ब्रह्मसूत्रभाष्यम्/C03/S03/A055: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
पुरुषविद्याधिकरणम्
यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितराऽन्येषामिति चेन्न –
ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ 25-390 ॥
पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् ।
इति ब्रह्मतर्के ॥ 25 ॥‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
तत्रापि नैव सर्वेऽपि तस्मात् कार्योपसंहृतिः’