Jump to content

Bhagavadgitabhashya/C3: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Tag: New redirect
 
Line 1: Line 1:
== तृतीयोऽध्यायः ==
#REDIRECT [[Bhagavadgitabhashya#BGB_C03]]
{{Adhyaya
| document_id  = BGB
| chapter_num  = 3
| title        = तृतीयोऽध्यायः
}}
{{VerseBlock
| verse_id      = BGB_C03_V01
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
| verse_line2  = तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
}}
 
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेन अकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये ।
 
{{Uvacha|अर्जुन उवाच}}
 
{{VerseBlock
| verse_id      = BGB_C03_V02
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
| verse_line2  = तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V02
| id      = BGB_C03_V02_B01
| text    =
कर्मणो ज्ञानम् अत्युत्तमम् इत्यभिहितं भगवता- ‘दूरेण ह्यवरं कर्म’ (२.४९.) इत्यादौ । एवं चेत् किमितिकर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह-ज्यायसीति ॥ कर्मणः सकाशाद् बुद्धिर्ज्यायसी चेत् ते तव मतातत् तर्हि ॥ १-२ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V03
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = श्रीभगवानुवाच
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V03
| id      = BGB_C03_V03_B01
| text    =
‍‘ज्यायस्त्वेऽपि बुद्धेः, आधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामि’ इत्याशयवान् भगवानाह-लोक इति ॥
}}
 
{{Bhashyam
| verse_id = BGB_C03_V03
| id      = BGB_C03_V03_B02
| text    =
द्विविधा अपि जनाः सन्ति- गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत्, तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः ।सांख्यानां ज्ञानिनां सनकादीनाम् ।योगिनाम् उपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वाद् ईश्वरेच्छया लोकसंग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेऽपि योगिनः ।निष्ठा स्थितिः । त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः, न तु सनकादिवत् तत्त्यागेनेत्यर्थः। सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोऽपि ज्ञानिन एव । तथा ह्युक्तम् ‘ईश्वरेच्छया विनिवेशितकर्माधिकारः’ इति ॥ ३ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V04
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
| verse_line2  = न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V04
| id      = BGB_C03_V04_B01
| text    =
इतश्च नियोक्ष्यामीत्याह-न कर्मणामिति ॥ कर्मणां युद्धादीनाम् अनारम्भेणनैष्कर्म्यं निष्कर्मतया काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं, नाश्नुते । ज्ञानमेव तत्साधनं, न तु कर्माकरणमित्यर्थः । कुतः ? पुरुषत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः ! यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणां च ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V04
| id      = BGB_C03_V04_B02
| text    =
न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्म कृतानाम् अनन्तानां कर्मणां भावात् । न च सर्वाणि कर्माणि भुक्तानि । एकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकैकानि बहुजन्मफलानि कानिचित् । तत्र चैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम् । ततश्च बहुशरीरफलानि कर्माणी-त्यसमाप्तिः । तच्चोक्तम्-‘जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते ॥चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः।अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने ॥’  इति ब्राह्मे ।यदि सादिः स्यात् संसारः पूर्वकर्माभावाद् अतत्प्राप्तिः। अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते ‘अनिष्टमिष्टम्’ (१८.१२) इति ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V04
| id      = BGB_C03_V04_B03
| text    =
ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः -‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते ।निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥’ इति मानवे ।अतस्तत्साम्याद् अकरणेऽपि भवति इत्यत आह-न चेति ॥सन्न्यासः काम्यकर्मपरित्यागः । ‘काम्यानां कर्मणां न्यासम्’ (१८.२) इति वक्ष्यमाणत्वात् । अकामकर्मणाम् अन्तःकरणशुध्या ज्ञानान्मोक्षो भवति । तच्चोक्तम्- ‘कर्मभिश्शुद्धसत्त्वस्य वैराग्यं जायते हृदि ।’ इति भागवते । विरक्तानामेव च ज्ञानमित्युक्तम् । -‘न तस्य तत्वग्रहणाय साक्षाद् वरीयसीरपि वाचस्समासन् ।स्वप्ने निरुक्त्या गृहमेध(धि)सौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥’ (भाग. ५-११-३) इति । न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग एव मोक्षसाधनम् ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V04
| id      = BGB_C03_V04_B04
| text    =
यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम् , इतरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथाहि श्रुतिः -‘नाशान्तो नासमाहितः’(कठ.1.3.10)इति । महांश्च यत्याश्रमे तोषो भगवतः । तथा ह्याह - ‘यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषणीम्’ इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । स एव च महान् भगवत्तोषः । तच्चोक्तम् -‘देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः ।विष्णोश्चलति तद्भोगोऽप्यतीव हरितोष(णम्)णः॥’ इति पाद्मे ॥४ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V05
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
| verse_line2  = कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V05
| id      = BGB_C03_V05_B01
| text    =
न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह-न हीति ॥५॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V06
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
| verse_line2  = इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्स उच्यते ॥ ६ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V07
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = यस्त्विन्द्रियाणि मनसा नियम्याऽरभतेऽर्जुन ।
| verse_line2  = कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥ ७ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V07
| id      = BGB_C03_V07_B01
| text    =
तथाऽपि शक्तितस्त्यागः कार्य इत्याह-कर्मेन्द्रियाणीति ॥
मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह-मनसा स्मरन् मनसा नियम्येति ॥ कर्मयोगं स्ववर्णाश्रमोचितम्, न तु गृहस्थकर्मैवेति नियमः । सन्न्यासादिविधानात्, सामान्यवचनाच्च ॥ ६-७ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V08
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
| verse_line2  = शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V08
| id      = BGB_C03_V08_B01
| text    =
अतो नियतं स्ववर्णाश्रमोचितं कर्म कुरु ॥ ८ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V09
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
| verse_line2  = तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V09
| id      = BGB_C03_V09_B01
| text    =
‘कर्मणा बध्यते जन्तुः’ इति कर्म बन्धकं स्मृतम् ? इत्यत आह-यज्ञार्थादिति ॥ कर्म बन्धनं यस्य लोकस्य सकर्मबन्धनः ।यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः ।‘मुक्तसङ्गः’ इति विशेषणात् । ‘कामान् यः कामयते’ (मुं. ४. १-२) इति श्रुतेश्च । ‘अनिष्टमिष्टम्’ (१८.१२) इति वक्ष्यमाणत्वाच्च । ‘एतान्यपि तु कर्माणि’ (१८.६) इति च । ‘तस्मान्नेष्टि-याजुकः स्यात्’ (बृ.१.५.२) इति च । विशेषवचनत्वे समेऽपि विशेषणं परिशिष्यते ॥ ९ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V10
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
| verse_line2  = अनेन प्रसविष्यध्वम् एष वोऽस्त्विष्टकामधुक् ॥ १० ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V11
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = देवान् भावयतानेन ते देवा भावयन्तु वः ।
| verse_line2  = परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V12
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
| verse_line2  = तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥१२ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V13
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
| verse_line2  = भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्॥१३ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V13
| id      = BGB_C03_V13_B01
| text    =
अत्रार्थवादमाह-सहयज्ञा इति ॥ १०-१३ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V14
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसम्भवः ।
| verse_line2  = यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ १४ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V14
| id      = BGB_C03_V14_B01
| text    =
हेत्वन्तरमाह-अन्नादिति ॥ यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां तस्य चक्रप्रवेशो न भवति । तद्धि आपाद्यं कर्मविधये । न तु साम्यमात्रेणेदानीं कार्यम् ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V14
| id      = BGB_C03_V14_B02
| text    =
मेघचक्राभिमानी च पर्जन्यः । तच्चयज्ञाद् भवति ।
‘अग्नौ प्रास्ताऽऽहुतिः सम्यग् आदित्यमुपतिष्ठति ।  आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥’ (म.स्मृ. ३.७६)इति स्मृतेः(तेश्च) ।
उभयवचनाद् आदित्यात् समुद्राच्चाविरोधः । अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति ।यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः,कर्म इतरक्रिया ॥ १४ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V15
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
| verse_line2  = तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V15
| id      = BGB_C03_V15_B01
| text    =
कर्म ब्रह्मणो जायते । ‘एष ह्येव साधु कर्म कारयति’(कौ.3.9), ‘बुद्धिर्ज्ञानम्’(गी.10.4) इत्यादिभ्यः । न च मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम् । न च जडानां स्वतः प्रवृत्तिः सम्भवति । ‘एतस्य वा अक्षरस्य’ इत्यादिसर्वनियमनश्रुतेश्च । ‘द्रव्यं कर्म च’ इत्यादेश्च अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा । ‘न कर्तृत्वम्’ इत्यादिनिषेधाच्च ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V15
| id      = BGB_C03_V15_B02
| text    =
अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यज्यते परं ब्रह्म । अन्यथानादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति? न च रूढिं विना योगाङ्गीकारो युक्तः ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V15
| id      = BGB_C03_V15_B03
| text    =
परामर्शाच्च ‘तस्मात् सर्वगतं ब्रह्म’ (३.१५) इति । न ह्येकशब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V15
| id      = BGB_C03_V15_B04
| text    =
तानि चाक्षराणि नित्यानि । ‘वाचा विरूप नित्यया’(ऋ. ८.६४.६), ‘अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा’, ‘अत एव च नित्यत्वम्’ (ब्र.सू. १-३-२९) इत्यादिश्रुतिस्मृति-भगवद्वचनेभ्यः । दोषाश्चोक्ताः सकर्तृकत्वे ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V15
| id      = BGB_C03_V15_B05
| text    =
न चाबुद्धिपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निःश्वसित-शब्दस्त्वक्लेशाभिप्रायः, नाबुद्धिपूर्वाभिप्रायः । ‘सोऽकामयत’ (तै. २.११) इत्यादेश्च । ‘इष्टं हुतम्’ (बृ. ६.१.२) इत्यादिरूपप्रपञ्चेन सहाभिधानाच्च । महातात्पर्यविरोधाच्च । तच्चोक्तं पुरस्तात् (गी.भा. २.२४)। न ह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि उत्पत्तिवचनान्यभिव्यक्त्यर्थानि , अभिमानिदेवताविषयाणि च । ‘नित्या’ इत्युक्त्वा ‘उत्सृष्टा’ इति वचनात् । अभिव्यञ्जके कर्तृवचनं चास्ति । ‘कृत्स्नं शतपथं चक्रे’ (मोक्षधर्मे) इति । कथमादित्यस्था वेदाः तेनैव क्रियन्ते ? वचनमात्राच्च निर्णयात्मक-शारीरकोक्तं बलवत् ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V15
| id      = BGB_C03_V15_B06
| text    =
शास्त्रं योनिः प्रमाणमस्येति तु शास्त्रयोनित्वम् । ‘जन्माद्यस्य यतः’ इत्युक्ते प्रमाणं हि तत्रापेक्षितं, न तु तस्य जातत्वं वेदकारणत्वं वा । न हि वेदकारणत्वं जगत्कारणत्वे हेतुः । न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यत्वे । न च सर्वज्ञत्वे । यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा ? तस्माद् वेदप्रमाणकत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि ।
यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मात् तद् नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V16
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
| verse_line2  = अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥१६ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V16
| id      = BGB_C03_16_B01
| text    =
तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् । तदेतत् जगच्चक्रं यो नानुवर्तयति, स तद्विनाशकत्वाद् अघायुः । पापनिमित्तमेव यस्याऽयुः सोऽघायुः ॥ १६ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V17
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = यस्त्वात्मरतिरेव स्याद् आत्मतृप्तश्च मानवः ।
| verse_line2  = आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V17
| id      = BGB_C03_V17_B01
| text    =
तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह -यस्त्विति ॥ रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रालम्बुद्धिः । सन्तोषस्तज्जनकं सुखम् । ‘सन्तोषस्तृप्तिकारणम्’ इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनालम्बुद्धिं च ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V17
| id      = BGB_C03_V17_B02
| text    =
महच्च तत् सुखम् । तेनैवान्यत्रालम्बुद्धिरिति दर्शयति । आत्मन्येव च सन्तुष्टः, इति तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत् किमपि सन्तोषकारणम् इत्यवधारणम् । आत्मना तृप्तः । न ह्यात्मन्यलम्बुद्धिर्युक्ता । तद्वाचित्वं च ‘वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः’ (भाग. १.१.१९) इति प्रयोगात् सिद्धम् । अध्याहारस्त्वगतिका गतिः ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V17
| id      = BGB C03 V17 B03
| text    =
‘आत्मरतिरेव’ इत्यवधारणाद् असम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते ।
‘स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा ।स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता ॥’ इति वचनाच्च पञ्चरात्रे ।
अन्यदाऽन्यरतिरपीषत् सर्वस्य भवति । न च तत्रालम्बुद्धिमात्रमुक्तम् । ‘आत्मतृप्तः’ इति पृथगभिधानात् । कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धो ‘यो भुङ्क्ते स तु न ब्रूयात्’ इत्यादौ ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V17
| id      = BGB C03 V17 B04
| text    =
अतोऽसम्प्रज्ञातसमाधावेवैतत् । ‘मानवः’ इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति ‘मनु अवबोधने’ इति धातोः ।
परमात्मरतिश्चात्र विवक्षिता ।
‘विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि ।’इति वचनात् ॥ १७ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V18
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
| verse_line2  = न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V18
| id      = BGB_C03_V18_B01
| text    =
तस्य ‘कर्मकाले वक्तव्योऽहम्’ इति कञ्चित् प्रत्युक्त्वा तत्कृतावात्मरत्यधिकः समो वाऽर्थो नास्ति । न च सन्ध्याद्यकृतौ कश्चिद्दोषोऽस्ति ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V18
| id      = BGB C03 V18 B02
| text    =
न चैतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोऽर्थव्यपाश्रयः ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V18
| id      = BGB C033 V18 B03
| text    =
ज्ञानमात्रेण प्रत्यवायो यद्यपि न भवति । तद् अर्जुनस्यापि समम् इति न तस्य कर्मोपदेशोपयोग्येतद् भवति । ईषत् प्रारब्धानर्थसूचकं च तद् भवति महच्चेद् वृत्रहत्यादिवत् ॥ १८ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V19
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = तस्मादसक्तः सततं कार्यं कर्म समाचर ।
| verse_line2  = असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V19
| id      = BGB_C03_V19_B01
| text    =
यतोऽसम्प्रज्ञातसमाधेरेव कार्याभावः, तस्मात् कर्म समाचर ॥१९॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V20
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
| verse_line2  = लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥२० ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V20
| id      = BGB_C03_V20_B01
| text    =
आचारोऽप्यस्तीत्याह-कर्मणैवेति ॥कर्मणा सह कर्म कुवन्त एवेत्यर्थः । कर्म कृत्वैव  ततो ज्ञानं प्राप्य वा ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V20
| id      = BGB_C03_V20_B02
| text    =
न तु ज्ञानं विना । प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु । ‘तमेवं विद्वान्’ (तै.आ. ३.१२) इत्यादिश्रुतिभ्यश्च । अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च ‘बुद्धियुक्ताः’ (२.५१) इति ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V20
| id      = BGB_C03_V20_B03
| text    =
गत्यन्तरं च ‘नान्यः पन्थाः’ (तै.आ.३.१२) इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराऽप्यविरोधः । यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते-‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ॥’ इत्यादौ, तत्र पापादिमुक्तिः, स्तुतिपरता च ।
}}
 
{{Bhashyam
| verse_id = BGB_C03_V20
| id      = BGB_C03_V20_B04
| text    =
तत्रापि हि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेऽन्यथा मुक्तिं निषिध्य- ‘ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते । प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि ॥’ इत्यादौ । न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति । यथा कञ्चिद् दक्षं भृत्यं प्रति उक्तानि ‘अयमेव हि राजा किं राज्ञा’ इत्यादीनि । यथाऽऽह भगवान् -‘यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च ।
            स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा ।भवेन्मोक्षस्तु मद्दृष्टेर्नान्यतस्तु कथञ्चन ॥’ इति नारदीये ।अतोऽपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ॥ २० ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V21
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
| verse_line2  = स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V21
| id      = BGB_C03_V21_B01
| text    =
स यद् वाक्यादिकं प्रमाणं कुरुते, यदुक्तप्रकारेण तिष्ठतीत्यर्थः ॥ २१ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V22
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
| verse_line2  = नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥२२ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V23
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
| verse_line2  = मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V24
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
| verse_line2  = सङ्करस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः ॥२४॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V25
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
| verse_line2  = कुर्याद् विद्वान् तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्॥ २५ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V26
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनाम् ।
| verse_line2  = जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्॥ २६ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V27
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
| verse_line2  = अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥२७ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V27
| id      = BGB_C03_V27_B01
| text    =
विद्वदविदुषोः कर्मभेदमाह-प्रकृतेरिति॥ प्रकृतेर्गुणैः इन्द्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि । तत्सम्बन्धीनि च । न हि प्रतिबिम्बस्य क्रिया ॥ २७ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V28
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
| verse_line2  = गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥२८ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V28
| id      = BGB_C03_V28_B01
| text    =
कर्मभेदस्य गुणभेदस्य चतत्त्ववित् । गुणा इन्द्रियादीनि ।गुणेषु विषयेषु ॥ २८ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V29
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
| verse_line2  = तानकृस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥२९ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V29
| id      = BGB_C03_V29_B01
| text    =
प्रकृतेर्गुणेषु इन्द्रियादिषु सम्मूढाः । इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः । गुणकर्मसु विषयेषु कर्मसु च । ‘शब्दाद्या इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च । अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः ॥’
इत्यभिधानात् । सत्त्वाद्यङ्गीकारे- ‘गुणा गुणेषु’ इत्ययुक्तं स्यात् ॥ २९ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V30
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
| verse_line2  = निराशीर्निर्ममो भूत्वा युदध्यस्व विगतज्वरः॥३० ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V30
| id      = BGB_C03_V30_B01
| text    =
अतः सर्वाणि कर्माणिमय्येव सन्न्यस्य भ्रान्त्या जीवेऽध्यारोपितानि मय्येव विसृज्य ‘भगवानेव सर्वाणि कर्माणि करोति’ इति, मत्पूजेति च । आत्मानं मामधिकृत्य यच्चेतः तद् अध्यात्मचेतः । सन्न्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ॥ ३० ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V31
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
| verse_line2  = श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V32
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
| verse_line2  = सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥३२ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V32
| id      = BGB_C03_V32_B01
| text    =
फलमाह-ये म इति ॥ ये त्वेवं निवृत्तकमिणस्तेऽपि मुच्यन्ते ज्ञानद्वारा । किमु अपरोक्षज्ञानिनः ? न तु साधनान्तरमुच्यते ।‘निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये । अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते । सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।  न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक् ॥’
इति नारायणाष्टाक्षरकल्पे ।
अत एव समुच्चयनियमोऽपि निराकृतः ॥ ३१-३२ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V33
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
| verse_line2  = प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥३३ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V33
| id      = BGB_C03_V33_B01
| text    =
एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोकाः इत्यत आह - सदृशमिति । प्रकृतिः पूर्वसंस्कारः ॥ ३३ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V34
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
| verse_line2  = तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥ ३४ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V34
| id      = BGB_C03_V34_B01
| text    =
तथाऽपि शक्तितो निग्रहः कार्यः । निग्रहात् सद्यः प्रयोजना-भावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह-इन्द्रियस्येति ॥तथा ह्युक्तम् - ‘संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः । तथाऽपि सोऽन्यथाकर्तुं शक्यतेऽतिप्रयत्नतः ॥’ इति ॥ ३४ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V35
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
| verse_line2  = स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥३५ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V35
| id      = BGB_C03_V35_B01
| text    =
तथाऽप्युग्रं युद्धकर्म ? इत्यत आह-श्रेयानिति ॥ ३५ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V36
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
| verse_line2  = अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Uvacha|अर्जुन उवाच}}
 
{{Bhashyam
| verse_id = BGB_C03_V36
| id      = BGB_C03_V36_B01
| text    =
बहवः कर्मकारणाः सन्ति, क्रोधादयः कामश्च । तत्र को बलवान् ? इति पृच्छति-अथेति ॥ अथेत्यर्थान्तरं ‘तयोर्न वशमागच्छेत्’ इति प्रश्नप्रापकम् ॥ ३६ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V37
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = काम एष क्रोध एष रजोगुणसमुद्भवः ।
| verse_line2  = महाशनो महापाप्मा विध्येनमिह वैरिणम्॥३७ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Uvacha|श्रीभगवानुवाच}}
 
{{Bhashyam
| verse_id = BGB_C03_V37
| id      = BGB_C03_V37_B01
| text    =
यस्तु बलवान् प्रवर्तकः सएष कामः ।क्रोधो ऽप्येष एव  तज्जन्यत्वात् । ‘कामात् क्रोधोऽभिजायते’ (२.६२) इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्त-अनिन्दा-कामनिमित्त एव । ये त्वन्यथा वदन्ति ते शङ्करान्न सूक्ष्मं जानन्ति । उक्तं च ‘ऋते कामं न कोपाद्या जायन्ते हि कथञ्चन’ इति ।महाशनः । महद्धि कामभोग्यम् । महाब्रह्महत्यादिकारणत्वान् महापाप्मा । सर्वपुरुषार्थविरोधित्वाद् वैरी ॥ ३७ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V38
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।
| verse_line2  = यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V38
| id      = BGB_C03_V38_B01
| text    =
कथं विरोधी सः ? इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाश-रूपोऽप्यन्येषां न सम्यग्दर्शनाय तथा परमात्मा । यथाऽऽदर्शो मलेनावृतोऽन्याभिव्यक्तिहेतुर्न भवति, तथाऽन्तःकरणं परमात्मा-देर्व्यक्तिहेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ॥ ३८ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V39
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
| verse_line2  = कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥३९ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V39
| id      = BGB_C03_V39_B01
| text    =
शास्त्रतो जातमपि ज्ञानं परमात्माऽपरोक्ष्याय न प्रकाशते ; कामेनावृतं ज्ञानिनोऽपि, किमु अल्पज्ञानिनः ! कामरूपेणकामाख्येन नित्यवैरिणा ।दुष्पूरेण दुःखेन हि कामः पूर्यते । न हीन्द्रादिपदं सुखेन लभ्यते । यद्यपीन्द्रादिपदं प्राप्तम्, पुनर्ब्रह्मादिपदमिच्छतीत्यलम्बुद्धिर्नास्तीती अनलः। उक्तं च- ‘ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा । आदर्शस्याथ जीवस्य गर्भोल्बोपि हि कामकः ॥’ इति ॥३९ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V40
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = इन्द्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते ।
| verse_line2  = एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥४० ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V40
| id      = BGB_C03_V40_B01
| text    =
वधार्थं शत्रोरधिष्ठानमाह-इन्द्रियाणीति ॥ एतैर्ज्ञानमावृत्य बुध्यादिभिर्हि विषयैः ज्ञानमावृतं भवति ॥ ४० ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V41
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
| verse_line2  = पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥४१ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V41
| id      = BGB_C03_V41_B01
| text    =
हृताधिष्ठानो हि शत्रुर्नश्यति ॥ ४१ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V42
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
| verse_line2  = मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ ४२ ॥
}}
 
{{VerseBlock
| verse_id      = BGB_C03_V43
| document_id  = BGB
| chapter_id    = BGB_C03
| verse_type    = shloka
| verse_line1  = एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
| verse_line2  = जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥४३ ॥
| commentary1  = bhagavadgitabhashya
}}
 
{{Bhashyam
| verse_id = BGB_C03_V43
| id      = BGB_C03_V43_author-note
| text    =
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोध्यायः ॥
}}
 
{{Bhashyam
| verse_id = BGB_C03_V43
| id      = BGB_C03_V43_B01
| text    =
शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह-इन्द्रियाणीति ॥ ‘असङ्गज्ञानासिमादाय तराति पारम्’ इति ह्युक्तम् । शरीराद्इन्द्रियाणि पराणि उत्कृष्टानि । न केवलं बुद्धेः परः । श्रुत्युक्त-प्रकारेणाव्यक्तादपि । ‘अव्यक्तात् पुरुषः परः’ इति हि श्रुतिः । न च तत्रतत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिक-गुणोपसंहारो हि भगवता गुणोपसंहारपादेऽभिहितः ।  ‘आनन्दादयः प्रधानस्य’ (ब्र.सू. ३-३-१२) इत्यादिना । तथा चान्यत्र- ‘अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये ॥सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम् ।तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन ॥’ इति गारुडे ।तस्मादव्यक्तादपि परत्वेन ज्ञेयः । न चात्र जीव उच्यते । ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’(२.५९) इत्युक्तत्वात् । ‘अविहाय परं मत्तो जयः कामस्य वै कुतः’ इति च । अतः परमात्मज्ञानमेवात्र विवक्षितम् ।आत्मानं मनः ।आत्मना बुध्या ॥ ४२-४३ ॥
}}
 
 
[[Category:Bhagavadgitabhashya]]

Latest revision as of 06:41, 13 April 2026