ब्रह्मसूत्रभाष्यम्/C03/S01/A019: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
रेतोऽधिकरणम्
‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इति वचनात् ‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’इति श्रुतिः कथमित्यत आह-
ॐ रेतःसिग्योगोऽथ ॐ ॥ 28-322 ॥
‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतो विशति। मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ 28 ॥