ब्रह्मसूत्रभाष्यम्/C03/S03/A048: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
अध्यानाधिकरणम्
उपसंहारानुपसंहारप्रमाणमाह –
ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ 15-380 ॥
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥
‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुधीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥
इति परमसंहितायाम् ॥नान्यत् प्रयोजनं ज्ञानाध्यानात् कर्मकृतेरपि ।
श्रवणाच्चाथ पाठाद्वा विद्याभिः कञ्चिदिष्यते’
‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।
नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
इति ब्रह्मतन्त्रे ॥ 15 ॥ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् ।
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’
ॐ आत्मशब्दाच्च ॐ ॥ 16-381 ॥
‘आत्मेत्येवोपासीत’ इत्यनुपसंहारप्रमाणम् ॥ 16 ॥