नरसिंहनखस्तोत्रम्/व्याख्या/मन्दबोधिनी: Difference between revisions
Nakha>ImportBot Initial import |
m 1 revision imported |
| (2 intermediate revisions by the same user not shown) | |
(No difference)
| |
Latest revision as of 18:02, 4 March 2026
मन्दबोधिनी — नरसिंहनखस्तोत्रव्याख्या
श्रीशेषपण्डितविरचिता | ← मूलपाठः | बालबोधिनी →
श्लोक १ — NNS_C01_V01
छलारिनरसिंहार्यशिष्यः शेषाभिधो बुधः । नरसिंहनखस्तोत्रपञ्चिकां कुरुतेञ्जसा ।। २ ।।
अत्र किल कथां कथयन्ति। कदाचित् त्रिविक्रमपण्डिताचार्यवर्यः श्रीमध्वाचार्यैः सह बदरिकाश्रमं प्रति जगाम। तत्र देवालयकवाटं पिधाय नरनारायणं श्रीमध्वाचार्ये पूजयति सति, जाम्बवान् श्रीकृष्णरूपे रामाकारमिव श्रीमध्वरूपे हनुमदाकारं दृष्ट्वा तदा तेषां वायुत्वं विश्वस्य मूलरूपस्य वायोस्तदवताराणां स्तुतिं प्रणिनाय।
ततः श्रीमध्वाचार्याः त्रिविक्रमपण्डिताचार्येण प्रदर्शितवायुस्तुतिरूपग्रन्थं दृष्ट्वा प्रसन्नाः सन्तः एकैकश्लोकस्यैकैकाभीष्टप्रदत्वरूपं वरं दत्वा विष्णुस्तुतिं विना केवलमात्मस्तुतिमसहमानाः सर्वानिष्टनिवर्तकश्रीनृसिंहनखस्तुतिप्रतिपादकश्लोकद्वयं विरचय्य मङ्गलाचरणरूपत्वेन तदादौ निबन्धनं कुरु इत्युक्त्वा श्लोकद्वयं ददुरिति।
हे श्रीमत्कण्ठीरवास्य। श्रीः लक्ष्मीः कान्तिर्वा। कण्ठीरवः सिंहः तस्य आस्यमिव आस्यं मुखं यस्य सः। सुनखराः — शोभननखाः। पान्तु — रक्षन्तु।
पुरुहूतः इन्द्रः। बलवन्तश्च ते मातङ्गाश्च गजाश्च बलवन्मातङ्गाः मत्तगजाः। घटाशब्दः — विशिष्टवाचकानां शब्दानां पृथग्विशेषणवाचकपदसन्निधाने विशेष्यमात्रपरत्वमिति न्यायात् केवलं समूहवाचक एव।
विशेषणद्वयेन — सिंहस्य सर्वे नखा मिलित्वा एकैकगजविदारणे समर्थाः; श्रीनरसिंहस्य एकैकोऽपि नखो युगपदनेकदैत्यगजसंहरणे समर्थ इति महावैलक्षण्यं द्योतयति।
नाकिवृन्दैर्भाविता — लक्ष्मीनरसिंहस्य नखध्यानेनैव सर्वाभीष्टप्राप्तिः किमु सर्वावयवध्यानेनेति कैमुत्यसूचनार्थं नखानां स्तुतिः कृतेति विद्वद्भिर्बोध्यम्। ।। १ ।।
श्लोक २ — NNS_C01_V02
ननु सतीष्वन्यासु देवतासु अस्यैव प्रार्थने को हेतुरित्यतः लक्ष्मीनरसिंहं विना अन्यः सर्वोत्तमो नास्तीति भावेन लक्ष्मीनरसिंहं स्तौति — लक्ष्मीकान्तेति।
हे लक्ष्मीकान्त — लक्ष्म्याः कान्तः पतिः। समन्ततः — सर्वदेशकालेषु, सर्ववेदेषु शास्त्रेषु च। ते समं वस्तु विकलयन् विचारयन्, ईशितुः सर्वोत्तमस्य ते समं वस्तु नैव पश्यामि।
उत्तमवस्तु दूरतरतोऽपास्तम् — यदा समं वस्तु नास्ति तदा उत्तमं वस्तु नास्तीति कैमुत्यं सूचयितुम्। छान्दोग्योपनिषदि परमः पराध्योऽष्टमी रस इति। अष्टमः पृथिव्यपेक्षयाष्टमत्वेनोक्तः परमात्मा। रसः वरः सर्वोत्तम इत्यर्थः।
ब्रह्मेशशक्रोत्कराः — ब्रह्मा, ईशो रुद्रः, शक्रः इन्द्रः, तेषामुत्कराः राशयः। उत्करशब्देन अतीतानागताः सर्वेऽपि देवाः। यस्य श्रीलक्ष्मीनृसिंहस्य रोषेण उत्कृष्टदक्षिणनेत्रस्य कुटिलः प्रान्तभागः, तस्मादुत्थितः अग्निः, स्फुरत्खद्योतोपमैः विस्फुलिङ्गैः भस्मीकृताः।
यतो वा इमानि भूतानि जायन्ते इत्यादिप्रमाणात् त्वमेव सर्वोत्तमो नान्यः। भगवान् श्रीलक्ष्मीनरसिंह एव स्वस्य प्रेमास्पद इति तमेव श्लोकद्वयेन प्रार्थितवानानन्दतीर्थमुनिरित्यशेषमतिमङ्गलम्।
नरसिंहनखस्तोत्रगूढभावार्थवर्णनात् । लक्ष्मीनृसिंहः प्रीयतामस्मदाचार्यहृद्गतः ।।
छलारीनरसिंहार्यशिष्यस्य कृतिमुत्तमम् । विदां कुर्वन्तु विद्वांसः किमन्यैः कितवैरिह ।।
लक्ष्मीनारायणं देवं व्यासमध्वजयादिकान् ।।
गुरून् मूलादिपरमान् वन्दे विद्यागुरूंश्च मे ।। १ ।।