27॥
‘ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः’ इति ॥27॥
‘वाचा विरूप नित्यया’ इत्यादिश्रुतेराप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य, स्वतः प्रामाण्यप्रसिद्धेश्च नित्यत्वाद्वेदस्य तदुदितानां देवानामनित्यत्वात् पुनरन्यभावनियमाभावाच्च शब्दे विरोध इति चेन्न ।
‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’
‘यथैव नियमः काले सुरादिनियमस्तथा ।
तस्मान्नानीदृशं क्वापि विश्वमेतद्भविष्यति’ ॥
अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ॥ 29 ॥
अतीतानागतानां देवानां समाननामरूपत्वात् प्राप्तपदानां मुक्त्याऽवृत्तावप्यविरोधः । ‘यथापूर्वम्’ इति दर्शनात् ।
‘अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।
ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’ इति स्मृतेश्च ॥30॥
‘वसूनामेवैको भूत्वा’ इत्यादिना प्राप्यफलत्वात् प्राप्तपदानां देवानां मध्वादिविद्यास्वनधिकारं जैमिनिर्मन्यते ॥ 31 ॥
ज्योतिषि सर्वज्ञत्वे भावाच्च। आदित्यप्रकाशेऽन्तर्भाववत् तज्ज्ञाने सर्ववस्तूनामान्तर्भावात् । नित्यसिद्धत्वाच्च विध्यानाम् ॥ 32 ॥
फलविशेषभावात् प्राप्तपदानामपि देवानां मध्वादिष्वप्यधिकारं बादरायणो मन्यते । अस्ति हि प्रकाशविशेषः ।
‘यावत्सेवा परे तत्वे तावत्सुखविशेषता ।
इति स्कान्दे ॥
इति स्कान्दे ॥
उक्तफलानधिकारमात्रं जैमिनिमतम् । अतो न मतविरोधः ।
‘सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् ।
इति ब्राह्मे ॥ 33 ॥
इति ब्राह्मे ॥ 33 ॥
नासौ पौत्रायणः शूद्रः, शुचाऽऽद्रवणमेव शूद्रत्वम् ।
‘कम्वर एनमेतत्सन्तम्’ इत्यनादरश्रवणात् ।
‘कम्वर एनमेतत्सन्तम्’ इत्यनादरश्रवणात् ।
‘स ह सञ्ञिहान एव क्षत्तारमुवाच’ इति सूच्यते हि ॥ 34 ॥
अयमश्वतरीरथ इति चित्ररथसम्बन्दित्वेन लिङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च ।
‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते’ इति ब्राह्मे ।
‘यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः’ इति ब्रह्मवैवर्ते ॥ 35 ॥
‘अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत’ इत्यद्ययनार्थं संस्कारपरामर्शात् । ‘नाग्निर्न यज्ञो न क्रीया न संस्कारो न व्रतानि शूद्रस्य’ इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च ।
उत्तमस्त्रीणां तु न शूद्रवत् ।
‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् ।
‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् ।
संस्काराभावेनाभावस्तु सामान्येन । अस्ति च तासां संस्कारः ।
इति स्मृतेः ॥ 36 ॥
इति स्मृतेः ॥ 36 ॥
‘नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि’ इति सत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य’नैतदब्राह्मणो विवक्तुमर्हति’ इति तत्संस्कारे प्रवृत्तेश्च ॥ 37 ॥
‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जिह्वाच्छेदः अर्थावधारणे हृदयविदारणम्’ इति प्रतिषेधात् ।
‘नाग्निर्न यज्ञः शूद्रस्य तथैवाद्ययनं कुतः ।
इति स्मृतेश्च ।
इति स्मृतेश्च ।
विदुरादीनां तूत्पन्नज्ञानत्वात् कश्चिद्विशेषः ॥ 38 ॥
एजतीति कम्पनवचनादुद्यतवज्रो भगवानेव ।
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’तथा चेतोऽर्पणार्थं हि निगत्यते इति हि श्रुतिः ।
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इति च
‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः ।
इति स्कान्दे ॥
इति स्कान्दे ॥
‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्रमुच्यते ।
इति ब्रह्म वैवर्ते ॥ 39 ॥
इति ब्रह्म वैवर्ते ॥ 39 ॥
‘विष्णुरेव ज्योतिर्विष्णुरेव ब्रह्म विष्णुरेवात्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवानन्दः’ इति दर्शनाच्चतुर्वेदशिखायां ज्योतिर्विष्णुरेव ।’प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति वचनात् सस्यापि लोकसञ्चरणमस्त्येव ॥ 40 ॥
‘ते यदन्तरा तद्ब्रह्म’ इत्यर्थान्तरत्वादिव्यपदेशाकाशो हरिरेव। ‘अवर्णं यतो वाचो निवर्तन्ते’ इत्यादिश्रुतेस्तस्यैव हि तलक्षणम्।
‘अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जनात्’ इति ब्राह्मे ॥ 41 ॥
‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरम्’ ‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’
इति भेदव्यपदेशान्न जीवः, पर एवासङ्गः । स्वप्नादिद्रष्ट्रुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ॥ 42 ॥
इति भेदव्यपदेशान्न जीवः, पर एवासङ्गः । स्वप्नादिद्रष्ट्रुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ॥ 42 ॥
‘सर्वस्याधिपतिः सर्वस्येशानः …. स वा एष नेति नेति’ इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ।
‘उतामृतत्वस्येशानः । यदन्नेनादतिरोहति’
‘सप्तार्धगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’
इत्यादि श्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ 43 ॥