Jump to content

Brahmasutra

From Grantha
Revision as of 12:10, 13 April 2026 by Chandrashekars (talk | contribs) (Imported from pramati-sarvamoola XML (grantha.io importer v3))
ब्रह्मसूत्रभाष्यम्
अनुक्रमणिका

(समन्वयाध्यायः) प्रथमाध्यायः — प्रथमः पादः
(समन्वयाध्यायः) प्रथमाध्यायः — द्वितीयः पादः
(समन्वयाध्यायः) प्रथमाध्यायः — तृतीयः पादः
(समन्वयाध्यायः) प्रथमाध्यायः — चतुर्थः पादः
(अविरोधाध्यायः) द्वितीयोऽध्यायः॥ — प्रथमः पादः
(अविरोधाध्यायः) द्वितीयोऽध्यायः॥ — द्वितीयः पादः
(अविरोधाध्यायः) द्वितीयोऽध्यायः॥ — तृतीयः पादः
(अविरोधाध्यायः) द्वितीयोऽध्यायः॥ — चतुर्थः पादः
(साधनाध्यायः) तृतीयाध्यायः॥ — प्रथमः पादः
(साधनाध्यायः) तृतीयाध्यायः॥ — द्वितीयः पादः
(साधनाध्यायः) तृतीयाध्यायः॥ — तृतीयः पादः
(साधनाध्यायः) तृतीयाध्यायः॥ — चतुर्थः पादः
(फलाध्यायः) चतुर्थाध्यायः ॥ — प्रथमः पादः
(फलाध्यायः) चतुर्थाध्यायः ॥ — द्वितीयः पादः
(फलाध्यायः) चतुर्थाध्यायः ॥ — तृतीयः पादः
(फलाध्यायः) चतुर्थाध्यायः ॥ — चतुर्थः पादः

(समन्वयाध्यायः) प्रथमाध्यायः

प्रथमः पादः

नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥

द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।

तच्चोक्तं स्कान्दे – नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते ।सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥शरण्यं शरणं जग्मुर्नारायणमनामयम् ।तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः ।शतधा चैकधा चैव तथैव च सहस्रधा ॥कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥

निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥ सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥ इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ॥

शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥ ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ॥ इत्यादि ।

जिज्ञासाधिकरणम्

ओम् ओम् अथातो ब्रह्मजिज्ञासा ओम् ॥ 01-01-01 ॥


‘अथ’ शब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च । ‘अतः’ शब्दो हेत्वर्थः।
उक्तं च गारुडे –अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि ।प्रारभन्ते नियत्यैव तत् किमत्र नियामकम् ॥कश्चार्थस्तु तयोर्विद्वन् कथमुत्तमता तयोः ।एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः ।आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च ॥अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः ।परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः ।सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् ।तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥
अकारः सर्ववागात्मा परब्रह्माभिधायकः ।तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः ।अथातःशब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते ॥ इति।
अधिकारश्चोक्तो भागवततन्त्रे – मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः ।इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः ॥भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः ।अधमः शमादिसंयुक्तो मध्यमः समुदाहृतः ॥आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान् इति ।
‘अध्ययनमात्रवतः’(ब्र.सू.३.४.१२)‘नाविशेषात्’(ब्र.सू.३.४.१३) इति चोपरि ।
‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’(बृ.उ.४.४.२३)।‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।”(मुण्डक.उ.१.२.१२)‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।’(क.उ.२.२३)
“ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता(तस्यैतेऽकथिता) ह्यर्थाः प्रकाशन्ते महात्मनः ॥”(श्वे.उ.६.२३) इत्यादि श्रुतिभ्यश्च ॥
व्योमसंहितायां च –

‘अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥ एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥

आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपरा ॥’ इति ॥तथाऽऽपराः मुनिस्त्रियः नरादिकुलजाश्च ।
यतो नारायणप्रसादम् ऋते न मोक्षः, न च ज्ञानं विना अत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासा कर्तव्या ।
‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्॥’इति बृहत्संहितायाम् ।
‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते ॥’(तै.आ.३.१२)
‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।’(भ.गी.७.१७)
‘यमेवैष वृणुते तेन लभ्यः ।’(क.उ.२.२३)
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः।’(बृ.उ.६.५.६) इत्यादिश्रुतिस्मृतिभ्यः ।
‘कर्मणात्वधमः प्रोक्तः प्रसादः, श्रवणादिभिः । मध्यमो, ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः । मध्यमाज्जनलोकादिः, उत्तमस्त्वेव मुक्तिदः ॥
श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च । साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन’। इति नारदीये ।
ब्रह्मशब्दश्च विष्ण्वावेव
‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः ।यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’(म.ना.उ.१.३)इत्युक्त्वा‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६) इति हि शृतिः ॥
‘तन्नो विष्णुः’(म.ना.उ.३.१६) इति वचनाद्विष्णुरेव हि तत्रोच्यते ॥ न चेतरशब्दात् तत्प्राप्तिः
‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ इति भाल्लवेयश्रुतिः
‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’(ऋ.सं.१०.८२.३) इत्येवशब्दान्नान्येषां सर्वनामता ।
‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’(ऋ.सं.१०.८२.६) इति विष्णोर्हि लिङ्गम् ।
न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते ॥
‘‘अजस्य नाभौ’ इति, यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् । तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे’’ इति स्कान्दे ।
‘परो दिवा पर एना पृथिव्या’(ऋ.सं.१०.८२.५) इति समाख्याश्रुतौ ॥
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’(ऋ.सं.१०.१२५.५) इत्युक्त्वा ‘मम योनिरप्स्वन्तः समुद्रे’(ऋ.सं.१०.१२५.७) इत्याह ।
उग्रो रुद्रः । समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात्, सूचितत्वाच्चास्यार्थस्य । न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तान्यायेन च श्रुतय एतमेव वदन्ति ।
‘वेदे रामायणे चैव पुराणे भारते तथा ।आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’ इति हरिवंशेषु ॥
न चेतरग्रन्थविरोधः
‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’ इति वाराह वचनात् ॥
शैव च स्कान्दे –

‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः ।तदैवाच्युत यान्त्येव यदैव त्वं पराङ्‍मुखः॥’ इति ॥ ब्राह्मे च ब्रह्मवैवर्ते –

‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ।बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः’ इति ॥
न च वैष्णवेषु तथा । तच्च ‘एष मोहम्’ इत्युक्तम् ॥ इति जिज्ञासाधिकरणम् ॥

जन्माधिकरणम्

ओं जन्माद्यस्य यतः ओम् ॥ 01-01-02 ॥


ब्रह्मणो लक्षणमाह –
सृष्टि-स्थिति-संहार-नियमन-ज्ञान-अज्ञान-बन्ध-मोक्षाः यतः ।
‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’ इति स्कान्दे ।
‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’(तै.उ.३.१) इति ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।’(ऋ.सं.१.१५४.४)
‘चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँवीविपत् ।’(ऋ.सं.१.१५५.६)
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’(ऋ.सं.७.९९.१)
‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप।’(ऋ.सं.७.९९.२)
‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’(ऋ.सं.१०.८२.३) इत्यादि च ॥02॥॥ इति जन्माधिकरणम् ॥

शास्त्रयोनित्वाधिकरणम्

ओं शास्त्रयोनित्वात् ओम् ॥ 01-01-03 ॥


अनुमानतोऽन्ये न कल्पनीयाः –
‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’ ॥(तै.ब्रा.३.१२.९) ‘औपनिषदः पुरुषः’ इत्यादिश्रुतिभ्यः ॥
न चानुमानस्य नियतप्रामाण्यम् ॥
‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥
पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत्’ इत्यादि कौर्मे॥
शक्यत्वाच्चानुमानानां सर्वत्र ।
‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’ इति वाराहे ।
‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥

प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥’(म.भा.१२.२२०.३०-३१)

इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ।
दर्शनाच्च तप आधिफलस्य ॥
‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम्। मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्’॥इति स्कान्दे ॥
‘साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च’। इत्यारभ्य, वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरात्रस्यैव प्रामाण्यमुक्तम्, इतरेषां भिन्नमतत्वं प्रदर्श्य मोक्षधर्मेष्वपि । ‘शास्त्रं योनिः= प्रमाणमस्य’ इति शास्त्रयोनि ॥ 03 ॥ इति शास्त्रयोनित्वाधिकरणम् ॥ 03 ॥

समन्वयाधिकरणम्

ओं तत्तु समन्वयात् ओम् ॥ 01-01-04 ॥


अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् , कुतः ? ।
अन्वय उपपत्यादि लिङ्गम् ।
‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥’ इति ॥
उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् ।
‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’(भाग.११.२१.४३) इति भागवते ॥ 04 ॥॥ इति समन्वयाधिकरणम् ॥ 04 ॥

ईक्षत्यधिकरणम्

ओम् ईक्षतेर्नाशब्दम् ओम् ॥ 01-01-05 ॥


ननु‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’(तै.उ.२.४.२२) , ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’(क.उ.१.३.१५) ,‘अवचनेनैव प्रोवाच’(बाष्कलश्रुति) , ‘यद्वाचाऽनभ्युदितम् । येन वागभ्युद्यते । यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्’(क.उ.१) इत्यादिभिर्न तच्छब्दगोचरम् । नेत्याह –

‘स एतस्मात् जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते’(प्र.उ.५.५),‘आत्मन्येवात्मनं पश्येत्’(बृ.उ.६.४.२३), ‘विज्ञाय प्रज्ञां कुर्वीत’(बृ.उ.६.४.२१) इत्यादिवचनैः ईक्षणीयत्वाद् वाच्यमेव । औपनिषदत्वात् न अवचनेनेक्षणम् ॥
‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’(कठ.२.१५), ‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्’(भ.गी.१५.१५) इत्यादिशृतिस्मृतिभ्यश्च ॥
अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ।
‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते । पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’ इति वत् ॥ अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः । अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम्॥’ इति गारुडे ॥
न चाशब्दत्वमितरसिद्धम् ॥05॥
ओं गौणश्चेन्नात्मशब्दात् ओम् ॥ 01-01-06 ॥


न च गौण आत्मा दृश्यो वाच्यश्च, न निर्गुण इति युक्तम् । आत्मशब्दात्।
‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः । हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥ एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ॥ अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते॥’ इति वामने ॥
‘द्वे वाव ब्रह्मणो रूपे-आत्मा चैव अनात्मा च । तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च । अथ ह योऽनीदृशः सोऽनात्मा’इति तलवकारब्राह्मणम् ।
न च मुख्ये सति अमुख्यं युज्यते ॥ 06 ॥
ओं तन्निष्ठस्य मोक्षोपदेशात् ओम् ॥ 01-01-07 ॥


न हि गौणात्मनिष्ठस्य मोक्षः ।
‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्दोहे गहने प्रविष्टः ।स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’(बृ.उ.६.४.१३) इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
‘अयमात्मा ब्रह्म॥’(बृ.उ.४.५.१९,माण्डूक्य.उ.१.२), ‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’(भाग.१.२.११), ‘दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान्’(भाग.३.१.१५)॥ ‘चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते(रोऽभिधीयते) ॥तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
‘सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।परो हि पुरुषो विष्णुः तस्मान्मोक्षस्ततः स्मृतः’ इति पाद्मे ॥ 07 ॥
ओं हेयत्वावचनाच्च ओम् ॥ 01-01-08 ॥


‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’(मुण्डक.उ.२.२.५) इति अन्येषां हेयत्ववचनात्, अस्य अहेयत्ववचनात् न गौण आत्मा ॥ 08 ॥
ओं स्वाप्ययात् ओम् ॥ 01-01-09 ॥


‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥’(बृ.उ.५.१.१)
‘स आत्मन आत्मानमुद्धृत्य आत्मन्येव विलापयति, अथ आत्मैव भवति’।
‘स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः।एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्॥’इति स्वस्यैव स्वस्मिन्नप्ययवचनात् ।
न हि गौणात्मनि निर्दोषस्य लयः ॥ 09 ॥
ओं गतिसामान्यात् ओम् ॥ 01-01-10 ॥


न च कासुचित् शाखासु अन्यथा उच्यते ।
‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव ।प्रकाशयन्ते न विरोधः कुतश्चिद् वेदेषु सर्वेषु तथेतिहासे॥’इति पैङ्गिश्रुतेः, गतेः= ज्ञानस्य साम्यमेव ॥ 10 ॥
ओं श्रुतत्वाच्च ओम् ॥ 01-01-11 ॥


‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥’(श्वे.उ१.१) इति ॥
न हि अशब्दः श्रूयते ।
न चाप्रसिद्धं कल्प्यम् ।
सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ 11 ॥
॥ इति ईक्षत्यधिकरणम् ॥
‘ब्रह्मजिज्ञासा कर्तव्या’ इत्युक्तम् । तच्च ब्रह्म ‘ब्रह्म पुच्छं प्रतिष्ठा’(तै.उ.२.५.२) इत्यानन्दमयावयवरूपं प्रतीयते ।


आनन्दमयाधिकरणम्

ओम् आनन्दमयोऽभ्यासात् ओम् ॥ 01-01-12 ॥


आनन्दमयो ब्रह्मादिः, प्रकृतिः,विष्णुः वा ?
ब्रह्मशब्दात् हिरण्यगर्भस्य प्राप्तिः, शतानन्दनाम्ना च । अष्टमूर्तित्वात्, सूर्ये प्रोक्तत्वाच्च रुद्रस्य । एवमन्येषामपि।‘मम योनिर्महद्ब्रह्म’(भ.गी.१४.३) इति ब्रह्मशब्दात्, बहुभावाच्च प्रकृतेः । ‘बृह= जाति-जीव-कमलासन-शब्दराशिषु’ इति ब्रह्मशब्दादेव सर्वजीवानाम्, अन्नमयत्वादेश्च ।
तथाऽपि न त आनन्दमयशब्देनोच्यन्ते, किन्तु विष्णुरेव ।
‘तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६),‘एतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३.१२),‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।असम्पूर्णाः परे यस्माद् उपचारेण वा भवेत्॥’‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’(भाग.१.२.११),‘वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः’(व्या.स्मृ.) इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ॥ 12 ॥
ओं विकारशब्दान्नेति चेन्न प्राचुर्यात् ओम् ॥ 01-01-13 ॥


विकारात्मकत्वात् तदभिमानित्वाच्च युज्यते प्रकृत्यादीनां मयट् शब्दः । न तु परमात्मन इति मा भूत् । प्रचुरानन्दत्वाद्धि आनन्दमयः । न तु तद्विकारत्वात् ॥
अन्नादीनां च प्राचुर्यमेव ॥
‘अद्यतेऽत्ति च’(तै.उ.२.२) इति व्याखानात् तत्प्राचुर्यं च युज्यते ॥
उपजीव्यत्वमेव आद्यत्वम् ।‘स वा एषः’(तै.उ.२.२)इत्यन्यप्रारम्भात् ॥
‘येऽन्नं ब्रह्मोपासते’(तै.उ.२.२)इत्यादिब्रह्मशब्दाद् बहुरूपत्त्वाच्च न विकारित्वमविरोधश्च ।
न च पृथक्कल्पना युक्ता ।
स्वरूपे च युज्यते प्रचुरप्रकाशो रविरितिवत् ॥13॥
ओं तद्धेतुव्यपदेशाच्च ओम् ॥ 01-01-14 ॥


‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२.७) इति ॥14॥
ओं मान्त्रवर्णिकमेव च गीयते ओम् ॥ 01-01-15 ॥


‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१) इति सूचयित्वा‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१) इति मन्त्रवर्णलक्षितं परमेव ब्रह्म शब्दानुसन्धानाद् गीयते ।
न चावयवत्वविरोधः । ‘स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छम्’इति तस्यैवावयवत्वोक्तेश्चतुर्वेदशिखायाम्
‘शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥नारायणोऽथ सन्दोहो वासुदेवः शिरोऽपि वा ।पुच्छं सङ्कर्षणः प्रोक्त एक एव तु पञ्चधा ॥अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ।ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ॥अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा’इति बृहत्संहितायाम् ॥
रसशब्देन विशेषणात् तत्सारभूतं चिन्मात्रमेवोच्यते ।
इदमिति च दृश्यमानसन्निहितत्वात् ।
‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।प्रोच्यते भगवान् विष्णुरैश्वर्यात् पुरुषोत्तमः॥’ इति ब्रह्माण्डे ।
न चोक्तप्राप्त्या विरिञ्चादिरुच्यते ॥ 15 ॥
ओं नेतरोऽनुपपत्तेः ओम् ॥ 01-01-16 ॥


न ह्यन्यज्ञानान्मोक्ष उपपद्यते ।
‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’(तै.आ.३.१२.७) इति ह्युक्तम् ॥16॥
ओं भेदव्यपदेशाच्च ओम् ॥ 01-01-17 ॥


‘ते ये शतं प्रजापतेरानन्दाः’(तै.उ.२.२०(२८)),‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति’(तै.आ.२.१६) ‘स यश्चायं पुरुषे’(तै.उ.२.२१(२७)) इत्यादिभेदव्यपदेशात् ।
न च‘तत्त्वमसि’(छा.उ.६.८)‘अहं ब्रह्मास्मि’(बृ.उ.३.५.४) इत्यादिश्रुतिविरोधः ॥ ‘नामानि सर्वाणि यमाविशन्ति’ इति तत्तच्छब्दवाच्यत्वोक्तेः ॥
‘इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः’(भाग.१.५.२०) ‘असर्वः सर्व इत्यपि’,‘विद्याऽऽत्मनि भिदाभोधः’(भाग.११.१९.३९),‘भेददृष्ट्वाऽभिमानेन निस्सङ्गेनापि कर्मणा’(भाग.३.३.१२)‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।’(मु.उ.३.१.२)
‘असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ् पराङ् वैक ईयते बहुधेयते’,‘स पुरुषः’, ‘स ईश्वरः’, ‘स ब्रह्म’ ।
‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयते ।एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः’॥
‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह’(म.भा.१२.३६०.२) इत्यादेश्च ।
उक्ता च प्राप्तिः ।‘ब्रह्मैव सन्’(बृ.उ.६.४) इत्यपि जीव एव ब्रह्मशब्दः ।
उपपद्यते च विरोधे । प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यते ।
‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’(भाग.२.१०.६) इति हि भागवते ॥17॥
ओं कामाच्च नानुमानापेक्षा ओम् ॥ 18-18 ॥


न च तत्तदनुमानविरोधः ।
यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथगनुमानमपेक्ष्यते ।
उक्तं च स्कान्दे –‘यथाकामाऽनुमा यस्मात् तस्मात् साऽनपगा श्रुतेः ।पूर्वापराविरोधाय(पूर्वोत्तराविरोधाय) चेष्यते नान्यथा क्वचित्’ इति ॥
‘नैषा तर्केण मतिराऽऽपनेया’(कठ.उ.२.९) इति च ॥ 18 ॥
ओम् अस्मिन्नस्य च तद्योगं शास्ति ओम् ॥ 01-01-19 ॥


अस्य जीवस्य । युक्तिसमुच्चये चशब्दः ।
‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’(तै.उ.२.१) ,‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’(तै.उ.२.७) ,‘एतमानन्दमयमात्मानमुपसङ्‍क्रामति’(तै.उ.२.८) इत्यादि ॥19॥

अन्तःस्थत्वाधिकरणम्

ओं अन्तस्तद्धर्मोपदेशात् ओम् ॥ 01-01-20 ॥


‘अदृश्येऽनात्म्ये’(तै.उ.२.७.१) इत्युक्तम् । तच्चादृष्यत्वम्,‘अन्तः प्रविष्टं कर्तारमेतम् । अन्तश्चन्द्रमसि मनसा चरन्ततम् । सहैव सन्तं न विजानन्ति देवाः’(तै.आ.३.११) इत्यन्तःस्थस्य कस्यचिदुच्यते । स च‘इन्द्रो राजा’(तै.आ.३.११.६),‘सप्तयुञ्जन्ति’(तै.आ.३.११.८) इत्यादिभिरन्यः प्रतीयते । तस्मात् स एवानन्दमय इति न मन्तव्यम् ।
अन्तः श्रूयमाणो विष्णुरेव ।
‘अन्तः समुद्रे मनसा चरन्तम् ब्रह्मान्वविन्दद्दशहोतारमर्णे’(तै.उ.३.११.१) ।
‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’(तै.आ.३.११.११)
‘यस्याण्डकोशं शुष्ममाहुः’(तै.आ.३.११.४) इत्यादि तद्धर्मोपदेशात् ।
स हि क्षीरसमुद्रशायी । तस्य च वीर्यमण्डकोशः ।
‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’ इति व्यासस्मृतौ ।‘अहं तत्तेजो रश्मीन्नारायणम् पुरुषं जातमग्रतः । पुरुषात् प्रकृतिर्जगदण्डम्’ इति चतुर्वेदशिखायाम् ॥ 20 ॥
ओं भेदव्यपदेशाच्चान्यः ओम् ॥ 01-01-21 ॥


‘इन्द्रस्यात्मानिहितः पञ्च होता’ ,‘वायोरात्मानं कवयो निचिक्युः’(तै.आ.३.११),‘अन्तरादित्ये मनसा चरन्तम्’(तै.आ.३.११),‘देवानां हृदयं ब्रह्मान्वविन्दत्(तै.आ.३.११)’ इत्यादिभेदव्यपदेशात् ॥ 21 ॥ ॥इति अन्तस्थत्वाधिकरणम् ॥ 07 ॥

आकाशाधिकरणम्

ओम् आकाशस्तल्लिङ्गात् ओम् ॥ 01-01-22 ॥


‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’(तै.उ.२.१५) इति आकाशस्यऽऽनन्दमयत्वे हेतुरुक्तः, न तु विष्णोः । इति न मन्तव्यम् । यतः –
‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’(छा.उ.१.९) इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु विष्णुरेव ।
‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’(छा.उ.१.९) इत्यादि तल्लिङ्गात् ।
‘विष्णोर्नु कं वीर्याणि प्रोवोचं यः पार्थिवानि विममे रजांसि’(ऋ.सं.१.१५४.१),परो मात्रया तन्वा वृधान’(ऋ.सं.७.९९.१) इत्यादिना तस्यैव(तस्य) तल्लिङ्गम् ।
‘अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।प्रोच्यते विष्णुरेवैकः परेषामुपचारतः’ इति ब्राह्मे ।
‘नामानि सर्वाणि यमाविशन्ति’ इति चोक्तम् ॥ 22 ॥॥ इति आकाशाधिकरणम् ॥

प्राणाधिकरणम्

ओम् अत एव प्राणः ओम् ॥ 01-01-23 ॥


‘‘तद्वैत्वं प्राणो अभवः महान् भोगः प्रजापतेः ।भुजः करिष्यमाणः यद्देवान् प्राणयो न व ॥’(तै.आ.३.१४)

इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् । स च प्राणः प्रसिद्धेर्वायुरित्यापतति । न चैवं यतो विष्णुरेव प्राणः ।

अत एव ‘श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे’(तै.आ.३.१३) इत्यादि तल्लिङ्गादेव ॥ 23 ॥
॥ इति प्राणाधिकरणम् ॥ 9 ॥

ज्योतिरधिकरणम्

ओं ज्योतिश्चरणाभिधानात् ओम् ॥ 24-24 ॥


‘यो वेद निहितं गुहायाम्’(तै.उ.२.१) इत्युक्तम् । तच्च गुहानिहितम् ‘वि मे कर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । विमे मनश्चरति दूर आधीः किं स्विद् वक्ष्यामि किमु नो मनिष्ये’(ऋ.सं.६.९.६) इति ज्योतिरुक्तम् । तच्च ज्योतिरग्निसूक्तत्वात् प्रसिद्धेश्चाग्निरेवेति प्राप्तम् । अत आह –
विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् । स हि ‘परो मात्रया तन्वावृधान’(ऋ.सं.७.९९.१) इत्यादिना कर्णादिविदूरः ॥ 24 ॥॥ इति ज्योतिरधिकरणम् ॥ 10 ॥

गायत्र्यधिकरणम्

ओं छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ओं॥ 01-01-25 ॥


‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’(छा.उ.३.१३.७) इत्युक्तस्य ज्योतिषो ‘गायत्री वा इदं सर्वम्’(छा.उ.३.१२.१) इति गायत्र्या समारम्भः कृतः । तस्मान्न विष्णुरिति चेन्न ।
तथा चेतोऽर्पणार्थं हि निगद्यते । अग्नि गायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते । तथा हि दर्शनं ‘गायति त्रायति च’(छा.उ.३.१२.१) इत्यादि ।
‘सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधोऽह्यसौ(प्यसौ) । सर्वलोकाभिधोऽह्येषः तेषां तदुपचारतः’ इति वामने ॥ 25 ॥
ओं भूतादिपादव्यपदेशोपपत्तेश्चैवम् ओम् ॥ 01-01-26 ॥


‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’(छा.उ.३.१२.६) इति ।
‘सुवर्णं कोशं रजसा परीवृतम् देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां वि चक्षते । पादं षड्ढोतुर्न किलाविवित्से’(तै.आ.३.१.१) इति श्रुतेः पाद इति एकदेशपरिमितं, चतुर्भागबल इतिवद् भिन्नं च शब्दात् ।
स हि पुरुषसूक्ताभिधेयः‘यज्ञेन यज्ञमयजन्त’(तै.आ.३.१२) इति यज्ञशब्दात् ।
‘यज्ञो(वै) विष्णुर्देवता’ इति हि श्रुतिः ।तस्मिन् काले महाराज राम एवाभिधीयते । यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते’।इति च स्कान्दे ॥ 26 ॥
ओम् उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ओम् ॥ 01-01-27॥


‘त्रिपादस्यामृतं दिवि’(छा.उ.३.१२.६) इति पूर्वोपदेशः । ‘परो दिवः’(छा.उ.३.१३.७) इति पञ्चम्यन्तः पश्चिमः । तस्मान्नैकं वस्त्वत्रोच्यत इति चेन्न । त्रिसप्तलोकापेक्षयोभयस्मिन्नप्यविरोधात् ॥ 27 ॥

अन्तिमप्राणाधिकरणम्

ओं प्राणस्तथाऽनुगमात् ओम् ॥ 01-01-28 ॥


प्राणो विष्णुरित्युक्तम् । तत्र‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक् प्राणः’(ऐ.आ.२.१.४) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते(विद्यते) । इन्द्रियैः सहाभिधानादित्यत आह-
‘तं देवाः प्राणयन्त’(ऐ.आ.२.१.५)‘स एषोऽसुः स एष प्राणः’(ऐ.आ.२.१.५) ‘प्राण ऋच इत्येव विद्यात्’(ऐ.आ.२.२.२) ,’तदयं प्राणोऽधिष्ठति’(ऐ.आ.२.३.८) इत्याद्यनुगमादत्रापि प्राणो विष्णुरेव ।
‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते । स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’ इति स्कान्दे । ब्रह्मशब्दानुगमाच्च ॥ 28 ॥
ओं न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ओम् ॥ 01-01-29 ॥


‘प्राणो वा अहमस्म्यृषे’(ऐ.आ.२.२.३) इति वक्तुरात्मोपदेशादिन्द्र एवेति चेन्न । ‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’(ऐ.आ.२.२.३) इति बह्वध्यात्मसम्बन्धो ह्यत्र विद्यते ॥ 29 ॥
ओं शास्त्रदृष्ट्यातूपदेशो वामदेववत् ओम् ॥ 01-01-30 ॥


शास्त्रमन्तर्यामी ‘संविच्छास्त्रं परं पदम्’ इति हि भागवते ।
‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’इति(च) पाद्मे ।
‘अहं मनुरभवं सूर्यश्च’(ऋ.सं.४.२६.१) इत्यादिवत् ॥ 30 ॥
ओं जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ओम् ॥ 01-01-31 ॥


‘तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’(ऐ.आ.२.२.४) इति जीवलिङ्गम् । प्राणसंवादादि मुख्यप्राणलिङ्गम् । तस्मान्नेति चेन्न । अन्तर्बहिः सर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रितत्वाच्च ।
‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’(ऐ.आ.२.४.३)

‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’(ऐ.आ.२.४.३)

‘एतद्धस्म वै तद्विद् विद्वानाह महिदास ऐतरेयः’(ऐ.आ.२.१.८) इत्यादिना ।
‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’ इति ब्रह्माण्डे ।
तत्तदुपासनायोग्यतया च पुरुषाणाम् ।‘केषाञ्चित् सर्वगत्वेन केषाञ्चिद्धृदये हरिः ।केषाञ्चिद्बहिरेवासावुपास्यः पुरुषोत्तमः’ इति ब्राह्मे ॥‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’ इति च ॥ 31 ॥॥ इति पादान्त्यप्राणाधिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥01-01 ॥

द्वितीयः पादः

लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयति अस्मिन् पादे प्राधान्येन । ‘ब्रह्म ततमम्’(ऐ.आ.२.४.३)इति सर्वगतत्वमुक्तं विष्णोः । तच्च‘तस्यैतस्यासावादित्यो रसः’(ऐ.आ.३.२.३) इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।

सर्वगतत्वाधिकरणम्

ओं सर्वत्र प्रसिद्धोपदेशात् ओम् ॥ 01-02-01 ॥


‘स यश्चायमशरीरः प्रज्ञात्मा’(ऐ.आ.३.२.४)इत्यादिना सर्वत्रोच्यमानो नारायण एव । ‘तदेव ब्रह्म परमं कवीनाम्’(म.ना.उ.१.६),‘परमं यो महद्ब्रह्म’(म.भा.१३.२५४.९)(विष्णुसहस्रनाम),‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् ।स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ ॥
इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ 01 ॥
ओं विवक्षितगुणोपपत्तेश्च ओम् ॥ 01-02-02 ॥


‘स योऽतोऽश्रुतः’(ऐ.आ.३.२.४) इत्यादि । स हि‘न ते विष्णो जायमानः’(ऋ.सं.७.९९.२) इत्यादिनाऽश्रुतत्वादिगुणकः(गुणः) ।‘स सविता स वायुः स इन्द्रः सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्तः’ इत्यादि चतुर्वेदशिखायाम् ॥02॥
ओम् अनुपपत्तेस्तुन शारीरः ओम् ॥ 01-02-03 ॥


न चादित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्यम् ।
एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ 03 ॥
ओं कर्मकर्तृव्यपदेशाच्च ओम् ॥ 01-02-04 ॥


‘आत्मानां परस्मै शंसति’(ऐ.आ.३.२.३) इत्यादि ॥04॥
ओं शब्दविशेषात् ओम् ॥ 05-36 ॥


‘एतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३) इति । न हि जीवमेव ब्रह्मेत्याचक्षते ।
‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः’ इति चेन्द्रद्युम्नशाखायाम् ॥ 05 ॥
ओं स्मृतेश्च ओम् ॥ 01-02-06 ॥


‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’(भ.गी.१०.२०),‘गामाविश्य च भूतानि धारयाम्यहमोजसा’(भ.गी.१५.१३) इत्यादि ।
न चाप्रामाणिकं कल्प्यम् ॥ 06 ॥
ओम् अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ओम् ॥01-02-07 ॥


‘सर्वेषु भूतेषु’ इति अल्पौकस्त्वात्, चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न ।
अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात् ।
सर्वगतत्वेऽप्यल्पौकस्त्वं च युज्यते, व्योमवत् ।‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’ इति स्कान्दे ॥ 07 ॥
ओं सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ओम् ॥ 08-39 ॥


॥ इति सर्वगतत्वाधिकरणम् ॥ 01 ॥
‘जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिः ? इति चेन्न । सामर्थ्य वैशेष्यात् ।
उक्तं च गारुडे‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः ।स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति च ॥08॥

अत्तृत्वाधिकरणम्

ओम् अत्ताचराचरग्रहणात् ओम् ॥ 09-40 ॥


‘जन्माद्यस्य यतः’(ब्र.सू.१.१.२) इत्युक्तम् । तत्रात्तृत्वं,‘स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वां वा अत्तीति तददितेरदितित्वम्’(बृ.उ.३.२.५) इत्यदितेः प्रतीयते । ‘स यद्यदेवासृजत’ इति पुल्लिङ्गम् च ‘कूटस्थोऽक्षर उच्यते’(भ.गी.१५.१६)इतिवत् (इत्यादिवत्) । अत्रोच्यते –
न हि चराचरस्य= सर्वस्य अत्तृत्वमदितेः ।
‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु । वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’ इति स्कान्दे ।
‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’ इति श्रुतिः ॥ 09 ॥
ओं प्रकरणाच्च ओम् ॥ 01-02-10 ॥


॥ इति अत्तृत्वाधिकरणम् ॥ 02 ॥
अप्संवत्सरसृष्ट्यादिना तत्प्रकरणाच्च(प्रकरणत्वाच्च) ।

‘नेहाऽसीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।सोऽत्मनो मनसाऽस्राक्षीद् अप एव जनार्दनः’ ॥ शयानस्तासु भगवान् निर्ममेऽण्डं महत्तरम् ।तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ॥

अथ तं(तत्) कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।सोऽसृजद्भुवनं विश्वमद्यार्थं हरये विभुःइति ब्रह्मवैवर्ते ॥ 10 ॥

गुहाधिकरणम्

ओं गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ओम् ॥ 01-02-11 ॥


सर्वात्रैकः परः उक्तः । ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायाऽऽतपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः’ ।(क.उ.१.३.१) इति पिबन्तौ प्रतीयेते, तौ कौ ? इति । उच्यते ।
गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।
‘घर्मा समन्ता त्रिवृतं व्यापतुः तयोर्जुष्टिं मातरिश्वा जगाम’(ऋ.सं.१०.११४.११) इत्यादिना तद्दर्शनात् ।
‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः ।निविष्टो हृदयेनित्यं रसं पिबति कर्मजम्इति बृहत्संहितायाम् ।
‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’इति पाद्मे ॥‘यो वेद निहितं गुहायाम्’(तै.उ.२.१) इत्यादिना प्रसिद्धं ‘हि’शब्देन दर्शयति ॥ 11 ॥
ओं विशेषणाच्च ओम् ॥ 01-02-12 ॥


॥ इति गुहाधिकरणम् ॥ 03 ॥
‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’(क.उ.१.३.२) इति ।
‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत्’ ॥ एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् ।अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’(प्रभुम्) ॥ इति ब्राह्मे ।
न च जीवे समन्वयोऽभिधीयते ।
‘सत्य आत्मा, सत्यो जीवः, सत्यं भिदा सत्यं भिदा सत्यं भिदा, मैवाऽरुवण्यो मैवाऽरुवण्यो मैवाऽरुवण्यः’ इति पैङ्गिश्रुतिः ।‘आत्मा हि परमः स्वतन्त्रोऽधिगुणः, जीवोऽल्पशक्तिरस्वतन्त्रोऽवरः’ इति च भाल्लवेयश्रुतिः ।
‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् ।एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥ ‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् ।तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’इत्यदेर्नासत्यो भेदः ॥ 12 ॥

इत्यन्तराधिकरणम्

ओम् अन्तर उपपत्तेः ओम् ॥ 01-02-13 ॥


‘आदित्ये विष्णुः’ इत्युक्तम् ।‘य एष आदित्ये पुरुषः सोऽहमस्मि, स एवाहमस्मि’(छां.उ.४.११) इत्यादावग्नीनामेवाऽदित्यस्थत्वमुच्यते ।
             अतोऽक्ष्यादित्ययोरैक्याद्,‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’(छां.उ.४.१५) इत्यत्राप्यग्निरेवोच्यते ।
अतः तत् ‘यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवम् एवंविधि पापं कर्म न श्लिष्यते’(छां.उ.४.१४.३) इत्यग्निज्ञानादेव सर्वपापश्लेषात् मोक्षोपपत्तिरिति । अतोऽब्रवीत् (ब्रवीति) –
चक्षुरन्तस्थो विष्णुरेव।‘त्रिपादस्यामृतं दिवि’(ऋ.सं.१०.९०.३)इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।
ब्रह्मशब्दाद्युपपत्तेश्च ।‘सोऽहमस्मि’(छां.उ.४.११.१) इत्यादि त्वन्तर्याम्यपेक्षया ।
‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ इति महाकौर्मे ॥ 13 ॥
ओं स्थानादिव्यपदेशाच्च ओम् ॥ 01-02-14 ॥


‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’(छां.उ.४.१५.१) इत्यादिस्थानशक्तिः, ‘वामनिः, भामनिः’(छां.उ.४.१५.३-४) इत्याद्यात्मशक्तिश्चोच्यते । तस्य ह्येत्यल्लिङ्गम् ।
‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’ इति चतुर्वेदशिखायाम् ।
‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः । स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’ इति वामने ॥ 14 ॥
ओं सुखविशिष्टाभिधानादेव च ओम् ॥ 01-02-15 ॥


‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’(छां.उ.४.१०.५) इति,‘विज्ञानमानन्दं ब्रह्म’(बृ.उ.५.९.२८)‘आनन्दो ब्रह्मेति व्यजानात्’(तै.उ.३.६) इत्यादेस्तस्यैव हि लक्षणम् ।
‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।अव्यक्तादितृणान्तास्तु विप्लु(विपृ)डानन्दभागिनः’ इति ब्रह्मवैवर्ते ॥
न च मुख्ये सति अमुख्यं युज्यते ॥ 15 ॥
ओं श्रुतोपनिषत्कगत्यभिधानाच्च ओम् ॥ 01-02-16 ॥


‘स एनान् ब्रह्म गमयति’(छां.उ.४.१५.५) इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥
ओम् अनवस्थितेरसम्भवाच्च नेतरः ओम् ॥ 01-02-17॥


॥ इत्यन्तराधिकरणम् ॥
जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात्(नियमे प्रमाणाभावात्) । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥

इत्यन्तर्याम्यधिकरणम्

ओम् अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ओम् ॥ 01-02-18 ॥


‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’(बृ.उ.५.७.३) इत्यादिना अन्तर्याम्युच्यते ।
             तत्र च ‘एतदमृतम्’(छां.उ.४.१५.१) इत्युक्तममृतत्वमुच्यते । स च ‘यस्य पृथिवी शरीरम्’ इत्यादिना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो वा युक्तः ।
न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियते ? इत्यत आह –
‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तरः’(बृ.उ.५.७.३), इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी ।
स हि‘न ते विष्णो चायमानो न जातः’(ऋ.सं.७.९९.२) ‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतामन्तरपुरुष’(ऐ.आ.३.२.४) इत्यादिनाऽविदितोऽन्तरश्च ॥ 18 ॥
ओं न च स्मार्तमतद्धर्माभिलापात् ओम् ॥ 01-02-19 ॥


त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि ॥19॥
ओं शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ओम् ॥ 01-02-20 ॥


॥ इत्यन्तर्याम्यधिकरणम् ॥ 05 ॥
‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्माशरीरं य आत्मानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं’(बृ.उ.५.७.२२)इत्युभयेऽपि हि शाखिनो भेदेन एनं (जीवं)अधीयते ।
‘शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत्’ ॥इति वचनान्न शरीरत्वविरोधः ॥20॥

अदृश्यत्वाधिकरणम्

ओम् अदृश्यत्वादिगुणको धर्मोक्तेः ओम् ॥ 01-02-21 ॥


अदृश्यत्वादिगुणा विष्णोरुक्ताः । तत्र –
             ‘यत्तदद्रेश्यम्, अग्राह्यम्, अगोत्रम्, अवर्णम्, अचक्षुःश्रोत्रं, तद् अपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’(मु.उ.१.१.६)इत्युक्त्वा, अतोऽब्रवीत्(ब्रवीति)-
‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’(मु.उ.१.१.७) इत्युक्त्वा तस्माच्च ‘अक्षरात्परतः परः’(मु.उ.२.१.२) इति परः प्रतीयत इत्यतोऽब्रवीत्-
पृथिव्यादि दृष्टान्तमुक्त्वा‘अक्षरात् सम्भवतीह विश्वम्’(मु.उ.१.१.७) इत्यतः परं तत्परतः पराभिधानात्,‘कूटस्थोऽक्षर उच्यते’(भ.गी.१५.१६) इति स्मृतेश्च प्रकृतेः प्राप्तिः ।
ब्रह्मशब्दात् तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य ।
‘तमेवं विद्वानमृत इह भवति’(तै.आ.३.१२.७) ।
‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’(भाग.४.२९.४९)
‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च। तत्र यो वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’(मु.उ.१.१.४-५)इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्विष्णुरेवादृश्यत्वादि गुणकः ॥ 21 ॥
ओं विशेषणभेदव्यपदेशाभ्यां नेतरौ ओम् ॥ 01-02-22 ॥


‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप’(मु.उ.१.१.९) इति विशेषणान्न प्रकृतिः । ‘तस्मादेतत्ब्रह्म नाम रूपमन्नं च जायते’(मु.उ.१.१.९) इति भेदव्यपदेशान्न विरिञ्चः ।
‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥तामक्षरं परं प्राहुः परतः परमक्षरम् । हरिमैवाखिलगुणमक्षरत्रयमीरितम्’॥इति स्कान्दे त्र्यक्षराभिधानात् ‘अक्षरात् परतः परः’(मु.उ.२.१.२) इत्यपि विशेषणमेव ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’(मु.उ.३.१.२)इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ 22 ॥
ओं रूपोपन्यासाच्च ओम् ॥ 01-02-23 ॥


॥ इति अदृश्यत्वाधिकरणम् ॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मु.उ.३.१.३) इति
“एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः” इति ।
तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्य(व्य)चीक्लृपत् । विमिश्राणि व्यमिश्रयत् । अत एतादृगेतद्रूपम् इति तस्यैव हि रूपाण्यभिधीयन्ते ॥ 32 ॥

वैश्वानराधिकरणम्

ओं वैश्वानरः साधारणशब्दविशेषात् ओम् ॥ 01-02-24॥


अदृश्यत्वादिगुणेषु सर्वगतत्वं ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’(छां.उ.५.१८.१) इति वैश्वानरस्योक्तमित्यत आह –
अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ 24 ॥
ओं स्मर्यमाणमनुमानं स्यादिति ओम् ॥01-02-25॥


‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’(भ.गी.१५.१४)
इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । ‘इति’शब्दः समाख्याप्रदर्शकः ॥ 25 ॥
ओं शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ओम् ॥ 26-57 ॥


‘अयमग्निर्वैश्वानरः’(बृ.उ.७.९.१)‘वैश्वानरमृत आजातमग्निम्’(ऋ.सं.६.७.१) इत्यादिशब्दः ।
‘वैश्वानरे तद्धुतं भवति’(छां.उ.५.२४.४)‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’(छां.उ.५.१८.२) इत्याद्यग्निलिङ्गमादिशब्दोक्तम्।
‘येनेदमन्नं पच्यते’(बृ.उ.७.९.१)‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’(छां.उ.५.१९.१) इत्यादिना पाचकत्वेनान्तः प्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न ।
‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीत’ इति । ‘सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप’ इति। ‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषुवेदेषु कामचारो भवति’ इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि ॥

‘अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः ।अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’॥

इत्यादिना ‘को न आत्मा, किं ब्रह्म’(छां.उ.५.११.१) इत्यारम्भाच्च अन्येषामसम्भवाद्विष्णुरेव वैश्वानरः ।
‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’(तै.आ.३.१२,ऋ.सं.१०.९०.१३) इत्यादिना यः पुरुषाख्यो विष्णुरभहितस्तद्विधमेवात्र ‘मूर्धैव सुतेजाः, चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’(छां.उ.५.१८.२)इत्यादिनैनं वैश्वानरमधीयते । ‘च’शब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति । तथा च ब्राह्मे – ‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’ इति ॥
चतुर्वेदशिखायां च‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’(ऋ.सं.१०.९०.१) इति ।‘एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्त गुणोऽनन्तरूपः’ इति । बृहत्संहितायां च-‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ इत्यादि ॥
‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः ।तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम् ॥’इति नारदीयवचनात् नाभेदोक्तिविरोधः ॥ 26 ॥
ओम् अत एव न देवता भूतं च ओम् ॥ 01-02-27॥


अग्निवैश्वानरादिशब्दस्तेजसि भूते अग्निदेवतायां च प्रसिद्धोऽपि अतः= पूर्वोक्तहेतुत एव अत्र न सा तच्चाभिधीयते ॥ 27 ॥
ओं साक्षादप्यविरोधं जैमिनिः ओम् ॥ 01-02-28 ॥


नाग्न्यादयः शब्दा अग्न्यादिवाचकास्तथापि साक्षादेवानन्ययोगेन ब्रह्मवाचकैः व्यवहारार्थमनभिज्ञानाच्चान्यत्र व्यवहारन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति ।
‘व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् ।अन्ये व्यवहरन्त्येतान्यूरीकृत्य गृहादिवत्’ ॥इति स्कान्दवचनान्न मतानां परस्परविरोधः ॥ 28 ॥
ओम् अभिव्यक्तेरित्याश्मरथ्यः ओम् ॥ 01-02-29 ॥


तत्र तत्र प्रसिद्धावप्यग्न्यादिषु ब्रह्मणोऽभिव्यक्तेरग्न्यादिसूक्तनियम इत्याश्मरथ्यः ॥ 29 ॥
ओम् अनुस्मृतेर्बादरिः ओम् ॥ 01-02-30 ॥


तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात् तन्नियमः इति बादरिः ॥ 30 ॥
ओं सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ओम् ॥ 01-02-31 ॥


साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियममग्न्यादि सम्प्राप्त्या मन्यते-‘तं यथा यथोपासते तदेव भवति’(शत. ब्रा.१०.५.२.२०) इति दर्शयति ॥ 31 ॥
ओम् आमनन्ति चैनमस्मिन् ओम् ॥ 01-02-32 ॥


न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह
॥ इति वैश्वानराधिकरणम् ॥ 07 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥ 01-02 ॥
एनं= विष्णुम् अस्मिन्= अग्न्यादौ आमनन्ति ।‘योऽग्नौ तिष्ठन्’(बृ.उ.५.७.५),‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः’ इत्यादिना ॥ 32 ॥

तृतीयः पादः

द्युभ्वाधिकरणम्

ओं द्युभ्वाद्यायतनं स्वशब्दात् ओम् ॥ 01-03-01 ॥


तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन् पादे दर्शयति । विष्णोः परविद्याविषयत्वमुक्तम् । तत्र ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्चसर्वैस्तमेवैकं जानथ आत्मानम्’(मुण्डक.उ.२.२.५) इत्यत्र, ‘प्राणानां ग्रन्थिरसि रुद्रोऽमाऽऽविशान्तकः’(महाना.उ.३५) ‘प्राणेश्वरः कृत्तिवासाः पिनाकी’(बोधायनगृह्यसूत्रं) इत्यादिना रुद्रस्य प्राणाधारत्वप्रतीतेः, ‘स एषोऽन्तरश्चरते बहुधा जायमानः’(मुण्डक.उ.२.२.६) इति जीवलिङ्गाच्च तयोः प्राप्तिरित्यत उच्यते –
‘तमेवैकं जानथ आत्मानम्’(मुण्डक.उ.२.२.५)इत्यात्मशब्दात् द्युभ्वाद्यायतनं(श्रयो) विष्णुरेव ।
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।न सम्भवन्ति यस्मात् तैर्नैवाप्तागुणपूर्णता’ इति ब्रह्मवैवर्ते ॥ 1 ॥
ओं मुक्तोपसृप्यव्यपदेशात् ओम् ॥ 01-03-02 ॥


‘अमृतस्यैष सेतुः’(मुण्डक.उ.२.२.५) इति ‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१),‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’(महाना.उ.११) ,‘मुक्तानां परमा गतिः’(मभा.१२.२५४.१७(विष्णुसहस्रनाम.१७)) ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’(तै.उ. २.८) इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।
‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।योगी तावन्न मुक्तः स्यादेष शास्त्रनिर्णयः॥’ इत्यादित्यपुराणे ॥ 2 ॥
ओं नानुमानमतच्छब्दात् ओम् ॥ 01-03-03-66 ॥


न अनुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् ।
‘सोऽन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो हरिर्योऽनन्तो यो विष्णुर्यः परः परोवरीयान्’ इत्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् ।
ब्रह्माण्डे च- ‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।ईशानादेव चेशानो महैदेवो महत्त्वतः ॥पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् ।तदाधारो यतो विष्णुः पिनाकीति ततः (स्मृ)श्रुतः॥शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।बृंहणाद्ब्रह्मनामाऽसौ ऐश्वर्यादिन्द्र उच्यते ॥एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः ।वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।
वामने च –‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । अन्यनाम्नां गतिर्विष्णुः एक एव प्रकीर्तितः॥’ इति ॥
स्कान्दे च – ‘ऋते नारायणादीनि नामानि पुरुषोत्तमः ।प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्॥’इति ।
‘चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति ।उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।विशेषनामानि ददौ स्वकीयान्यपि केशवः॥’ इति च ब्राह्मे ॥ 3 ॥
ओं प्राणभृच्च ओम् ॥ 01-03-04 ॥


एतैरेव हेतुभिः न जीवो वायुश्च । ‘अजायमानो बहुधा विजायत’(तै.आ.३.१३.१) इति तस्यैव बहुधा जन्मोक्तेः ॥ 04॥
ओं भेदव्यपदेशात् ओम् ॥ 01-03-05 ॥


न चैक्यं वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमीशम् अस्य महिमानम्’(मुण्डक.३.१.२) इति भेदव्यपदेशात् ॥ 05 ॥
(69)ओं प्रकरणात् ओम् ॥ 01-03-06 ॥


‘द्वे विद्ये वेदितव्ये’(मुण्डक.१.१.४) इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
(70)ओं स्थित्यदनाभ्यां च ओम् ॥ 01-03-07 ॥


‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।तयोरन्यः पिप्पलं स्वादु अत्ति अनश्ननन्यो अभिचाकशीति’(मुण्डक.३.१.१) इति ईश-जीवयोः स्थिति-अदनोक्तेः ॥ 07 ॥

भूमाधिकरणम्

(71)ओं भूमा सम्प्रसादादध्युपदेशात् ओम् ॥ 01-03-08 ॥


‘प्राणो व अशाया भूयान्’ इत्युक्त्वा ‘यो वै भूमा तत्सुखम्’(छां.उ.७.१३.१) इत्युक्तेः तस्यैव भूमत्वप्राप्तिः । ‘उत्क्रान्तप्राणान्’(छां.उ.७.१५.३) इत्यादिलिङ्गात् प्राणशब्दश्च वायुवाचीति अत उच्यते –
सम्प्रसादात्= पूर्णसुखरूपत्वात् । अध्युपदेशात्= सर्वेशामुपर्युपदेशाच्च विष्णुरेव भूमा ।
‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।विश्वं नारायणं देवमक्षरं परमं पदम् ॥विश्वतः परमां नित्यम्’(महाना.उ.११) इति श्रुतिः
‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’(बृ.उ.६.४.२) इत्यादिना न उत्क्रमणादिलिङ्गविरोधोऽपि ॥08॥
(72)ओं धर्मोपपत्तेश्च ओम् ॥ 01-03-09 ॥


सर्वगतत्वादिधर्मोपपतेश्च ॥09॥

अक्षराधिकरणम्

(73)ओम् अक्षरमम्बरान्तधृतेः ओम् ॥ 01-03-10॥


अदृश्यत्वादिगुणा विष्णोरुक्ताः ‘अदृष्टं द्रष्ट्रश्रुतं श्रोतृ’(बृ.उ.५.८.११) इत्यादिना, ‘अहं सोममाहनसं भिभर्मि’(ऋ.सं.१०.१२५.२) इत्यादेश्च तस्यापि सम्भवान् मध्यमाक्षरस्योक्ता इति अतो ब्रूते –
‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ.उ.५.८.११) इत्यम्बरान्तस्य सर्वस्य धृतेः ब्रह्मैवाक्षरम् ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’(ऋ.सं.१.१५४.४), ‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’(तै.आ.३.१४) । ‘यस्मिन्निदं सं च वि चैधि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’(महा.ना.१.२) इत्यादि श्रुतेः ।
‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ॥’ इति च स्कान्दे ॥ 10 ॥
(74)ओं सा च प्रशासनात् ओम् ॥ 01-03-11 ॥


सा च धृतिः प्रशासनादुच्यते- ‘एतस्य वा अक्षरस्य प्रशासने गार्गी! सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’(बृ.उ.५.८.९) इत्यादिना । तच्च प्रशासनं विष्णोरेव ।
‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ (ऋ.सं.१.१६४.३६)। ‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’(ऋ.सं.१.१५५.६) इत्यादिश्रुतेः ।
‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’(म.भा.१४.२७.२,स्कान्द.१.४२.१७१)। ‘यो हृच्छयः तम् अहमिह ब्रवीमि’() ‘न केवलं मे भवतश्च राजन् स वै बलं बलीनां चापरेषाम्’(भाग.७.८.८)इत्यादेश्च ॥ 11 ॥
(75)ओम् अन्यभावव्यावृत्तेश्च ओम् ॥ 01-03-12 ॥


‘अस्थूलमनणु’(बृ.उ.५.८.८) इत्यादिना स्थूलाण्वादीनाम् अन्यवस्तुस्वभावानां व्यावृत्तेश्च।
‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको योऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’ इत्यादेर्विष्णोरेव ते धर्माः ।
‘अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।विरुद्धर्मरूपोऽसौ ऐश्वर्यात् पुरुषोत्तमः॥’ इति च ब्राह्मे ॥ 12 ॥

सदधिकरणम्

(76)ओम् ईक्षतिकर्मव्यपदेशात् सः ओम् ॥ 01-03-13 ॥


‘सदेव सोम्येदमग्र आसीत्’(छां.उ.६.२.१) इत्यादिना सतः स्रष्टृत्वमुच्यते ।
             तच्च सत् ‘बहुस्यां प्रजायेय’(छां.उ.६.२.३) इति परिणामप्रतीतेर्न विष्णुः ।
स हि ‘अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः’ इत्यादिनाऽविकारः प्रसिद्धः इति। अतोऽब्रवीति-
‘तदैक्षत’ इति ईक्षतिकर्मव्यपदेशात् स एव विष्णुरत्रोच्यते ।
‘नान्योऽतोऽस्ति द्रष्टा’(बृ.उ.५.७.२३),‘नान्यदतोऽस्ति द्रष्ट्रु’(बृ.उ.५.८.११) इत्यादिना तस्यै व हि तल्लक्षणम् ।
बहुत्वं चानिकारेणैवोक्तम्-‘अजायमानो बहुधा विजायत’(तै.आ.३.१३.१) इति ॥13॥

दहराधिकरणम्

(77)ओं दहर उत्तरेभ्यः ओम् ॥ 01-03-14 ॥


चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च ‘एस्मिन् ब्रह्म पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’,‘किं तदत्र विद्यते.....’(छां.उ.८.१.२), ‘उभे अस्मिन् द्यावा पृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि’(छां.उ.८.१.३) इत्यादिनाऽऽकाशस्य प्रतीयते । स चाकाशो न विष्णुः । ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’(महा.ना.उ.११) इति श्रुतेरित्यत आह-
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः, सत्यसङ्कल्पः, सोऽन्वेष्टव्य स विजिज्ञासितव्यः’(छां.उ.८.७.३) इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरे विष्णुरेव ।
‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’(बृ.उ.५.५), ‘स एष सर्वेभ्यः पाप्मभ्य उदितः’(छां.उ.१.६.७) इत्यादिना विष्णोरेव हि ते गुणाः ।
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।अशनायादिकानन्ये तत्प्रसादात् तरन्ति हि॥’ इति पाद्मे ।
सापेक्षनिरपेक्षयोश्च, निरपेक्षं स्वीकर्तव्यम् ॥
‘सत्यकामोऽअपरो नास्ति तमृते विष्णुमव्ययम् । सत्यकामत्वमन्येषां भवेत् तत्काम्यकामिता॥’ इति च स्कान्दे ॥ 14 ॥
(78)ओं गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ओम् ॥ 01-03-15 ॥


‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’(छां.उ.८.३.२) इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते ।
‘सता सोम्य तदा सम्पन्नो भवति’(छां.उ.६.७.१) इति श्रुतेः तं हि सुप्तो गच्छति । ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’(छां.उ.८.५.३) इति लिङ्गं च तथा दृष्टम् ।
‘अरश्च वै ण्यश्च सासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥ 15 ॥
(79)ओं धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ओम् ॥ 16 ॥


‘एष सेतुर्विधृतिः’(छां.उ.८.४.१) इति धृतेः। ‘एष भूताधिपतिरेण भूतपालः’(बृ.उ.६.४.२१) इत्याद्यस्य महिम्नोऽस्मिन्नुपलब्धेः ।
‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’(बृ.उ.५.८.११), ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’(बृ.उ.५.८.९)
‘स हि सर्वाधिपतिः स हि सर्वकालः स ईशः स विष्णुः’,‘पतिं विश्वस्यात्मेश्वरम्’(महाना.उ.११) इत्यादिश्रुतिभ्यस्तस्य ह्येष महिमा ।
‘सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः’ इति च स्कान्दे ॥16॥
(80)ओं प्रसिद्धेश्च ओम् ॥ 01-03-17 ॥


‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तुदुपासितव्यम्’(महाना.उ.१०.७) इति प्रसिद्धेश्च ।
तदन्तस्थापेक्षत्वान्न सुषिरश्रुतिविरोधः ॥17॥
(81)ओम् इतरपरामर्शात् स इति चेन्नासम्भवात् ओम् ॥ 01-03-18 ॥


‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’(छां.उ.८.१२.३), ‘एष आत्मेति होवाच’(छां.उ.४.१५.१) इति जीवपरामर्शात् स इति चेत्,
न। तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ 18 ॥
(82)ओम् उत्तराच्चेदाविर्भूतस्वरूपस्तु ओम् ॥ 01-03-19 ॥


‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’(छां.उ.८.१२.३) इत्यादुत्तरवचनाज्जीव एवेति चेत्? न । तत्र हि परमेश्वरप्रसादाद् आविर्भूतस्वरूपो मुक्त उच्यते।
यत्प्रसादात् स मुक्तो भवति स भगवान् पूर्वोक्तः॥19 ॥
(83)ओम् अन्यार्थश्च परामर्शः ओम् ॥ 01-03-20 ॥


‘यं प्राप्य स्वेन रूपेण जीवोऽ(भि)निष्पद्यते स एष आत्मा’ इति परमात्मार्थश्च परामर्शः ॥ 20 ॥
(84)ओम् अल्पश्रुतेरिति चेत् तदुक्तम् ओम् ॥ 01-03-21॥


‘दहरः’(छां.उ.८.१.१) इत्यल्पश्रुतेर्न? इति चेत्- न । ‘..निचाय्यत्वादेवं व्योमवच्च’(ब्र.सू.१.२.७) इत्युक्व्तात् ।
‘एष म आत्माऽन्तर्हृदये ज्यायन्’(छां.उ.३.१४.३) इति श्रुत्युक्तत्वाच्च ॥ 21 ॥

अनुकृत्यधिकरणम्

(85)ओम् अनुकृतेस्तस्य च ओम् ॥ 01-03-22 ॥


अदृश्यत्वादयः परमेश्वरगुणा उक्ताः । ‘तेषां सुखं शाश्वतं नेतरेषाम्’, ‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद् विजानीयाम्.....’(क.उ.५.१२,१४) इत्यादिना ज्ञानिसुखस्याप्यनिर्देश्यत्वम्, अज्ञेयत्वं चोच्यते ? इत्यतो वक्ति-
‘तमेव भान्तमनुभाति सर्वम्’(क.उ.५.१५(२.२.१५)) इत्यनुकृतेः,
‘तस्य भासा सर्वमिदं विभाति’(क.उ.५.१५(२.२.१५)) इति वचनाच्च परमात्मैवानिर्देश्यसुखरूपः ।
न हि ज्ञानिसुखमनुभाति सर्वम् । न च तद्भासा । ‘अहं तत् तेजो रश्मीत्’(चतुर्वेदशिखा) इति नारायणभासा हि सर्वं भाति ॥ 22 ॥
(86)ओम् अपि स्मर्यते ओम् ॥ 01-03-23 ॥


॥ इति अनुकृत्यधिकरणम् ॥ 06 ॥
‘यदादित्यगतं तेजो जगद् भासयतेऽखिलम् ।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’(भ.गी.१५.१२) इति
‘न तद् भासयते सूर्यो न शशाङ्को न पावकः।यद् गत्वा न निवर्तन्ते तद्धाम परमं मम’(भ.गी.१५.६) इति च ॥ 23 ॥

वामनाधिकरणम्

(87)ओं शब्दादेव प्रमितः ओम् ॥ 01-03-24 ॥


‘विष्णुरेव जिज्ञास्यः’() इत्युक्तम् । तत्र-
             ‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।  मध्ये वामनमासीनं विश्वेदेवा उपासते’(क.उ.५.६)
इति सर्वदेवोपास्यः कश्चित् प्रतीयते । स च ‘एवमेवैष प्राण इतरान् प्राणान् पृथगेव सन्निधत्ते’(प्रश्न.उ.३.४), ‘योऽयं मध्यमः प्राणः’(बृ.उ.३.५.२१),‘कुविदङ्ग’(ऋ.सं.७.९१.१) इत्यादिना प्राणव्यवस्थापकत्वात्, मध्यमत्वात्, सर्वदेवोपास्यत्वाच्च वायुरेवेति प्रतीयते । अतोऽब्रवीत् ॥
वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।
‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णयः’॥ इति स्कान्दे ॥
तच्चलिङ्गं विष्णोरेव। तस्मैव प्राणत्वोक्तेः ‘तद्वैत्वं त्वं प्राणो अभवः’() इति ॥ 24 ॥
(88)ओं हृद्यपेक्षया तु मनुष्याधिकारत्वात् ओम् ॥ 01-03-25 ॥


॥ इति वामनाधिकरणम् ॥ 07 ॥
सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया युज्यते । इतरप्राणिनामङ्गुष्ठाभावेऽपि मनुष्याधिकारत्वान्न विरोधः ॥ 25 ॥

देवताधिकरणम्

(89)ओं तदुपर्यपि बादरायणः सम्भवात् ओम् ॥ 01-03-26 ॥


मनुष्याणामेव वेदविद्यायाम् अधिकार इत्युक्तम् । तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं, न तु देवाद्यपेक्षयेत्याह-
तदुपरि- मनुष्याणां सतां देवादित्वप्राप्त्युपरि । सम्भवति हि । तेषां विशिष्टबुद्ध्यादिभावात् ।
तिर्यगादीनां तदभावादभावः ।
तेषामपि यत्र विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेदभावात् । दृश्यन्ते हि जरितार्यादयः ॥ 26 ॥
(90)ओं विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ओं॥ 01-03-27 ॥


‘मनुष्या एव देवादयो भवन्ति’() इति ‘तदुपरि’ इत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावात् देवतोद्दिष्टकर्मणि विरोध इति चेत् न । अनेकेषां देवतापदप्राप्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः’(तै.आ.३.१२) इति ॥27॥
(91)ओं शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ओम् ॥ 01-03-28 ॥


‘वाचा विरूप नित्यया’(ऋ.स.८.७५.६)) इत्यादिश्रुतेराप्त्यनिश्चयात्, नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य स्वतः प्रामाण्यप्रसिद्धेश्च नित्यत्वाद् वेदस्य तदुदितानां देवानामनित्यत्वात् पुनरन्यभावनियमाभावाच्च शब्दे विरोधः ? इति चेत् न ।
‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’(म.ना.उ.५.७)इति ।‘यथैव नियमः काले सुरादिनियमस्तथा ।तस्मान्नानीदृशं क्वापि विश्वमेतद्भविष्यति’ ॥इत्यादे अत एव शब्दात् तेषां प्रभवनियमात् ।
महतां प्रत्यक्षात् । यथेदानीं तथोपर्यपि देवा भविष्यन्ति इति इतरेषामनुमानाच्च ॥ 28 ॥
(92)ओं अत एव च नित्यत्वम् ओम् ॥ 01-03-29 ॥


अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ॥ 29 ॥
(93)ओं समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ओम् ॥ 01-03-30 ॥


अतीतानागतानां देवानां समाननामरूपत्वात् प्राप्तपदानां मुक्त्याऽवृत्तावप्यविरोधः । ‘यथापूर्वम्’(म.ना.उ.५.७) इति दर्शनात् ।‘अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा ।ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’() इति स्मृतेश्च ॥30॥
(94)ओं मध्वादिष्वसम्भवादनधिकारं जैमिनिः ओम् ॥ 01-03-31॥


‘वसूनामेवैको भूत्वा’(छां.उ.३.६.३) इत्यादिना प्राप्यफलत्वात् प्राप्तपदानां देवानां मध्वादिविद्यास्वनधिकारं जैमिनिर्मन्यते ॥ 31 ॥
(95)ओं ज्योतिषि भावाच्च ओम् ॥ 01-03-32॥


ज्योतिषि= सर्वज्ञत्वे भावाच्च। आदित्यप्रकाशेऽन्तर्भाववत् तज्ज्ञाने सर्ववस्तूनामान्तर्भावात् । नित्यसिद्धत्वाच्च विद्यानाम् ॥ 32 ॥
(96)ओं भावं तु बादरायणोऽस्ति हि ओम् ॥01-03-33॥


॥इति देवताधिकरणम् ॥ 08 ॥
फलविशेषभावात् प्राप्तपदानामपि देवानां मध्वादिष्वप्यधिकारं बादरायणो मन्यते । अस्ति हि प्रकाशविशेषः ।
‘यावत्सेवा परे तत्वे तावत्सुखविशेषता ।सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ॥तेषां सामर्थ्ययोगाच्च देवानामप्युपासनम्। सर्वं विधीयते नित्यं सर्वयज्ञादिकर्म च’ इति स्कान्दे ॥
उक्तफलानधिकारमात्रं जैमिनिमतम् । अतो न मतविरोधः ।
‘सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् ।स्वीकृत्य मुनयो ब्रूयुस्तन्मतं न विरुध्यते’ इति च ब्राह्मे ॥ 33 ॥

अपशूद्राधिकरणम्

(97)ओं शुगस्य तदनादरश्रवणात् तदाऽऽद्रवणात् सूच्यते हि ओम् ॥01-03-34॥


‘मनुष्याधिकारत्वात्’ इत्युक्तेऽविशेषात् शूद्रस्यापि ‘अह हारे त्वा शूद्र’(छां.उ.४.२.३) इति पौत्रायणोक्तेरधिकार इत्यत आह –
नासौ पौत्रायणः शूद्रः ।
शुचाऽऽद्रवणमेव शूद्रत्वम् (शूद्रशब्देनोक्तम्)।
‘कम्वर एनमेतत्सन्तम्’(छां.उ.४.१.३) इत्यनादरश्रवणात् ।
‘स ह सञ्जिहान एव क्षत्तारमुवाच’(छां.उ.४.१.५) इति सूच्यते हि ॥ 34 ॥
(98)ओं क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ओम् ॥ 01-03-35 ॥


‘अयमश्वतरीरथः’() इति चित्ररथसम्बन्दित्वेन लिङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च ।
‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते’() इति ब्राह्मे ।
‘यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः’() इति च ब्रह्मवैवर्ते ॥ 35 ॥
(99)ओं संस्कारपरामर्शात् तदभावाभिलापाच्च ओम् ॥ 01-03-36 ॥


‘अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत’() इत्यद्ययनार्थं संस्कारपरामर्शात् । ‘नाग्निर्न यज्ञो न क्रीया न संस्कारो न व्रतानि शूद्रस्य’() इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च ।
उत्तमस्त्रीणां तु न शूद्रवत् । ‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् ।
संस्काराभावेनाभावस्तु सामान्येन ।
अस्ति च तासां संस्कारः ।‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा’()इति ॥ 36 ॥
(100)ओं तदभावनिर्धारणे च प्रवृत्तेः ओम् ॥ 01-03-37 ॥


‘नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि’(छां.उ.४.४.४) इति सत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य‘नैतदब्राह्मणो विवक्तुमर्हति’(छां.उ.४.४.५) इति तत्संस्कारे प्रवृत्तेश्च ॥ 37 ॥
(101)ओं श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ओम् ॥ 01-03-38 ॥


इति अपशूद्राधिकरणम् ॥ 09 ॥
‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम्, अध्ययने जिह्वाच्छेदः, अर्थावधारणे हृदयविदारणम्’(गौ.ध.१२.४.७) इति प्रतिषेधात् ।
‘नाग्निर्न यज्ञः शूद्रस्य तथैवाद्ययनं कुतः ।केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते’ इति स्मृतेश्च ।
विदुरादीनां तूत्पन्नज्ञानत्वात् कश्चिद्विशेषः ॥ 38 ॥

कम्पनाधिकरणं

(102)ओं कम्पनात् ओम् ॥ 01-03-39 ॥


‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’() इत्युद्यतवज्रज्ञानान्मोक्षः प्रतीयते । इत्यतोऽब्रवीत्-
इति कम्पनाधिकरणं ॥ 10 ॥
‘एजति’() इति कम्पनवचनादुद्यतवज्रो भगवानेव ।
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’() इति हि श्रुतिः ।
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’() इति च‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः । किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः’ इति हि स्कान्दे ॥
‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्र उच्यते ।खण्डनात् खड्ग एवैष हेतिनामा स्वयं हरिः’इति ब्रह्मवैवर्ते ॥ 39 ॥

ज्योतिरधिकरणं

(103)ओं ज्योतिर्दर्शनात् ओम् ॥ 01-03-40 ॥


हृदय आहितं ज्योतिः परमात्मेत्युक्तम् । तत्र ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’(शत.ब्रा.१४.७.१.७) इत्यत्र ‘उभौ लोकावनुसञ्चरति’(शत.ब्रा.१४.७.१.७) इति वचनाज्जीव इति प्रतीयत इत्यत उच्यते –
इति ज्योतिरधिकरणं ॥ 11 ॥
‘विष्णुरेव ज्योतिः विष्णुरेव ब्रह्म विष्णुरेवात्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवानन्दः’() इति दर्शनात् चतुर्वेदशिखायां ज्योतिर्विष्णुरेव ।’
‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति वचनात् तस्यापि लोकसञ्चरणमस्त्येव ॥ 40 ॥

आकाशाधिकरणम्

(104)ओम् आकाशोऽर्थान्तरत्वादिव्यपदेशात् ओम् ॥ 01-03-41 ॥


सर्वाधारत्वम् विष्णोरुक्तम् । तच्च ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’(छां.उ.८.१४.१) इत्यत्राकाशस्य प्रतीयते । वै नामेति प्रसिद्धोपदेशात् । प्रसिद्धाकाशश्चाङ्गीकर्तव्य इत्यत उच्यते –
इति आकाशाधिकरणम् ॥ 12 ॥
‘ते यदन्तरा तद्ब्रह्म’(छां.उ.८.१४.१) इत्यर्थान्तरत्वादिव्यपदेशाद् आकाशो हरिरेव।
‘अवर्णं’(), ‘यतो वाचो निवर्तन्ते’(तै.आ.८.४) इत्यादिश्रुतेस्तस्यैव हि तत् लक्षणम्।
‘अनामा सोऽप्रसिद्धत्वाद् अरूपो भूतवर्जनात्’() इति ब्राह्मे ॥ 41 ॥

सुषुप्त्यधिकरणम्

(105)ओं सुषुप्त्युत्क्रान्त्योर्भेदेन ओम् ॥ 01-03-42 ॥


असङ्गत्वं परमात्मन उक्तम् । तच्च ‘स यत् तत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’() इति स्वप्नादिद्रष्टुः प्रतीयते । स च जीवः प्रसिद्धेरित्यतो वक्ति –
‘प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरम्’, ‘प्राज्ञेनाऽत्मनाऽन्वारूढ उत्सर्जद् याति’(बृ.उ.६.३.३६) इति भेदव्यपदेशान्न जीवः, पर एवासङ्गः । स्वप्नादिद्रष्ट्रुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ॥ 42 ॥

ब्राह्मणाधिकरणम्

(106)ओं पत्यादिशब्देभ्यः ओम् ॥ 01-03-43 ॥


‘एष नित्यो महिमा ब्राह्मणस्य’(बृ.उ.६.४.२२)) इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते ।
             स च ब्राह्मणः ‘स वा एष महानज आत्मा’(शत.ब्रा.१४.७.२.२९) इत्यजशब्दाद्विरिञ्च इति प्राप्तम् ।
देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता ‘तदुपर्यपि’(ब्र.सू.१.३.२८) इति । अतो ब्रवीति –
‘सर्वस्याधिपतिः सर्वस्येशानः’(), ‘स वा एष नेति नेति’() इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ।
‘उतामृतत्वस्येशानः । यदन्नेनादतिरोहति’(तै.आ.३.१२),‘सप्तार्धगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’(ऋ.सं.१.१६४.३६),‘स योऽतोऽश्रुतः’(ऐ.आ.३.२.४) इत्यादि श्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ 43 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥ 01-03 ॥

चतुर्थः पादः

आनुमानिकाधिकरणम्

(107)ओम् आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ओम् ॥ 01-04-01 ॥


॥ श्रुतिलिङ्गादिभिः अन्यत्रैव प्रसिद्धनामापि शब्दानां सामस्त्येन विशेषहेतुभिः विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन् पादे ।
‘तत्तु समन्वयात्’(ब्र.सू.१.१.४) इति सर्वशब्दानां परमेश्वरे समन्वय उक्तः । तन्न युज्यते । यतो ‘अव्यक्तात् पुरुषः परः’(क.उ.१.३.११) इति साङ्ख्यानुमानपरिकल्पितं प्रधानमपि एकेषां शाखिनामुच्यते, इति चेत्
न, तस्यैव पारतन्त्र्यात् शरीररूपेऽव्यक्ते विन्यस्तस्य परमात्मन एवाव्यक्तशब्देन गृहीतेः । ‘क’ प्रत्ययः कुत्सने । परमात्मन एवाव्यक्तशब्दः । तत्तन्त्रत्वेन तच्छरीररूपत्वाद् इतरस्यापि अव्यक्तशब्दः ।
‘तुच्छेनाभ्वपिहितं यदासीत्’(ऋ.सं.१०.१२९.३) इति दर्शयति च ।
‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् । यो वेद हरिमात्मानं स भयादनुमुच्यते’॥इति पिप्पलादशाखायाम्।
‘अक्षरं ब्रह्म परमम्’ इत्युक्त्वा ‘अव्यक्तोऽक्षर इत्युक्तः’(‘उच्यते’)(भ.गी.८.२१) इति वचनाच्च ॥ 01 ॥
(108)ओं सूक्ष्मं तु तदर्हत्वात् ओम् ॥ 01-04-02 ॥


सूक्ष्ममेव चाव्यक्तशब्देनोच्यते । तद् हि अव्यक्तताम् अर्हति । सूक्ष्मत्वं च मुख्यं तस्यैव ।
‘यत्तत् सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।यत्तल्लोका न विदुर्लोकसारं विन्दन्त्येतत् कवयो योगनिष्ठाः’॥इति च पिप्पलादशाखायाम् ।
मुख्ये च विद्यमाने नामुख्यं युक्तम् ॥ 02 ॥
(109)ओं तदधीनत्वादर्थवत् ओम् ॥ 01-04-03 ॥


तददीनत्वाच्च अव्यक्तादीनां तस्यैव अव्यक्तत्वपरावरत्वादिकम् अर्थवत् ।
‘यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते । यथा जीवः परात्मेति यथा राजा जयीत्यपि’ इति च स्कान्दे ॥ 03 ॥
(110)ओं ज्ञेयत्वावचनाच्च ओम् ॥ 01-04-04 ॥


अन्यस्य न वाच्यत्वं युज्यते ॥ 04 ॥
(111)ओं वदतीती चेन्न प्राज्ञो हि ओम् ॥ 01-04-05 ॥


‘महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’(क.उ.१.३.१५) इति ज्ञेयत्वं वदतीती चेत्, न । प्राज्ञः परमात्मा हि तत्रोच्यते ।
‘अणोरणीयान् महतो महीयान्’(क.उ.१.२.२०) इति तस्य महतो महत्त्वम् । सर्वस्मात् परस्य महतोऽपि परत्वं युज्यते ॥ 05 ॥
(112)ओं प्रकरणात् ओम् ॥ 01-04-06 ॥


‘सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम्’(क.उ.१.३.९) इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
(113)ओं त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ओम् ॥ 01-04-07 ॥


त्रयाणामेव पितृसौमनस्य-स्वर्ग्याग्नि-परमात्मनां प्रश्न उपन्यासश्च ।
‘अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते’(न्यायकोशः) इति वचनान्न विरोधः ॥ 07 ॥
(114)ओं महद्वच्च ओम् ॥ 01-04-08 ॥


यथा महच्छब्दो महत्तत्वे प्रसिद्धोऽपि, परममहत्त्वात् परमात्मन एव मुख्यः, एवमितरेऽपि ॥ 08 ॥
(115)ओं चमसवदविशेषात् ओम् ॥ 01-04-09 ॥


॥ इति अनुमानिकाधिकरणम् ॥ 01 ॥
यथा चमसशब्दोऽन्यत्र प्रसिद्धोऽपि ‘इदं तच्छिर एष हि अर्वाग्बिलः चमस ऊर्ध्वबुध्नः’(बृ.उ.४.२.३) इति श्रुतेः शिरोवाचकः, एवम् अव्यक्तादिशब्दाः सर्वेऽन्यत्र प्रसिद्धा अपि
‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’(भाल्लवेयश्रुतिः)इत्यादि श्रुतेः परमात्माभिधायका एव, अविशेषात् श्रुतेः ॥ 09 ॥

ज्योतिरुपक्रमाधिकरणम्

(116)ओं ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ओं॥ 01-04-10 ॥


‘वसन्ते वसन्ते ज्योतिषा यजेत’(आप.श्रौ.सू.२०.२.५) इत्यादि कर्माभिधायकस्य कर्मक्रमादि विरोधात् न युज्यते ? इत्यत आह –
ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोऽपि स एव । ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रम्य ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्’(ऐ.आ.२.२.२)इति ह्यधीयते एके ॥ 10 ॥
(117)ओं कल्पनोपदेशाच्च मध्वादिवदविरोधः ओम् ॥ 01-04-11 ॥


मधुविद्यादिवत् सर्वशब्दार्थत्वेन परस्य कल्पनोपदेशात् न कर्मक्रमादिविरोधः ॥ 11 ॥

नसङ्ख्योपसङ्ग्रहाधिकरणम्

(118)ओं न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ओं॥ 01-01-12 ॥


‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः’(बृ.उ.६.४.१७) इत्यादिषु बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोधः । तस्यैव आकाशादिषु नानाभावात्, तदतिरिक्तस्वरूपत्वाच्च ॥12॥
(119)ओं प्राणादयो वाक्यशेषात् ओम् ॥ 01-04-13 ॥


पञ्च पञ्चजनानाह –
‘प्राणस्य प्राणम्, उत चक्षुषः चक्षुः, उत श्रोत्रस्य श्रोत्रम्, अन्नस्य अन्नं, मनसो मनः’(बृ.उ.६.४.१८) इति वाक्यशेषात् ॥ 13 ॥
(120)ओं ज्योतिषैकेषामसत्यन्ने ओम् ॥ 01-04-14 ॥


॥ इति नसङ्ख्योपसङ्ग्रहाधिकरणम् ॥ 03 ॥
‘तद् देवा ज्योतिषां ज्योतिः’(बृ.उ.६.४.१६,काण्वपाठः) इत्यनेन काण्वानां पञ्चत्वम् । । 14 ॥

आकाशाधिकरणम्

(121)ओं कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ओम् ॥ 01-04-15 ॥


अवान्तरकारणत्वेनापि स एवोच्यत इति वक्ति-
॥ इति आकाशाधिकरणम् ॥ 04 ॥
आकाशादिषु अवान्तरकारणत्वेन स एव स्थितः । यथाव्यपदिष्टस्यैव परस्य ‘य आकाशे तिष्ठन्’(बृ.उ.५.७.१२) इत्यादिना आकाशादिषूक्तेः ॥ 15 ॥

समाकर्षाधिकरणम्

(122)ओं समाकर्षात् ओम् ॥ 01-04-16 ॥


सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहारः ? इत्यतो ब्रवीति-
परमात्मवाचिनः शब्दा अन्यत्र समाकृष्य व्यवह्रियन्ते ।
‘परस्य वाचकाः शब्दा समाकृष्येतरेष्वपि ।व्यवह्रियन्ते सततं लोकवेदानुसारतः’ इति पाद्मे ॥ 16 ॥
(123)ओं जगद्वाचित्वात् ओम् ॥ 01-04-17 ॥


तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः ?-
जगति व्यवहारो लोकस्य, न तु परमात्मनि तथा । अतो जगति प्रसिद्धिः शब्दानाम् ॥ 17 ॥
ओं जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ओम् ॥ 18-124 ॥


‘तदधीनत्वात् तच्छब्दवाच्यत्वम्’() इत्युक्तम् । तद् जीवमुख्यप्राणयोर्लिङ्गम् ।‘अस्य यदैकां शाखां जीवो जहाति अथ सा शुष्यति’(छां.उ.६.११.२), ‘वायुना हि लोका नेनीयन्ते’() इत्यादि श्रुतिभ्य इति चेत् ? न, ‘उपासात्रैविध्यात्’(ब्र.सू.१.१.३१) इति व्याख्यातत्वात् ॥ 18 ॥
(125)ओं अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ओम् ॥ 01-04-19 ॥


परमात्मज्ञानार्थं कर्मादिकमपि वदन्तीति जैमिनिः ।
‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ? इति । तस्म्यै स होवाच द्वे विद्ये वेदितव्ये’(मुण्डक.उ.१.१३.४),‘कथं नु भगवः स आदेशो भवति ? इति । यथा सौम्य एकेन मृत्पिण्डेन’(छां.उ.६.१.३,४) इत्यादि प्रश्नव्याख्यानाभ्याम् ।
एवमपि चैके पठन्ति ‘यस्तन्न वेद किमृचा करिष्यति’(ऋ.सं.१.१६४.३९) इति ॥ 19 ॥
(126)ओं वाक्यान्वयात् ओम् ॥ 01-04-20 ॥


वाक्यस्याप्येवमन्वयो युज्यते, पृथक्पृथक् स्थितस्यापि परमात्मना ॥ 20 ॥
ओं प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ओम् ॥ 21-127 ॥


‘नान्यः पन्था अयनाय विद्यते’ इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यत इत्याश्मरथ्यः । यस्मादेवमनित्यफलमन्यत् तस्मान्नान्यः पन्था इति ॥ 21 ॥
(128)ओं उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ओम् ॥ 01-04-22 ॥


‘उत्क्रमिष्यतो मुमुक्षोः कर्मादिना भाव्यं साधनसाधनत्वेन । अतस्तद् वक्ति’() इत्यौडुलोमिर्मन्यते ॥ 22 ॥
(129)ओम् अवस्थितेरिति काशकृत्स्नः ओम् ॥ 01-04-23 ॥


॥ इति समाकर्षाधिकरणम् ॥ 05 ॥
‘सर्वं परमात्मन्यवस्थितम्’() इति वक्तुं तद्वचनमिति काशकृत्स्नः ।
‘कृष्णद्द्वैपायनमताद् एकदेशविदः परे ।वदन्त्येते यथाप्रज्ञं न विरोधः कथञ्चन’ इति पाद्मे ॥ 23 ॥

प्रकृत्यधिकरणम्

(130)ओं प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ओम् ॥ 01-04-24 ॥


स्त्रीशब्दा अपि तस्मिन्नेवेत्याह-
‘हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति । यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्ति, एवमेवैतानि नामानि सर्वाणि पुरुषमभिविशन्ति’()इति प्रतिज्ञा-दृष्टान्तानुपरोधात् प्रकृतिशब्दवाच्योऽपि स एव ॥ 24 ॥
(131)ओम् अभिध्योपदेशाच्च ओम् ॥ 01-04-25 ॥


‘मायां तु प्रकृतिं विद्यात्, मायिनं तु महेश्वरम्’(श्वे.उ.४.१०)। ‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’ ॥
इति वचनात् तदभिध्यैव प्रकृतिशब्देनोच्यते ।
‘सोऽभिध्या स जूतिः स प्रज्ञा स आनन्दः’() इति श्रुतेरभिध्या च स्वरूपमेव ।
‘ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च ।परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते’ इति ब्रह्माण्डे ॥ 25 ॥
ओं साक्षाच्चोभयाम्नानात् ओम् ॥ 26-132 ॥


‘एष स्त्र्येष पुरुष एष प्रकृतिरेष आत्मैष ब्रह्मैष लोक एष अलोको योऽसौ हरिरादिरनादिरनन्तोऽन्तः परमः पराद्विश्वरूपः’
इति पैङ्गिश्रुतौ साक्षादेव प्रकृतिपुरुषत्वाम्नानात् ॥ 26 ॥
(133)ओम् आत्मकृतेः परिणामात् ओम् ॥ 01-04-27 ॥


‘प्रकर्षेण करोतीति प्रकृतिः’() इति योगाच्च । प्रकृतौ अनुप्रविश्य, तां परिणाम्य, तत्परिणामेषु स्थित्वा, आत्मनो बहुधाकरणात् ।
‘अथ हैष आत्मा प्रकृतिमनुप्रविश्याऽत्मानं बहुधा चकार, तस्मात् प्रकृतिस्तस्मात् प्रकृतिरित्याचक्षते’() इति भाल्लवेयश्रुतिः ।
‘अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् । अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते’ इति नारदीये ।
नचान्यत् कल्प्यम्, अप्रामाणिकत्वात् ॥ 27 ॥
(134)ओं योनिश्च हि गीयते ओम् ॥ 01-04-28 ॥


॥इति प्रकृत्यधिकरणम् ॥ 06 ॥
अव्यवधानेन उत्पत्तिद्वारत्वं प्रकृतित्वम् । तच्चास्यैव हि गीयते-
‘यद् भूतयोनिं परिपश्यन्ति धीराः’(मुं.उ.१.१.६) इति ।
‘व्यवधानेन सूतिस्तु पुंस्त्वम् विद्वद्भिरुच्यते ।सूतिरव्यवधानेन स्त्रीत्वमाहुर्मनीषिणः ।उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् ।प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते’॥ इति ब्रह्माण्डे ॥ 28 ॥

सर्वेव्याख्याताधिकरणम्

(135)ओम् एतेन सर्वे व्याख्याता व्याख्याताः ओम् ॥ 01-04-29 ॥


एतेन सर्वेव्याख्याताधिकरणम् ॥
॥ इति श्री मद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य चतुर्थपादः ॥01-04 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायः (समन्वयाध्यायः) ॥ 01 ॥
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः ।
‘एष ह्येव शून्यः, एष ह्येव तुच्छः, एष ह्येवाभावः, एष ह्येवाव्यक्तः, अदृश्यः, अचिन्त्यः, निर्गुणश्च’इति महोपनिषदि।
‘शमूनं कुरुते विष्णुः अदृश्यः सन् परः स्वयम् ।तस्माच्छून्यमिति प्रोक्तः तोदनात् तुच्छ उच्यते ॥नैष भावयितं योग्यः केनचित् पुरुषोत्तमः ।अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥सर्वस्य तदधीनत्वात् तत्तच्छब्दाभिधेयता ।अन्येषां व्यवहारार्थम् इष्यते व्यवहर्तृभिः’इति महाकौर्मे।
एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
‘अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’इति वाराहे ॥ 29 ॥

(अविरोधाध्यायः) द्वितीयोऽध्यायः॥

प्रथमः पादः

स्मृत्यधिकरणम्

(136)ओं स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ओं॥ 02-01-01 ॥


उक्तेऽर्थेऽविरोधं दर्शयति अनेनाध्यायेन । प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति-

सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामाण्यमेव स्यात् ? इति चेत्, न। अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वर्ज्ञैरेव कृतत्वात्; श्रुतेराधिक्यं च सिद्ध्यति॥ 01 ॥
(137)ओम् इतरेषां चानुपलब्धेः ओम् ॥ 02-01-02 ॥


इतरेषां च तासु स्मृतिषूक्तानां फलानां, प्रत्यक्षतोऽनुपलब्धेः अप्रमाण्यं तासां युक्तम् । ‘च’शब्देन भागोपलब्धिरङ्गीकृता ॥ 02 ॥
(138)ओम् एतेन योगः प्रत्युक्तः ओम् ॥ 02-01-03 ॥


योगफलं प्रत्यक्षोपलभ्यम् इति न मन्तव्यम् । उक्ताभ्यासे तत्काल एव फलादृष्टेः ॥ 03 ॥

नविलक्षणत्वाधिकरणं

(139)ओं न विलक्षणत्वादस्य तथात्वं च शब्दात् ओम् ॥ 02-01-04 ॥


नैवं श्रुतेः तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेः अप्रामाण्यम् । विलक्षणत्वात्, नित्यत्वात्, तदनुसारित्वाच्च ।
न हि नित्ये दोषाः कल्प्याः ।
स्वतश्च प्रमाण्यम् । अन्यथाऽनवस्थितेः ।
‘न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदा ह्येवैनं वेदयन्ति’ इति भाल्लवेयश्रुतेश्च ।
नित्यत्वं च शब्दादेव प्रतीयते ‘वाचा विरूप नित्यया’(ऋ.सं.८.६४.६) इत्यादेः ।‘अनादिनिधना नित्या’(म.भा.१२.२३८.९३) इति च स्मृतिः ॥ 04 ॥
(140)ओं दृश्यते तु ओम् ॥ 02-01-05 ॥


अधिकारिणां फलम् ।
‘ऋग्यजुः सामाथर्वाश्च मूलरामायणं तथा।भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥पुराणानि च यानीह वैष्णवानि विदो विदुः ।स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद् विचार्यते ॥यत् तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् ।नाप्रामाण्यं भवेदेषां दृश्यते ह्यधिकारतः॥इतः प्रामाण्यमन्येषां न स्वतस्तु कथञ्चन ।अदृश्योक्तौ ततस्तेषामप्रमाण्यं न संशयः’ इति ॥ 05 ॥

अभिमान्यधिकरणम्

(141)ओम् अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओम् ॥ 02-01-06 ॥


‘मृदब्रवीत्’(श.ब्रा.६.१.३),‘आपोऽब्रुवन्’(श.ब्रा.६.१.३), इत्यादिवचनाद् युक्तिविरुद्धो वेद इति । अतोऽब्रवीत्-
मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥ 06 ॥
(142)ओं दृश्यते च ओम् ॥ 02-01-07 ॥


तासां सामर्थ्यं महद्भिः ।
‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः।अचिन्त्याः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ।ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः’ इति ॥ 07 ॥

असदधिकरणम्

(143)ओम् असदिति चेन्न प्रतिषेधमात्रत्वात् ओम् ॥ 02-01-08 ॥


‘असदेवेदमग्र आसीत्’(छां.उ.६.२.१)‘असतः सदजायत’(ऋ.सं.१०.७२.३) इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति-
प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिद्यते ।
सर्वशब्दानां ब्रह्मणि समन्वयेऽपि ‘तदधीनत्वाद् अर्थवत्’(ब्र.सू.१.४.३) इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेन अङ्गीकाराद् असतः प्राप्तिः।
तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते । समयस्योपरि निषेधात् । अर्थाद् युक्तिविरोधोऽपि निराक्रियते ॥ 08 ॥
(144)ओम् अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ओम् ॥ 02-01-09 ॥


असत उत्पत्तौ प्रलयेऽपि सर्वासत्त्वमेव स्यात् ॥ 09 ॥
(145)ओं न तु दृष्टान्तभावात् ओम् ॥ 02-01-10 ॥


प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते।
सत उत्पत्तिः सशेषविनाशश्च हि लोके दृष्टः॥10 ॥
(146)ओं स्वपक्षदोषाच्च ओम् ॥ 02-01-11 ॥


दृष्टान्ताभावादेव ॥ 11 ॥
(147)ओं तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ओं॥ 02-01-12 ॥


एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावाद् उक्तादन्यथाऽप्यनुमेयमिति चेत्,
न । एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथाऽनुमेयत्वादनिर्मोक्षप्रसङ्गः ।
अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यम् । नातोऽन्यच्छङ्क्यम् ।
‘यावदेव प्रमाणेन सिद्धं तावदहापयन् । स्वीकुर्यान्नैव चान्यत्र शङ्क्यं मानमृते क्वचित्’ इति वामने ॥ 12 ॥
(148)ओम् एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ओम् ॥ 02-01-13 ॥


एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयोऽपि ।
‘अकस्माद्धीदमाविरासीदकस्मात् तिष्ठत्यकस्माल्लयमभ्युपैति’,‘प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति ।प्रधाने लयमभ्येति न ह्यन्यत् कारणं मतम्’॥‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः ।जीवे तु लयमृच्छन्ति न जीवात् कारणं परम्’ ॥इत्यादिश्रुतिप्राप्ता निराकृताः ।
यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । यत्रान्यवाचकत्वेऽप्यविरोधस्तत्रान्यदप्यमुख्यतयोच्यते, यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति नियमः ॥ 13 ॥

भोक्त्रधिकरणम्

(149)ओं भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ओम् ॥ 02-01-14 ॥


‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’(मुं.उ.३.२.७) इति मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव न हन्यस्यान्यत्वं युज्यत इति चेत्, न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । तथा च श्रुतिः-
‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’(क.उ.४.१५) इति ।
स्कान्दे च –
‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् ।न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥एवमेव हि जीवोऽपि तादात्म्यं परमात्मना ।प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात्’ इति ।‘ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते ।तद् यत्स्वभावः कैवल्यं स भवान् केवलोहरे’ इति च ।
‘न ते महित्वमन्वश्नुवन्ति’(ऋ.सं.७.९९.१),‘न ते विष्णो जायमानो न जातः’(ऋ.७.११.२)इत्यादि च फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम् ॥ 14 ॥

आरम्भणाधिकरणम्

(150)ओं तदनन्यत्वमारम्भणशब्दादिभ्यः ओम् ॥ 02-01-15 ॥


स्वतन्त्रबहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः ।
‘किं स्विदासीदधिष्ठानमारम्भणं कतमत् स्वित् कथाऽऽसीत्’(ऋ.सं.१०.८१.२) इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।
‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्ष्यते ।साधनानां साधनत्वं यतः किं तस्य साधनैः’() इत्यादिभिः ॥ 15 ॥
(151)ओं भावे चोपलब्धेः ओम् ॥ 02-01-16 ॥


स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत ।
‘अनुक्तं पञ्चभिर्वैदैर्न वस्त्वस्ति कुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः’ इति स्कान्दे ॥ 16 ॥
(152)ओं सत्वाच्चावरस्य ओम् ॥ 02-01-17 ॥


‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च’(तै.आ.३.१६) इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह-
अवरस्य तदधीनस्य साधनस्य सत्त्वात् ।
‘काल आसीत् पुरुष आसीत् परम आसीत् तद् यदासीत् तदावृतमासीत् तदधीनमासीदथ ह्येक एव परम आसीद् यस्यैतदासीन्न ह्येतदासीत्’() इति हि काषायणश्रुतिः ॥ 17 ॥
(153)ओम् असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ओम् ॥ 02-01-18॥


‘नासदासीन्नो सदासीत्’(ऋ.सं.१०.१२९.१) इति सर्वस्यासत्त्वव्यपदेशान्नेति चेत्, न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।‘तम आसीत्’(ऋ.सं.१०.१२९.३) इति वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति ।
‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’(महा.ना.उ.१०.५)। ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति ।न चान्यथा क्वाऽपि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्’(),‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’(भ.गी.१६.८),‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुःपरां हि’।
‘यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’(),‘अथ हैनमाहुः सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते। अथैनमार्हुनित्यकर्मेति नित्यं ह्येवासौ कुरुते’()।
‘यच्चिकेत सत्यमित्तन्न मोघम्’(ऋ.सं.१०.५५.६) इत्यादि श्रुतिस्मृतिभ्यः ।
‘परस्परविरोधे तु वाक्यानां यत्र युक्तता।तथैवार्थः परिज्ञेयो नावाक्या युक्तिरिष्यते’()॥इति बृहत्संहितायाम् ।
‘विरुद्धवत् प्रीतीयन्त आगमा यत्र वै मिथः ।तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ ॥ इति च ।
‘ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।इत्यादिवद् विरुद्धानि वचनान्यथ युक्तयः ।प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः’॥ इति भागवततन्त्रे ।
‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः’इति पुरुषोत्तमतन्त्रे॥ 18 ॥
(154)ओं युक्तेः शब्दान्तराच्च ओम् ॥ 02-01-19 ॥


‘साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते ।तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’(),इत्यादेः साधनान्तरेण सृष्टिर्युक्ता ।
‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’(महा.ना.उ.१.१२) इत्यादिशब्दान्तराच्च ॥ 19 ॥
(155)ओं पटवच्च ओम् ॥ 02-01-20॥


साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ 20 ॥
(156)ओं यथा प्राणादिः ओम् ॥ 02-01-21॥


तच्च साधनजातां तेनानुप्रविष्टमेव । यथा शरीरेन्द्रियादिः।
‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः ।क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः’ इति कौर्मे ॥ 21 ॥

इतरव्यपदेशाधिकरणम्

(157)ओम् इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ओम् ॥ 02-01-22॥


जीवकर्तृपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते-
जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ॥ 22 ॥
(158)ओम् अधिकं तु भेदनिर्देशात् ओम् ॥ 02-01-23 ॥


न च ब्रह्मणः श्रमचिन्तादिदोषप्राप्तिः ।अधिकशक्तित्वात् ।
‘श्रोता मन्ता द्रष्टाऽऽदेष्टाऽघोष्टा विज्ञाता सर्वेषां भूतानामन्तरपुरुषः’(ऐ.आ.३.२.४),‘एष त आत्मा सर्वान्तरः’(बृ.उ.५.५.२),‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’(बृ.उ.५.५.१), इत्यादिविशेषनिर्देशात् ॥ 23 ॥
(159)ओम् अश्मादिवच्च तदनुपपत्तिः ओम् ॥ 02-01-24 ॥


चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानुपपत्तिर्जीवस्य।
‘यथा धारुमयीं योषां नरः स्थिरसमाहितः।इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’ इति भारते ॥ 24 ॥
(160)ओम् उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ओम् ॥ 02-01-25 ॥


जीवेन कार्योपसंहारदर्शनात् तस्य कर्तृत्वमिति चेत्, न । यथा क्षीरं गोषु दृश्यमानमपि प्राणादेव जायते-
‘अन्नं रसादिरूपेण प्राणः परिणयत्यसौ’() इति वचनात्, एवं जीवे दृश्यमानोऽपि कार्योपसंहारोऽस्वातन्त्र्यात् परकृत एव ।
‘य आत्मानमन्तरो यमयति’(),‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः’() इत्यादेः ॥ 25 ॥
(161)ओं देवादिवदपि लोके ओम् ॥ 02-01-26 ॥


न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवद् अदृश्यत्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी शक्तिर्दृष्टा किम्वीश्वरस्य ।
‘न युक्तियोगाद् वाक्यानि निराकार्याण्यपि क्वचित् ।विरोध एव वाक्यानां युक्तयो न तु युक्तयः’इति बृहत्संहितायाम् ॥ 26 ॥
(162)ओं कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ओम् ॥ 02-01-27 ॥


अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिः स्यात् । न च तद्युज्यते । सामर्थ्यैकदेशदर्शनात् । न चैकदेशेन निरवयवत्वात् ।
‘अथ यः स जीवः स नित्यो निरवयवो ज्ञात्वाऽज्ञाता सुखी दुःखी शरीरेन्द्रियस्थः’() इति भाल्लवेयश्रुतिः ।
न चोपाधिकृतोंऽशः । अंश उपहित इति द्वित्वापेक्षत्वात् न चान्यत् कल्प्यम् ।‘यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि’()। इति गत्यन्तरोक्तेः ॥ 27 ॥

शब्दमूलत्वाधिकरणं

(163)ओं श्रुतेस्तु शब्दमूलत्वात् ओम् ॥ 02-01-28 ॥


न चेश्वरपक्षेऽयं विरोधः-
‘योऽसौ विरुद्धोऽविरुद्धो मनुरमनुरवाग् वागिन्द्रोऽनिन्द्रः प्रवृत्तिरप्रवृत्तिः स परः परमात्मा’() इति पैङ्ग्यादिश्रुतेरेव ।
शब्दमूलत्वाच्च न युक्तिविरोधः-
‘यद्वाक्योक्तं न तद्युक्तिः विरोद्धुं शक्नुयात् क्वचित् । विरोधे वाक्ययोः क्वापि किञ्चित् साहाय्यकारणम्’()॥इति पुरुषोत्तमतन्त्रे ॥ 28 ॥
(164)ओम् आत्मनि चैवं विचित्राश्च हि ओम् ॥ 02-01-29 ॥


परमात्मनो विचित्राश्च शक्तयः सन्ति । नान्येषाम् ।
‘विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः’॥इति श्वेताश्वतरश्रुतिः ॥ 29 ॥
(165)ओं स्वपक्षदोषाच्च ओम् ॥ 02-01-30 ॥


‘ये दोषा इतरत्रापि ते गुणाः परमे मताः ।न दोषः परमे कश्चिद् गुणा एव निरन्तराः’()इति वचनाज्जीवपक्ष एव दोषो न परपक्षे ।
‘अथ यः सदोषः साञ्जनः सजनिः स जीवोऽथ यः स निर्दोषो निष्कलः सगुणः परः परमात्मा’इति काषायणश्रुतिः ॥ 30 ॥
(166)ओं सर्वोपेता च तद्दर्शनात् ओम् ॥ 02-01-31 ॥


‘सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् ।नित्यानन्दा नित्यरूपाऽजरा च या शाश्वताऽत्मेति च यां वदन्ति’इति चतुर्वेदशिखायाम् ॥
अतो न केवलं विचित्रशक्तिः । किन्तु सर्वशक्तिरेव ॥ 31 ॥
(167)ओं विकरणत्वान्नेति चेत् तदुक्तम् ओम् ॥ 02-01-32 ॥


न च करणाभावादनुपपत्तिरिति युक्तम् ।
‘अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः।स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’(श्वे.उ.३.१९)।
‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’(श्वे.उ.६.८)इत्यादि श्रतिभ्यः
‘सर्वोपेता च’(ब्र.सू.२.१.३१) इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्का ॥ 32 ॥

नप्रयोजनत्वाधिकरणम्

(168)ओं न प्रयोजनवत्त्वात् ओम् ॥ 02-01-33 ॥


यत् प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वान्नपूर्णतेत्यत आह –
‘अथैष एव परम आनन्दः’(बृ.उ.६.३.३३) इत्यादिना कृतकृत्यत्वान्न प्रयोजनाय सृष्टिः किन्तु ?
(169)ओं लोकवत्तु लीलाकैवल्यम् ओम् ॥ 02-01-34 ॥


यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिलीला, न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य ।
‘सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु ।कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः ।मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः’() इति ॥
‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’(मां.उ.२.१) इति च श्रुतिः ॥ 34 ॥

वैषम्यनैर्घृण्याधिकरणम्

(170)ओं वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ओम् ॥ 02-01-35॥


सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति-
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’(प्र.३.७) इति हि श्रुतिः ॥ 35 ॥
(171)ओं न कर्माविभागादिति चेन्नानादित्वात् ओम् ॥ 02-01-36 ॥


यदपेक्षयाऽसौ फलं ददाति न तत् कर्म ।
‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषते’(कौ.३.८) इति श्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेन्न, तस्यापि पूर्वकर्म कारणमित्यनादित्वात् कर्मणः ।
भविष्यत्पुराणे च – ‘पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा ।अनादित्वात् कर्मणश्च न विरोधः कथञ्चन’() इति ॥ 36 ॥
(172)ओम् उपपद्यते चाप्युपलभ्यते च ओं॥ 02-01-37 ॥


न च कर्मापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् ।
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । न च पुनर्वैषम्याद्यापेतेन दोषः । तादृशवैषम्यादेरुपलभ्यमानत्वात्-
‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशिताऽपि ।ईशो यत्रो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्रजानाम्’() ॥इति चतुर्वेदशिखायाम् ॥ 37 ॥

सर्वधर्मोपपत्त्यधिकरणम्

(173)ओं सर्वधर्मोपपत्तेश्च ओम् ॥ 02-01-38 ॥


अवशिष्टैरुपसंहरति-
‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।’()इति सर्वगुणोपपत्तिश्रुतेश्च ॥ 38 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥ 02-01 ॥

द्वितीयः पादः

‘इतरेषां चानुपलब्धेः’(ब्र.सू.२.१.२) इति सामान्यनिराकरणं समयानां कृतम्। विशेषतो निराकरोत्यस्मिन् पादे ।

अचेतनप्रवृत्तिमतं प्रथमतो निराकरोति –

रचनानुपपत्त्यधिकरणम्

(174)ओं रचनानुपपत्तेश्च नानुमानम् ओम् ॥ 02-02-01 ॥


अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेः नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । चशब्देन प्रमाणाभावं दर्शयति ॥ 01 ॥
(175)ओं प्रवृत्तेश्च ओम् ॥ 02-02-02 ॥


चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ 02 ॥
(176)ओं पयोऽम्बुवच्चेत् तत्रापि ओम् ॥ 02-02-03॥


पयोऽम्बुवद् अचेतनस्यापि प्रवृत्तिर्युज्यते ? इति न युक्तम् ।
‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते याश्च श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां य दिशमनु’(बृ.उ.५.८.१),‘एतेन ह वाव पयो मण्डं भवति’() इत्यादिना तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥ 03 ॥
(177)ओं व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ओम् ॥ 02-02-04 ॥


‘न ऋते त्वत्क्रियते किञ्चनारे’(ऋ.सं.१०.११३.९) इति तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेरनपेक्षितमेवाचेतनवादिमतम् ॥ 04 ॥

अन्यत्राभावाधिकरणम्

(178)ओम् अन्यत्राभावाच्च न तृणादिवत् ओं॥ 02-02-05 ॥


सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव पर्जन्यानुगृहीतं तृणादिकम् उत्पद्यते, एवं प्रधानाद् ईश्वरानुगृहीतं जगदित्यतो ब्रवीति-
‘यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’(नारायणसूक्तम्.५)
‘ब्रह्मण्येव इदम् आविरासीद्, ब्रह्मणि स्थितं, ब्रह्मणि ब्रह्मन् लयमभ्युपैति’,ब्रह्मैवाधस्ताद्, ब्रह्मैवोपरिष्ठाद् ब्रह्ममध्यतो ब्रह्म सर्वतः’() ॥
‘ब्रह्मैवेदं सर्वम्’(बृ.उ.४.५.१) इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावात् तृणादीनां पर्जन्यवत् नानुग्राहकत्वमात्रमीश्वरस्य ।
‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत्’इति भागवते ।चशब्देन प्रकृतिस्तादिप्रदत्वं चाङ्गीकृतम् ॥

अभ्युपगमाधिकरणम्

(179)ओम् अभ्युपगमेऽप्यर्थाभावात् ओम् ॥ 02-02-06 ॥


लोकायतिकपक्षं निराकरोति-
यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किं प्रयोजनम् ? अतः स्वव्याहतेरेवोपेक्ष्यः ॥ 06 ॥

पुरुषाश्माधिकरणम्

(180)ओं पुरुषाश्मवदिति चेत् तथाऽपि ओम् ॥ 02-02-07 ॥


पुरुषोपसर्जनप्रकृतिकर्तृत्ववादमपाकरोति –
यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्छति । एवमचेतनाऽपि प्रकृतिः पुरषसम्बन्धात् प्रवर्तत इति चेत्, न । ‘न ऋते त्वत्क्रियते’(ऋ.सं.१०.११३.९) इति तत्रापि तथात्वे दृष्टान्ताभावात् ॥ 07 ॥
(181)ओम् अङ्गित्वानुपपतेः ओम् ॥ 02-02-08 ॥


शरीरप्रवृत्तौ पुरषस्याङ्गित्वात्-
‘अङ्गमङ्गी समादाय यथा कार्यं करोत्यसौ’(स्मृतिः) इत्यङ्गित्वव्यवहारोऽनुपपन्नः ॥ 08 ॥

अन्यथानुमित्यधिकरणम्

(182)ओम् अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ओम् ॥ 02-02-09 ॥


प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोति –
शरीरसम्बन्धात् पुरुषः प्रवर्तत इत्यङ्गीकारेऽपि स्वतस्तस्यासामर्थ्याच्छरीरसम्बन्ध एवायुक्तः ॥ 09 ॥
(183)ओं विप्रतिषेधाच्चासमञ्जसम् ओम् ॥ 02-02-10 ॥


सकलश्रुतिस्मृतियुक्तिविरुद्धत्वाच्चानीश्वरमतम् असमञ्जसम् ।
‘श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् ।वदन्ति तद्विरुद्धं यो वदेत् तस्मान्न चाधमः’() इति पाद्मे ॥ 10 ॥

वैशेषिकाधिकरणम्

(184)ओं महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ओम् ॥ 02-02-11॥


परमाण्वारम्भवादमपाकरोति –
महत्त्वाद् दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वात् पारिमण्डल्याच्चोत्पद्येत । वाशब्दादन्यथैतयोरपि न स्यात् । विशेषकारणाभावात् ॥ 11 ॥
(185)ओम् उभयथाऽपि न कर्मातस्तदभावः ओम् ॥ 02-02-12॥


ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावान्नेदानीमपि(तत्) स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभावात् तत्कार्याभावः । वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वम् उपपद्यते । स्वत एव काले(विभेदा) विशेषाङ्गीकृतेश्च ॥ 12 ॥
(186)ओं समवायाभ्युपगमाच्च साम्यादनवस्थितेः ओम् ॥ 02-02-13॥


कार्यकारणादीनां समवायसम्बन्धाङ्गीकारात् तस्य च भिन्नत्वसाम्यात् समवायान्तरापेक्षायाम् अनवस्थितेः(तिः)।
न च तत् प्रमाणम् । प्रथमसम्बन्धासिद्धैव च तदसिद्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ 13 ॥
(187)ओं नित्यमेव च भावात् ओम् ॥ 02-02-14 ॥


नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनित्वाङ्गीकारात् नित्यमेव कार्यं स्यात् । अन्यथा न कदाचित् ॥ 14 ॥
(188)ओं रूपादिमत्त्वाच्चविपर्ययो दर्शनात् ओम् ॥ 02-02-15॥


रूपादिमत्त्वाच्च परमाणूनामनित्यत्वम् । तथा दृष्टत्वाल्लोके ॥ 15 ॥
(189)ओम् उभयथा च दोषात् ओम् ॥ 02-02-16 ॥


नित्यत्वे परमाणूनां तद्वत् सर्वनित्यत्वं स्यात् । विशेषप्रमाणाभावात् । अनित्यत्वे कारणाभावात् तदुत्पत्त्यभावः ॥ 16 ॥
(190)ओम् अपरिग्रहाच्चात्यन्तमनपेक्षा ओम् ॥ 02-02-17 ॥


श्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेनानपेक्ष(क्ष्य)ता ।
‘आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकम्’() इति च मोक्षधर्मे ॥ 17 ॥

समुदायाधिकरणम्

(191)ओं समुदाय उभयहेतुकेऽपि तदप्राप्तिः ओम् ॥ 02-02-18 ॥


परमाणुपुञ्जवादिमतं निरा(अपा)करोति-
समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात् तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं(समुदायत्वम्) स्यात् ॥ 18 ॥
(192)ओम् इतरेतरप्रत्ययत्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ओम् ॥ 02-02-19 ॥


सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यवह्रियत इति चेत्,
न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात् परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते ।
कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ॥ 19 ॥
(193)ओम् उत्तरोत्पादे च पूर्वनिरोधात् ओम् ॥ 02-02-20 ॥


कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्योत्पत्तिः ॥ 20 ॥
(194)ओम् असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ओम् ॥ 02-02-21 ॥


कारणे विनष्टे कार्यमुत्पद्यते चेत् तत्कार्यमिति प्रतिज्ञाहानिः । तत्काले कारणमस्ति चेद् विनाशकारणाभावद् यौगपद्यं सर्वकार्याणाम् ॥ 21 ॥
(195)ओं प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ओम् ॥ 02-02-22॥


कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः ससन्तानश्च विनाशो न युज्यते ॥ 22 ॥
(196)ओम् उभयथा च दोषात् ओम् ॥ 02-02-23 ॥


कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभावान्न कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥ 23 ॥
(197)ओम् आकाशे चाविशेषात् ओम् ॥ 02-02-24 ॥


दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनाद् अन्यत्रापि तदनुमीयेत ॥ 24 ॥
(198)ओम् अनुस्मृतेश्च ओम् ॥ 02-02-25॥


तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाया भ्रान्तित्वे विशेषदर्शनस्यापि भ्रान्तित्वम् ॥ 25 ॥

असदधिकरणम्

(199)ओं नासतोऽदृष्टत्वात् ओम् ॥ 02-02-26 ॥


शून्यवादमपाकरोति-
अदृष्टत्वादसतः कारणत्वं न युज्यते ॥ 26 ॥
(200)ओम् उदासीनानामपि चैवं सिद्धिः ओम् ॥ 02-02-27 ॥


असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जितानां खपुष्पादीनामपि सकाशात् कार्यसिद्धिः ।
चशब्दान्न चेदन्यत्रापि न स्यात्, अविशेषात् ॥ 27 ॥
(201)ओं नाभाव उपलब्धेः ओम् ॥ 02-02-28 ॥


न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥28॥
(202)ओं वैधर्म्याच्च न स्वप्नादिवत् ओम् ॥ 02-02-29 ॥


न च दृष्टस्यापि स्वप्नादिवदभावः। तस्योत्तरकाले स्वप्नोयं नायं सर्प इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति ॥ 29 ॥

अनुपलब्ध्यधिकरणम्

(203)ओं न भावोऽनुपलब्धेः ओम् ॥ 02-02-30 ॥


विज्ञानवादमपाकरोति-
न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ॥ 30 ॥
(204)ओं क्षणिकत्वाच्च ओम् ॥ 02-02-31 ॥


ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । अतश्च नैक्यम् ॥ 31 ॥
(205)ओं सर्वथाऽनुपपत्तेश्च ओम् ॥ 02-02-32 ॥


प्रमाणाभावात् सर्वश्रुतिस्मृतिर्युक्तिविरुद्धत्वाच्च नैते पक्षा ग्राह्याः ॥ 32 ॥

नैकस्मिन्नधिकरणम्

(206)ओं नैकस्मिन्नसम्भवात् ओम् ॥ 02-02-33 ॥


स्याद्वादिमतं दूषयति-
सत् स्यादसत् स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादित्येतन्नैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ 33 ॥
(207)ओम् एवञ्चात्माकार्त्स्न्यम् ओम् ॥ 02-02-34 ॥


जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्त्यादिशरीरेऽकार्त्स्न्यं स्यात् ॥34॥
(208)ओं न च पर्यायादप्यविरोधो विकारादिभ्यः ओम्॥ 02-02-35 ॥


तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम्(वाच्यम्) । विकारित्वादनित्यत्वप्रसक्तेः ॥ 35 ॥
(209)ओम् अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ओम् ॥ 02-02-36 ॥


परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥ 36 ॥

पत्युरधिकरणम्(पशुपत्यधिकरणम्)

(210)ओं पत्युरसामञ्जस्यात् ओम् ॥ 02-02-37 ॥


पाशुपतमतमपाकरोति-
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’(ऋ.सं.१०.१२५.५) ‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’(ऋ.सं.१०.१२५.६)।
‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’(ऋ.सं.७.४०.५।
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’(महोपनिषत्.१),इत्यादि श्रुतेः पारतन्त्र्येणासमञ्जसत्वान्न पतीरीश्वरनामा जगत्कर्ता ॥ 37 ॥
(211)ओं सम्बन्धानुपपत्तेश्च ओम् ॥ 02-02-38 ॥


अशरीरत्वात् तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन, मृतपुरुषवत् ॥38॥
(212)ओम् अधिष्ठानानुपपत्तेश्च ओम् ॥ 02-02-39 ॥


पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । न चास्य तदस्ति ॥ 39 ॥
(213)ओं करणवच्चेन्न भोगादिभ्यः ओम् ॥ 02-02-40॥


इदमेव जगत् तस्य करणवदधिष्ठानादिरूपं नित्यस्यापि कस्यचिद् भावाद् युज्यत इति चेत्, न । भोगादिप्राप्तेः।
उत्पत्तिविनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ॥ 40 ॥
(214)ओम् अन्तवत्त्वमसर्वज्ञता वा ओम् ॥ 02-02-41 ॥


देहवत्वेऽन्तवत्वम् । अन्यथा ज्ञानाभावः ।
शरीरिण एव हि ज्ञानोत्पत्तिर्दृष्टा । विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः-
‘यदात्मको भगवांस्तदात्मिकी(का) व्यक्तिः । किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’इति,‘बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे । बुद्धिमान् मनोवानङ्गप्रत्यङ्गवानिति’,‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’(पैङ्गिश्रुतिः) ॥ इत्यादिकया ॥ 41 ॥

उत्पत्त्य(शक्त्य)धिकरणम्

(215)ओम् उत्पत्त्यसम्भवात् ओम् ॥ 02-02-42 ॥


शक्तिपक्षं दूषयति-
न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ 42 ॥
(216)ओं न च कर्तुः करणम् ओम् ॥ 02-02-43 ॥


यदि पुरुषोऽङ्गीक्रियेत तस्यापि करणाभावाद् अनुपपत्तिः ॥ 43 ॥
(217)ओं विज्ञानादिभावे वा तदप्रतिषेधः ओम् ॥ 02-02-44॥


यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वर-वादान्तर्भावः ॥ 44 ॥
(218)ओं विप्रतिषेधाच्च ओम् ॥ 02-02-45 ॥


सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ 45 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ 02-02 ॥

तृतीयः पादः

जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोत्यनेन पादेन।

वियदधिकरणम्

(219)ओं न वियदश्रुतेः ॥ 02-03-01॥


न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ॥ 01 ॥
(220)ओम् अस्ति तु ओम् ॥ 02-03-02 ॥


अस्त्येव चोत्पत्तिश्रुतिः- ‘आत्मन आकाशः सम्भूतः’(तै.उ.२.१) इत्यादि ॥ 02 ॥
(221)ओं गौण्यसम्भवात् ओम् ॥ 02-03-03 ॥


‘अनादिर्वा अयमाकाशः शून्योऽलौकिकः’() इत्यादिश्रुतिर्गौणी । अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ 03 ॥
(222)ओं शब्दाच्च ओम् ॥ 02-03-04 ॥


‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धाभूतानि भौतिकानीति ।
यानि ह वा उत्पत्तिमन्ति तान्यनित्यानि। यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि ।
न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा काल इति ।
अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते’() इति भाल्लवेयश्रुतेः ॥ 04 ॥
(223)ओं स्याच्चैकस्य ब्रह्मशब्दवत् ओम् ॥ 02-03-05 ॥


स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया । यथा ब्रह्मशब्दः-
‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’(अथर्वशिरः) इति श्रुतेः । परे ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते ।
अत एवाब्रह्मत्वं च तेषाम् । एवम् अन्यत्राप्यनुत्पत्तिमच्छब्दः ॥ 05 ॥
(224)ओं प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ओम् ॥ 02-03-06 ॥


ब्रह्मणोऽन्यस्य नित्यत्वे ‘इदं सर्वमसृजत’(तै.उ.२.३) इत्यादि प्रतिज्ञाहानिः। आकाशस्यापि सर्वस्मादव्यतिरेकात्।
‘अत्मा वा इदमेक एवाग्र आसीत्’(तै.उ.२.३),‘सदेव सोम्येदमग्र आसीत् । एकमेवाद्वितीयम्’(छां.उ.६.२.१),‘इदं वा अग्रे नैव किञ्चनासीत्’(तै.ब्रा.२.२.९) इत्यादिश्रुतिभ्यः ॥ 06 ॥
(225)ओं यावद्विकारं तु विभागो लोकवत् ओम् ॥ 02-03-07 ॥


विभक्तत्वाच्च विकारित्वं युक्तम् । विकारिण एव हि विभक्ता लोके दृश्यन्ते ।
‘एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते ।प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता ।तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥यो विभागी विकारः स सोऽविकारः परो हरिः ।अविभागात् परानन्दो नित्यो नित्यगुणात्मकः ।विभागो ह्यल्पशक्तित्वं नहि तत् परमात्मनः’।इति बृहत्संहितायाम् ॥ 07 ॥

मातरिश्वाधिकरणम्

(226)ओम् एतेन मातरिश्वा व्याख्यातः ओम् ॥ 02-03-08 ॥


‘अथ ह नित्याश्चानित्याश्च । तेजोऽबन्नान्याकाश इति तान्यनित्यानि । वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’()
             ‘अथ ह चेतनाश्चाचेतनाश्च । तेजोऽबन्नान्याकाश इति तान्यचेतनानि । वायुर्वाव चेतनो वायुना हि सर्वाणि भूतानि विज्ञायन्ते’() ।
             ‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण’(ऋ.सं.७.१९.१।
             ‘सा वा एषा देवताऽनादिर्योऽयं पवते’() इति ।
‘यस्यानाऽदिर्न मध्यं नान्तो नोदयो न निम्लोचः’()।इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरित्यतो ब्रवीति –
एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरपि व्याख्याता ।
‘नित्यः परमनित्यश्च तथाऽनित्यः परस्तथा ।चतुर्धैतज्जगत् सर्वं परानित्यं तु पार्थिवम्।अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः ।परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ॥
‘एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः ।प्रतिव्यूह्य व्यूह्य चासावतीत्या च जनार्दनः ।धारयत्यनिशं देवो नित्यानन्दैकलक्षणः’इति कौर्मे ॥ 08 ॥

असम्भवाधिकरणम्

(227)ओम् असम्भवस्तु सतोऽनुपपत्तेः ओम् ॥ 02-03-09 ॥


‘असद् वा इदमग्र आसीत् ततो वै सदजायत’(तै.उ.२.७),‘असतः सदजायत’(ऋ.सं.१०.७२.२) इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेत्, न ।
अनुत्पत्तिरेव सतः । तुशब्देनोक्तव्यवस्थामपाकरोति । न ह्यसतः सदुत्पद्यते । अदृष्टत्वादनुपपत्तेः ।‘तद् वा एतद्ब्रह्माहुर्बृहति बृंहयति चेति । तद् वा एतदसदाहुः न ह्यासादयति कश्चन । तद् वा एतत् परमाहुः परतो हि तदुदीक्ष्यते’इति श्रुतेरसच्छब्दो ब्रह्मवाची ।
‘देवानां पूर्वे युगेऽसतः सदजायतेति । ब्रह्म वा असत् सद् वा प्राणः प्राणं वाव महान् सह ओजो बलमित्याचक्षते’इति च पैङ्गीश्रुतिः।
‘त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ।ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते’(भा.३.६.२८)इति भागवते ॥
‘अजायमानो बहुधा विजायते’(तै.आ.३.१३) इति च ।
‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन ।पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥विकार एव जननं पुरुषे तद्विशेषणम् ।परतन्त्रविशेषो हि विकार इति कीर्तितः’()॥ इति पाद्मे ॥
‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥‘शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन ।अविभिन्नाऽपि सेच्छादिभेदैरपि विभाव्यते’इति भागवततन्त्रे ॥ 09 ॥

तेजोऽधिकरणम्

(228)ओं तेजोऽतस्तथा ह्याह ओम् ॥ 02-03-10 ॥


‘वायोरग्निः’(तै.आ.२.१)इत्यादेर्नान्यत उत्पत्तिः ग्राह्या । अत एव परात् तदपि जायते । ‘तत् तेजोऽसृजत’(छां.उ.६.२.३) इत्याह । ‘कारणत्वेन’ इत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात् पुनरुक्तिरुभयकारणत्वनिवृत्यर्थम् ॥ 10 ॥

अबधिकरणम्

(229)ओम् आपः ओम् ॥ 02-03-11 ॥


‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजत तदिदं सर्वम्’() इति श्रुतेः ‘अग्नेरापः’(तै.उ.२.१) इत्युक्तेऽपि ब्रह्मण एवाबादिसृष्टिः ।
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’(मुं.उ.२.१.३) इत्यादि च ।
‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः ।इतरेषां तु सत्ताद्या यत एव तदाज्ञया’ इति भविष्यत्पुराणे॥
वामने च- ‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ इति ॥
घर्मात् स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥ 11 ॥

पृथिव्यधिकरणम्

(230)ओं पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ओम् ॥ 02-03-12 ॥


‘ता आप ऐक्षन्त बह्व्यः स्यामः प्रजायेमहीति । ता अन्नमसृजन्त’(छां.उ.६.२) इत्यद्भ्योऽन्नसृष्टिः श्रूयते ।‘अद्भ्यः पृथिवी’(तै.उ.२.१) इति कुत्रचित् पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्तिः –
पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’(ऐ.आ.२.३.१),‘पृथिवी वा अन्नम्’(तै.उ.३.९), ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’() इत्यादिशब्दान्तराच्च । आदिशब्दाद् युक्तिरपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि ।
‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते ।यथाऽविरुद्धता न स्यात् तथाऽर्थः कल्प्य एतयोः’() इति ।
रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः ।नाभिपद्माभिसम्बन्धात् पीता सेत्यभिधीयते ।क्षत्ररक्ताभिसम्बन्धाद् रक्तोदकबहुत्वतः ।शुक्लत्वमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।स्वर्णवीर्यो हि भगवाननादिः पुरुषोत्तमः॥इति व्योमसंहितायाम् ॥ 12 ॥

तदभिध्यानाधिकरणम्

(231)ओं तदभिध्यानादेव तु तल्लिङ्गात् सः ओम् ॥ 02-03-13 ॥


‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’(म.ना.उ.१६.२) इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते –
‘तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे.उ.१.१०)इति बन्धलयस्य तदभिध्याननिमित्तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव संहारकर्ता विष्णुरिति प्रतीयते । किमु
‘यमप्येति भुवनं साम्पराये स नो हरिर्घृत मीहायुषेऽत्तु देवः’(),‘य इदं सर्वं विलाययति स हरिः परः परात्मा’इत्यादि श्रुतिभ्य इति एव शब्दः ।
‘स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ॥ एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् ।सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्’इति च स्कान्दे ॥
‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।हिरण्यगर्भः सर्वश्च कालाख्यारूपिणस्तव’ ॥इति भागवते ॥
‘स ब्रह्मणा विसृजति स रुद्रेण विलाययति सोऽनुत्पत्तिलय एक एव हरिः परः परानन्दः’()॥इति च महोपनिषदि ॥ 13 ॥

विपर्ययाधिकरणम्

(232)ओं विपर्ययेण तु क्रमोऽत उपपद्यते च ओम् ॥ 02-03-14 ॥


‘अत एव हीदं परात् क्रमादुत्पद्यते क्रमाद् विलीयते नासावुदेति नास्तमेति’() इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते । ‘अक्षरात् परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद् विलयश्चैव तस्मिन्नेव परात्मनि’() ॥इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत आह
क्रमवचनमपि विपरीतक्रमापेक्षया ।
‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर उच्यते’()॥इत्यत एव भाल्लवेयश्रुतिवचनात् ।
‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः’ इति च पाद्मे ।
पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च ।
वामने च – ‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’() ॥ इति॥ 14 ॥

अन्तराधिकरणम्

(233)ओम् अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ओम् ॥ 02-03-15 ॥


‘प्राणान्मनो मनसश्च विज्ञानम्’, ‘यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि’(कठ.उ.३.१३)इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत्, न विशेषप्रमाणाभावात् ॥15 ॥
(234)ओं चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ओम् ॥ 02-03-16 ॥


‘मनसश्च विज्ञानम्’() इति व्यपदेशश्चराचरेष्वालोचनाद् विज्ञानं भवतीति भागापेक्षया स्यात् । न विज्ञानतत्त्वापेक्षया ।
स्कान्दे च – ‘परादव्यक्तमुत्पन्नमव्यक्तात्तु महांस्तथा ।विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखात् ॥विज्ञानतत्त्वात्तु मनो मनस्तत्त्वाच्च खादिकम् ।एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ।विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः’() ॥इति॥ 16 ॥

आत्माधिकरणम्

(235)ओं नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ओम् ॥ 02-03-17 ॥


‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद् विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’() इति श्रुतेः परमात्माऽपि न लीयते। अश्रुतत्वाद् ब्रह्मलयस्य। निलीन शब्देनापिहितत्वमुच्यते । ‘तुच्छेनाऽभ्वपिहितं यदासीत्’(ऋ.सं.१०.१२१.३) इति श्रुतेः ।
‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति नैनं पश्यति कश्चन’() इति च पैङ्गिशृतिः ।
‘नित्यो नित्यानां चेतनश्चेतनानाम्’(कठ.उ.५.१३),‘स नित्यो निर्गुणो विभुः परमः परात्मा’()।‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’() इत्यादि श्रुतिभ्यो नित्यत्वाच्च ॥ 17 ॥

ज्ञाधिकरणम्

(236)ओं ज्ञोऽत एव ओम् ॥ 02-03-18॥


‘नित्यो नित्यानाम्’(कठ.उ.५.१३) इति जीवस्यापि नित्यत्वमुक्तम् ।‘सर्व एते चिदात्मानो व्युच्चरन्ति’() इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह –
जीवोऽप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव । ‘ते वा एते चिदात्मनोऽविनष्टाः परञ्ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’()इति काषायणश्रुतिः ॥ 18 ॥
(237)ओं युक्तेश्च ओम् ॥ 02-03-19 ॥


नित्यस्यापि ह जीवस्योपाध्यक्षयोत्पत्तिर्युज्यते।
‘उत्पद्यन्ते चिदात्मानो नित्यान्नित्याः परात्मनः ।उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयते’()॥इति व्योमसंहितायाम्॥ 19 ॥

उत्क्रान्त्यधिकरणम्

(238)ओम् उत्क्रान्तिगत्यागतीनाम् ओम् ॥ 02-03-20 ॥


‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्वरूपा अनन्ताः’() इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते । ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं च पापं च’() इति गौपवनश्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति-
हेतूनाम् सकाशादणुरेव ।
‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति । स गर्भी भवति स प्रसूयते स कर्म कुरुते’()इति पौष्यायणश्रुतेः॥ 20 ॥
(239)ओं स्वात्मना चोत्तरयोः ओम् ॥ 02-03-21 ॥


तत्र स्वातन्त्र्य प्रतीतेः, । ‘एकः प्रसूयते जन्तुरेक एव प्रमीयते। एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्’ ॥ इत्यादेश्च स्वयमेवेत्यतो वक्ति –
‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते तं वा एतमभिवदन्ति स्वात्मा’ इति,‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गमयत्येष आगमयति।’(पौष्यायण) इति उत्तरयोर्वाक्ययोः परमात्मनैवोत् क्रान्त्यादयः ॥ 21 ॥
(240)ओं नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ओम् ॥ 02-03-22 ॥


‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च’(काषायणश्रुतिः) इति व्याप्तिश्रुतेर्नाणुर्जीव इति चेत्, न ।
‘स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च स बहुधेदमनुप्रविश्याऽत्मनोऽभिनयति स आत्मा स आत्मानः स ईशः स विष्णुः स परः परोवरीयान्’() इति परमात्माधिकारत्वात् ।
‘एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः ।एक एवोच्यते वेदैस्तावता नास्य भिन्नता’()॥इति भविष्यत्पुराणे ।
‘तदयं प्राणोऽधितिष्ठति। तदुक्तमृषिणा- ‘आतेन यातम्’(ऐ.आ.२.३.८) इत्यादि च ॥ 22 ॥
(241)ओं स्वशब्दोन्मानाभ्यां च ओम् ॥ 02-03-23 ॥


‘एषो ह्यात्माऽध्युद्गतो मानशक्तेस्तथाऽप्यसौ प्रमितिं याति वेदैः ।पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता’(काषायणश्रुतिः)
इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च।
‘आत्माऽमेयः परं ब्रह्म परानन्दादिकाभिधाः।वदन्ति विष्णुमेवैकं नान्यत्राऽसां गतिः क्वचित्’ इति च कौर्मे ॥ 23 ॥
(242)ओम् अविरोधश्चन्दनवत् ओम् ॥ 02-03-24॥


अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते। यथा हरिचन्दनविप्लुष एकदेशपतितायाः सर्वशरीरव्याप्तिः ।
‘अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति ।यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’ इति च ब्रह्माण्डपुराणे ॥ 24 ॥
(243)ओम् अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ओम् ॥ 02-03-25 ॥


सम्यगसम्यगवस्थानविशेषाद् युज्यते चन्दनस्येति चेत्, न।
‘हृदि ह्येषा आत्मा’(प्र.३.६)) इति जीवास्यापि तथाऽभ्युपगमात् ॥ 25 ॥
(244)ओं गुणाद्वाऽऽलोकवत् ओम् ॥ 02-03-26 ॥


यथाऽऽलोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिः एवं चिद्गुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति वा ।
‘असम्यक् सम्यगिति च व्यवस्थाभेदतः सुराः।व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा॥चिद्गुणस्य स्वरूपत्वात् तद्व्याप्तिश्चेति युज्यते।शक्तियोगात् सुराणां तु विविधा च व्यवस्थितिः’() इति ॥ 26 ॥

व्यतिरेकाधिकरणम्

(245)ओं व्यतिरेको गन्धवत् तथा च दर्शयति ओम् ॥ 02-03-27 ॥


‘स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चाऽवर्तते स विमुच्यते स एकधा न सप्तधा न शतधा’() इति गौपवनश्रुतावेकस्याबहुत्वं प्रतीयते ।
             ‘स पञ्चधा स सप्तधा स दशधा भवति स शतधा च सहस्रधा स गच्छति स मुच्यते’() इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते ।
अतो विरोधं परिहरति-
यथा पुष्पाद् गन्धः पृथग् गच्छति, एवमंशिनो जीवादंशाः पृथग्गच्छन्ति ।‘अथैक एव सन् गन्धवद् व्यतिरिच्यतेऽथैकीभवत्यथ बह्वीभवति तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति सोऽचिन्त्यः परमो गरीयान्’॥() इति शाण्डिल्यश्रुतिः ।
‘अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः ।आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’इति च पाद्मे ॥ 27 ॥

पृथगुपदेशाधिकरणम्

(246)ओम् पृथगुपदेशात् ओम् ॥ 02-03-28 ॥


‘तत्वमसि’(छां.उ.६.८.७),‘अहं ब्रह्मास्मि’(बृ.उ.४.१०) इत्यादिषु जीवस्य परेणाभेदः प्रतीयते ।‘नित्यो नित्यानां चेतनश्चेतनानाम्’(श्वे.उ.६.१३) ‘द्वा सुपर्णा’(श्वे.उ.४.६) इत्यादिषु भेदः। अत उच्यते-
‘भिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णाः ।यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेत्’()॥इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ॥ 28 ॥
(247)ओं तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ओम् ॥ 02-03-29 ॥


ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपमतोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते- ‘सर्वं खल्विदं ब्रह्म’(छां.उ.३.१४.१) इति ।
‘भिन्ना जीवाः परो भिन्नस्तथाऽपि ज्ञानरूपतः ।प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’()॥ इति॥ 29 ॥

यावदधिकरणम्

(248)ओं यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ओम् ॥ 02-03-30 ॥


जीवास्याप्युत्पत्तिरुक्ता । अतस्तस्य ‘सोऽनादिना पुण्येन पापेन चानुबद्धः। परेण निर्मुक्त आनन्त्याय कल्पते’(छां.उ.३.१४.१) इत्यानादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इत्यत आह –
यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि ।
‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः ।अत उत्पद्यते च म्रियते च विमुच्यते च’इति च आग्निवेश्यश्रुतिः ।
‘आत्मा नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो धातुरस्य त्वनित्यः’(म.भा.५.४०.१२)॥इति च भारते ॥ 30 ॥

पुंस्त्वाधिकरणम्

(249)ओं पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ओम् ॥ 02-03-31 ॥


‘विज्ञानात्मा सह देवैश्च सर्वैः’(प्र.४.११),‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यते’() इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । स दुःखाद् विमुक्त आनन्दी भवति सोऽज्ञानाद् विमुक्तो ज्ञानी भवति सोऽबलाद् विमुक्तो बली भवति। स नित्यो निरातङ्कोऽतिष्ठते’() इति पैङ्गीश्रुतौ अनानन्दादिरूपत्वं प्रतीयते । अत आह –
यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यते, एवं सतामेवाऽनन्दादीनां व्यक्त्यपेक्षया तदुक्तिः ।
‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद् विभोः’इति च गौपवनश्रुतिः॥ 31 ॥
(250)ओं नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ओम् ॥ 02-03-32 ॥


व्यक्तनङ्गीकारे देवानां च नित्योपलब्धिरानन्दादीनाम्, असुराणां नित्यानुपलब्धिः मनुष्याणां च नित्योपलब्ध्यनुपलब्धी च प्रसज्ज्यन्ते ।‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसुरा एवमनेवं च मनुष्याः’ इति ह्याग्निवेश्यश्रुतिः ।
‘नित्यानन्दज्ञानबला देवा नैवं तु दानवाः ।दुःखोपलब्धिमात्रास्ते मानुषस्तूभयात्मकाः ॥तेषां यदन्यथा दृश्यं तदुपाधिकृतं मतम् ।विज्ञानेनात्मयोगेन निजरूपे व्यवस्थितिः ॥सम्यज्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् ।विपरीतं च दैत्यानां ज्ञानस्यैवं व्यवस्थितिः’() इति ॥ 32 ॥

कर्तृत्वाधिकरणम्

(251)ओं कर्ता शास्त्रार्थवत्त्वात् ओम् ॥ 02-03-33 ॥


ईश्वरस्यैव कर्तृत्वमुक्तम् । ‘यत् कर्म कुरुते तद् अभिसम्पद्यते’(बृ.उ.६.४.५) इति जीवस्योपलभ्यते । अत आह-
जीवस्य कर्तृत्वाभावे शास्त्रस्य अप्रयोजकत्वप्राप्तेः जीवोऽपि कर्ता ॥ 33 ॥
(252)ओं विहारोपदेशात् ओम् ॥ 02-03-34 ॥


‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’(छां.उ.८.१२.३) इत्यादि ॥ 34 ॥
(253)ओम् उपादानात् ओम् ॥ 02-03-35 ॥


साधनाद्युपादानप्रतीतेश्च ॥ 35 ॥
(254)ओं व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ओम् ॥ 02-03-36 ॥


‘आत्मानमेव लोकमुपासीत’(बृ.उ.३.४.१५) इति क्रियायां व्यपदेशाच्च । अन्यथा ‘आत्मैव लोकम्’() इति निर्देशः स्यात् ॥ 36 ॥
तर्हि कथमीश्वरस्यैव कर्तृत्वम् इत्यतो वक्ति –
(255)ओम् उपलब्धिवदनियमः ओम् ॥ 02-03-37 ॥


यथा ज्ञान ‘इदं ज्ञास्यामि’() इत्यनियमः प्रतीयते, एवं कर्मणि ।
‘य आत्मानमन्तरो यमयति’(माध्यन्दिनपाठः) इति च श्रुतिः॥ 37 ॥
(256)ओं शक्तिविपर्ययात् ओम् ॥ 02-03-38॥


कुतः ? –
अल्पशक्तित्वाज्जीवस्य ॥ 38 ॥
(257)ओं समाध्यभावाच्च ओम् ॥ 02-03-39॥


समाध्यभावाच्चास्वातन्त्र्यं प्रतीयते, अतः ॥ 39 ॥
(258)ओं यथा च तक्षोभयथा ओम् ॥ 02-03-40॥


यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते, एवं जीवस्यापि ॥ 40 ॥
(259)ओं परात्तु तच्छ्रुतेः ओम् ॥ 02-03-41 ॥


सा च कर्तृत्वशक्तिः परादेव ।
‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः ।यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’इति हि पैङ्गिश्रुतिः ॥ 41 ॥
(260)ओं कृतप्रयत्नापेक्षस्तुविहितप्रतिषेधावैयर्थ्यादिभ्यः ओम् ॥ 02-03-42 ॥


ततोऽप्रयोजकत्वं शास्त्रस्य नाऽपद्यते । कृतप्रयत्नापेक्षत्वात् तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि ।
‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्यतु ।ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम् ॥अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः’ इति भविष्यत्पर्वणि ।
‘एतदेवं न चाप्येवम्, एतदस्ति च नास्ति च’() इति च मोक्षधर्मे ॥ 42 ॥

अंशाधिकरणम्

(261)ओम् अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ओम् ॥ 02-03-43 ॥


‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः । स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’() ॥ इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।
             ‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य । तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् । न नियम्यः स कस्यापि स सर्वस्य नियामकः’() ॥ इति च भाल्लवेयश्रुतौ ॥
अतो ब्रवीति-
‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’,‘अवः परेण पितरं यो अस्यानुवेद (पर एनावरेण)’(ऋ.सं.१.१६४.१८),‘यस्तद् वेद स पितुष्टिताऽसत्’(महाना.उ.२.४),‘यस्ता विजानात् स पितुष्पिताऽसत्’(ऋ.सं.१.१६४.१६)।
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।तयोरन्यः पिप्पलं स्वाद्वतत्ति अनश्नन्नन्यो अभिचाकशीति’(मु.उ.३.१.१)इत्यादिना नानाव्यपदेशादंशो जीवः ।
तथा च पाराशर्यायणश्रुतिः-‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति च सखेति’() च इति ।
‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन ।नायं तस्यापि कश्चन’() इत्यन्यथा च काषायणश्रुतिः ।
‘ब्रह्मदाशा ब्रह्मकितवा ब्रह्मैवेमे दाशाः’()इत्यभेदेनाप्येकेऽधीयते ।
तथा चाग्निवेश्यश्रुतिः-‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिरे’() इति ॥
‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥यतो भेदेन तस्यायमभेदेन च गीयते ।अतश्चांशत्वमुद्दिष्टं भेदाभेदौ न मुख्यतः’() इति ॥ 43 ॥
(262)ओं मन्त्रवर्णात् ओम् ॥ 02-03-44॥


‘पादोऽस्य विश्वा भूतानि’(ऋ.सं.१०.९०.३) इति ॥ 44 ॥
(263)ओम् अपि स्मर्यते ओम् ॥ 02-03-45 ॥


‘ममैवांशो जीवलोके जीवभूतः सनातन’(भ.गी.१५.७) इति ॥ 45 ॥
(264)ओं प्रकाशादिवन्नैवं परः ओम् ॥ 02-03-46 ॥


अनंशत्वश्रुतेर्गतिं चाऽह –
अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः। यथा तेजोंऽशस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता। यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्ठादेश्च । अभिमानिदेवतापेक्षयैतत् ॥ 46 ॥
(265)ओं स्मरन्ति च ओम् ॥ 02-03-47 ॥


‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’(भाग.१.३.२८) ।
‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः’(भाग.१.३.३२) ॥
‘स्वांशश्चाथो विभिन्नांश इति द्वेधांऽश इष्यते ।अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥‘तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्’ ॥ इति वाराहे ।
‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’(भ.गी.११.४३) इति च ॥ 47 ॥
(266)ओम् अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ओम् ॥ 02-03-48 ॥


परानुज्ञया प्रवृत्तिः, परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि । देहसम्बन्धात्-
‘य आत्मानमन्तरो यमयति’(बृ.उ.), ‘तमेवं विद्वानमृत इह भवति’(तै.आ.३.१२) इत्यादिना । न तु परस्य।
युज्यते च ज्योतिरादिवत् । यथाऽऽदित्यो वियद्गतस्तत् प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’(ऐ.आ.२.१.५) इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिस्तदनुग्राह्यत्वं तेनैवाऽवृतिपरिहारश्च ।
यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च ।
‘यत् किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशाम्पते ।सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।भूतान्तरात्मा विज्ञेयः(वरदः) सगुणो निर्गुणोऽपि च ।भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’() इति ।
‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः ।अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥अदेहबन्धयोग्यत्वाद् यथासूर्यप्रभाऽक्षिणी ।यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥अनुग्राह्यत्वमन्यस्य तेनैवाऽवृतिरोधनम्’() इति ॥ 48 ॥
(267)ओम् असन्ततेश्चाव्यतिकरः ओम् ॥ 02-03-49 ॥


अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् ।
‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपिल इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि। तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितान्यथावराः सर्व एवापूर्णाः सर्वे एव बध्यन्तेऽथ मुच्यन्ते च केचन’() इति ॥ 49 ॥
(268)ओम् आभास एव च ओम् ॥ 02-03-50 ॥


॥ इति अंशाधिकरणम् ॥ 18 ॥
‘रूपं रूपं प्रतिरूपो बभूव’(ऋ.सं.६.४७.१८) इति प्रतिबिम्बत्वाच्च न साम्यम् ।
‘द्विरूपावंशकौ तस्य परमस्य हरेर्विभोः ।प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः ।प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु’() इति ॥
‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’इति पैङ्गिश्रुतिः ॥
‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’(प्र.३.३) इति च श्रुतिः ॥ 50 ॥

अदृष्टाधिकरणम्

(269)ओम् अदृष्टानियमात् ओम् ॥ 02-03-51॥


प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह –
अनादिविद्याकर्मादिवैचित्र्याद् वैचित्र्यम् ॥ 51 ॥
(270)ओम् अभिसन्ध्यादिष्वपि चैवम् ओम् ॥ 02-03-52 ॥


इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । च शब्देन प्रतिक्षणवैचित्र्यं च ॥52॥
(271)ओं प्रदेशादिति चेन्नान्तर्भावात् ओम् ॥ 02-03-53 ॥


न स्वर्गभूम्यादिप्रदेशविशेषाद् वैचित्र्यम् । तत्प्राप्तेरप्यदृष्टापेक्षत्वात्। एकदेशस्थितानामेव वैचित्र्यदर्शनाच्च ॥ 53 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः॥ 02-03 ॥

चतुर्थः पादः

युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।

‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः प्रतीयते(श्रूयते) ।

‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥

‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’(मुण्डक.उ.२.१.३ इति च ।

अत उच्यते –

प्राणाधिकरणम्

(272)ओं तथा प्राणाः ओम् ॥ 02-04-01 ॥


यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥
(273)ओं गौण्यसम्भवात् ओम् ॥ 02-04-02 ॥


अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’ इति भविष्यत्पर्वणि ॥ 02 ॥
(274)ओं प्रतिज्ञानुपरोधाच्च ओम् ॥ 02-04-03॥


‘इदं सर्वमसृजत’(तै.उ.२.६.१(२.१४)) इति ॥ 03 ॥
॥ इति प्राणाधिकरणम् (प्राणोत्पत्त्यधिकरणम्)

मनोधिकरणम्

(275)ओं तत् प्राक्च्छृते‍ेश्च ओम् ॥ 02-04-04 ॥


‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’ इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह-
‘मनः सर्वेन्द्रियाणि च’(मुण्डक.२.१.३) इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते।
‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः । तदनुत्पत्तिवचनमल्पोपचयकारणात्’॥ इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥ 04 ॥

वागधिकरणम्

(276)ओं तत्पूर्वकत्वाद्वाचः ओं॥ 02-04-05 ॥


‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युतमिति । वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिरवतिष्ठते’ इति सयुक्तिकं पौष्यायणश्रुतौ वाचोऽनुत्पत्तिरुच्यते । अतो ब्रवीति –
‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’(ऐ.आ.३.१.१ इति) मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।
‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन’ इति वायुप्रोक्ते ॥ 05 ॥

सप्तगत्यधिकरणम्

(277)ओं सप्तगतेर्विशेषितत्वाच्च ओम् ॥ 02-04-06 ॥


‘सप्तप्राणाः प्रभवन्ति तस्मात्’(मुण्डक.उ.२.१.८) इति श्रुतिः।
             ‘सप्तैव मारुता बाह्ये प्राणाः सप्त तथाऽऽत्मनि । अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः’ इति च स्कान्दे।
‘द्वादश वा एते प्राणा द्वादश मासा द्वादशाऽदित्या द्वादशराशयो द्वादश ग्रहाः’ इति कौण्डिण्यश्रुतौ द्वादशप्राणादृष्यन्ते । अतो वक्ति-
ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।‘गुहाशयां निहिताः सप्त सप्त’(मुण्डक.उ.२.१.८) इति विशेषणात्।‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः ।एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्॥’इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥
(278)ओं हस्तादयस्तु स्थितेऽतो नैवम् ओम् ॥ 02-04-07॥


हस्तादीनां कर्मविषयत्वान्न सहपाठः।
‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः ।तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते॥’ इति(च) वायुप्रोक्ते ॥ 07 ॥

अण्व(णुत्वा)धिकरणम्

(279)ओम् अणवश्च ओम् ॥ 02-04-08॥


‘दिवीव चक्षुराततम्’(ऋ.सं.१.२२.२०) इति व्याप्तिः प्रतीयते। दूरश्रवणदर्शनादियुक्तिश्च। अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः । अतो वक्ति-
‘तद् यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः॥ 08 ॥

मुख्यप्राणाधिकरणम्

(280)ओं श्रेष्ठश्च ओम् ॥ 02-04-09 ॥


‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते ।‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते॥’ इति च युक्तिर्वायुप्रोक्ते ।‘आत्मत एष प्राणो जायते’(ष.प्र.३.२) इति च । अत आह-
‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिरिति’ इति गौपवनश्रुतेः ॥ 09 ॥
(281)ओं न वायुक्रिये पृथुगुपदेशात् ओम् ॥ 02-04-10॥


‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते ।प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः॥’इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । ‘स प्राणमसृजत’,‘खं वायुर्ज्योतिरापः..’, ’..तपो मन्त्राः कर्म..’(ष.प्र.उ.६.४.)इति पृथगुपदेशात् ।
‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् ।मुख्यप्राणः परस्माच्च न परः कारणान्वितः॥’ इति वायुप्रोक्ते ॥ 10 ॥

चक्षुराद्यधिकरणम्

(282)ओं चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ओम् ॥ 02-04-11 ॥


‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ ।‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत्॥’ इति च युक्तिर्भारते।‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः । न परः (क)किञ्चिदाश्रित्य वर्तते परमो यतः॥’ इति पैङ्गिश्रुतिः । अत आह-
चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव । ‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान् नयत्युन्नयति वशीकरोति’ इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।
‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः ।कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् ।अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।अनन्येश्वरता प्राणे तदन्येश्वरवर्जनम्(वर्जना) ।अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।यतो विशेषवाक्येन ह्रियते समतावचः।’
‘नान्योऽतोऽस्तिद्रष्टा’(बृ.उ.५.७.२३),‘नान्यदतोऽस्ति द्रष्टृ’(बृ.उ.५.८.१२) इत्यादिवचनयुक्तयश्च आदिशब्दोक्ताः ॥ 11 ॥
(283)ओम् अकरणत्वाच्च न दोषस्तथा हि दर्शयति ओम् ॥ 02-04-12॥


इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते ।
माण्डव्यश्रुतिश्च- ‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण एवाकरणः तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥

पञ्चवृत्त्यधिकरणम्

(284)ओं पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ओम् ॥ 02-04-13॥


‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इत्यथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः ।
             ‘प्राणापानादयः सर्वे मुख्यदासा यतेऽनिशम् ।अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते’ इति युक्तिर्वायुप्रोक्ते ।
             ‘मुख्यस्यैव स्वरूपाणि प्राणाध्याः पञ्चवायवः । स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम्’ इति च गौपवनश्रुतिः ।
अतो वक्ति-
‘अथ पञ्चवृत्त्यैतत् प्रवर्तते प्राणो वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते प्राणाद् वाव प्राणेऽपानादपानो व्यानाद् व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्चित्तं चेतनाया एव चेतनैवमिति’ इति

अण्वधिकरणम् (प्राणाणुत्वाधिकरणम्)

(285)ओम् अणुश्च ओम् ॥ 02-04-14॥


‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते ।
             ‘यतः सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु । अतो धृतं जगत् सर्वमन्यथा केन धार्यते’ इति च युक्तिर्वायुप्रोक्ते ।
             ‘अणुनैतत् सृज्यतेऽणुनैतद् धार्यतेऽणौ लयमभ्युपैति प्राणो वा अणुः प्राणैः(क्वचित् कोशेषु ‘प्राणे,प्राणो’इति पाठः) ह्येतद्भवति’ इति च सौत्रायणश्रुतिः ॥
अत आह –
‘स वा एष प्राणोऽणुर्महान् नामाऽन्तर्वाऽणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ॥ 14 ॥

ज्योतिराद्यधिकरणम्

(286)ओं ज्योतिराद्यधिष्ठानं तु तदामननात् ओम् ॥ 02-04-15॥


करणत्वं प्राणानामुक्तम् । ‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः।यस्मात् तद्वशगा एते दृश्यन्ते सर्वदेहिषु॥’ इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते। ‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतैः कारयति’ इति काषायणश्रुतौ । अत आह –
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति। ‘यः प्राणे तिष्ठन्’(बृ.उ.५.७.१६) इत्यादि तदामननात् ॥ 15 ॥
(287)ओं प्राणवता शब्दात् ओम् ॥ 02-04-16 ॥


कथं जीवकरणत्वश्रुतिरित्यतो वक्ति –
जीवेनैव (स्व)करणैः कारयति परमात्मा । अतो न विरोधः ।
‘एष ह्येनेनाऽत्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मानयति बुद्ध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।
‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् ।श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।
न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः ।केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ इति च वाराहे ॥ 16 ॥
(288)ओं तस्य च नित्यत्वात् ओम् ॥ 02-04-17॥


‘अनादिनित्यत्वाच्च जीवकरणसम्बन्धस्य युज्यते तत् करणत्वश्रुतिः ।’
‘अथावियोगीनि करणैर्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद् वाव करणानां करणत्वं यद् वाव न वियुज्यते’ इति गौपवनश्रुतिः ।
चशब्दः करणसम्बन्धग्राही ॥ 17 ॥

इन्द्रियाधिकरणम्

(289)ओं त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ओम् ॥ 02-04-18 ॥


‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति । ‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादशे’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति-
मुख्यप्राणमृते त एवेन्द्रियाणि ।
‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’ इति पौत्रायणश्रुतिः ।
‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् ।तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’इति बृहत्संहितायाम् ॥18॥
(290)ओं भेदश्रुतेः ओम् ॥ 02-04-19॥


‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुः अथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ॥ 19 ॥
ओं वैलक्षण्याच्च ओम् ॥ 20-291 ॥


पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृष्यते, न मुख्यस्य । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’(ष.प्र.४.३) इति च श्रुतेः ॥ 20 ॥

सङ्ज्ञाधिकरणम्

(292)ओं सङ्ज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ओं॥ 02-04-21॥


‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामनी’ इति गौपवनश्रुतिः ॥
             ‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते ।एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः’ इति च युक्तिर्ब्राह्मे ।
             अथ कस्मादुच्यते परम इति परमाद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इत्यथ कस्मादुच्यते ब्रह्मेति बृहत्त्वाद् बृंहणच्च(बृंहितत्वाच्च)’ इत्याग्निवेश्यश्रुतिः ।
अत आह-
नामरूपक्लृप्तिः परादेव। ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् य(यद्) आस्ते’(तै.आ३.१२) इति श्रुतेः।
त्रिवृत्कुर्वत इति हेतुगर्भः ।
त्रिवृत्करणापेक्षत्वान्नामरूपयोः ॥
‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’ इति च पाद्मे ॥
‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः’इति च ब्रह्माण्डे ॥ 21 ॥

मांसा(ध्य)धिकरणम्

(293)ओं मांसादि भौमं यथाशब्दमितरयोश्च ओम् ॥ 02-04-22 ॥


‘अद्ब्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवत्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः ।
             ‘	अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः’ इति च भारते ।
‘पृथिवी शरीरमाकाशमात्मा’(बृ.उ.५.२.१६) इति च श्रुतिः। अतो ब्रवीति –
‘यत् कठिनं सा पृथिवी यद् द्रवं तदापो यदुष्णं तत् तेजः’(गर्भ.३) इति श्रुतेर्मांसाद्येव भौमम्, न सर्वशरीरम्, अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥
‘यद्वा वाऽथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानीति’ इति हि काषायणश्रुतिः ।
‘पञ्चभूतात्मकं सर्वं तथाऽप्येकविवक्षया ।एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।
भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि ।तेजिष्ठत्वात् तैजसं च यथाऽस्थ्नां वचनं श्रुतौ॥’इति वायुप्रोक्ते ॥22॥
(294)ओं वैशेष्यात् तु तद्वादस्तद्वादः ओम् ॥ 02-04-23॥


कथं तर्हि विशेषवचनम् इत्यत आह-
भूतानां(तु) विशेषसंयोगादेव विशेषव्यवहारः ।
‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृता।इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् ।स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम्’इति च ब्रह्मसंहितायाम् ॥
सर्वाध्यायार्थावधारणार्थऽध्यायान्ते द्विरुक्तिः।
गारुडे च-
‘अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।विचारो यत्र सज्येत पूर्वोक्तस्यावधारणे ॥अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् ।विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा॥’ इति(च) ॥ 23 ॥
॥ इति श्रीमद्ब्रह्मसूत्रे द्वितीयाध्यायस्य चतुर्थः पादः॥ 02-04 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायः (अविरोधाध्यायः) ॥ 02 ॥

(साधनाध्यायः) तृतीयाध्यायः॥

प्रथमः पादः

साधनविचारोऽयमध्यायः । वैराग्यार्थे(य) गत्यादिनिरूपणा प्रथमपादे।

भूतबन्धो हि बन्धः- ‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति च वाराहे । तच्च मरणे भवति-

भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् ।भूतानां सम्प्रयोगश्च जनिरित्येव पण्डितैः॥’ इति च भारते ॥

अतः किं साधनैः? इत्यत आह-

तदन्तराधिकरणम्

(295)ओं तदन्तरप्रतिपत्तौरंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ओम् ॥ 03-01-01॥


शरीरान्तरप्रतिपत्तौ भूतपरिष्वक्त एव गच्छति ।
‘वेत्थ यथा पञ्चम्याम् आहुतावापः पुरुषवचसो भवन्ति’(छां.उ.५.३.२), ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’(छां.उ.५.३.९) इति प्रश्नपरिहाराभ्याम् ॥ 01 ॥

त्र्यात्मकत्वाधिकरणम्

(296)ओं त्र्यात्मकत्वात् तु भूयस्त्वात् ओम् ॥ 03-01-02 ॥


‘अप्’शब्दस्तु त्र्यात्मकत्वाद् युज्यते ।
भूयस्त्वाच्चापाम् ।‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’(भाग.३.२७.४५)इति च भागवते॥02॥

प्राणागत्यधिकरणम्

(297)ओं प्राणगतेश्च ओम् ॥ 03-01-03॥


‘यत्र वाव भूतानि तत्र करणानि नित्यानि ह वा एतानि भूतानि च करणानि च नैतानि कदाचिद् वियुज्यन्ते न च विलीयन्ते’ इति भाल्लवेयश्रुतेः प्राणगतेर्भूतान्यपि सह गच्छन्तीति सिद्धम् ॥ 03 ॥

अग्न्याद्यधिकरणम्

(298)ओम् अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ओम् ॥ 03-01-04॥


‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’(बृ.उ.५.२.१३) इत्यादिश्रुतेर्न प्राणानां जीवेन सह गतिरिति चेत्? न। भागतोऽग्न्यादिप्राप्तेः ।
‘पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु ।अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ।पुनः शरीरसम्प्राप्तौतमेवानुविशन्ति च’इति ब्राह्मे ।
ब्रह्माण्डे च-‘मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च ।भागतो भागतस्त्वेनमनुगच्छन्ति सर्वशः’ इति ॥ 04 ॥

प्रथमेऽश्रवणाधिकरणम्

ओं प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ओम् ॥ 05-299 ॥


‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’(छां.उ.५.४.२) इति प्रथमाग्नौ श्रूयते न भूतानि जुह्वतीति। अतो नेति चेत्, न।
ता एव प्रस्तुता आपः श्रद्धारूपेण हूयन्ते । ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’(छां.उ.५.९.१) इत्युपसंहारोपपत्तेः ॥05॥

अश्रुतत्वाधिकरणम्

(300)ओम् अश्रुतत्वादिति चेन्नेष्टादिकारिणं प्रतीतेः ओम् ॥ 03-01-06॥


अग्न्यादिगतिः प्रत्यक्षतः श्रूयते। अतः प्रत्यक्षाश्रवणान्न युक्तमिति चेत्, न। ‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति भूतैर्भुङ्क्ते भूतैरुत्पद्यते भूतैश्चरति भूतैर्विचरति’ इति कौण्ठरव्यश्रुतौ प्रतीतेः ॥ 06 ॥

भाक्ताधिकरणम्

(301)ओं भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ओं॥ 03-01-07 ॥


‘अपाम सोमममृता अभूम’(ऋ.सं.८.४८.३) इत्यादिश्रुतिविरोध इत्यतो वक्ति-
भागतस्तदमृतत्वम् ।‘नान्यः पन्था अयनाय विद्यते’(तै.आ.३.१२.७) इति श्रुतेरात्मविद एव हि मुख्यम् ।
वाशब्दात् पारम्पर्येणाऽत्मविदपेक्षया वा ।
तथा हि श्रुतिः –‘स एनमविदितो न भुनक्ति यथा वेदो वा अननूक्तोऽन्यद् वा कर्माकृतं यदि ह वा अप्यनेवंविन्महत् पुण्यं कर्म करोति तद्धास्यान्तततः क्षीयत एवाऽत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत्तत् सृजते’(बृ.उ.३.४.१५)
‘अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनुर्यावदादित्यः’,‘कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवत्यथामृतानि कर्माणि यत एनममृतत्वं नयन्ति’ इति च ॥ 07 ॥

कृतात्ययाधिकरणम्

(302)ओं कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ओम् ॥ 03-01-08 ॥


कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरित्यत आह-
‘ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्गच्छति पुनरागच्छति’ इति श्रुतेः ।
‘भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः ।कर्म कृत्वा पुनर्गच्छेत् पुनरायाति नित्यशः ॥’
‘आचतुर्दशमाद् वर्षात् कर्माणि नियमेन तु ।दशावराणां देहानां कारणानि करोत्ययम् ॥अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति’॥ इत्यादिस्मृतेश्च शेषवानेवाऽयाति ॥ 08 ॥

यथेताधिकरणम्

(303)ओं यथेतमनेवं च ओम् ॥ 03-01-09 ॥


‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते स कर्म कुरुते स परिवर्तते’() इति गतिप्रकारेणागतिः प्रतीयते । अतो ब्रूते-
‘धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’() इति काषायणश्रुतेर्यथागतमन्यथा च॥09॥

चरणाधिकरणम्

(304)ओं चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ओं॥ 03-01-10 ॥


‘तद् य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयाम्’(छां.उ.५.१०.७) इति श्रुतेश्चरणफलमेव गमनागमनं न यज्ञादिकृतः ।
‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः ।अशुद्धिदस्त्वानाचारश्चरणं तूभयं मतम्’() ॥
इति स्मृतेरिति चेत्, न । यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति कार्ष्णाजिनिर्मन्यते ॥ 10 ॥
(305)ओम् आनर्थक्यमिति चेन्न तदपेक्षत्वात् ओम् ॥ 03-01-11 ॥


तर्हि रमणीयाः कपूया इत्येव स्यात्, चरणशब्दस्याऽनर्थक्यमिति चेत्, न। चरणापेक्षत्वाद् रमणीयत्वादेस्तज्ज्ञापनार्थत्वोपपत्तेः ॥ 11 ॥
(306)ओं सुकृतदुष्कृते एवेति तु बादरिः ओम् ॥ 03-01-12 ॥


‘धर्मं चरत माऽधर्मम्’() इत्यादिप्रयोगात् सुकृतदुष्कृते एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् स्वसिद्धान्तोऽपि स एवेति सूचयति।
‘तुशब्दस्तुविशेषे स्यात् स्वसिद्धान्तेऽवधारणे’() इति च नाममहोदधौ ॥ 12 ॥

अनिष्टादिकार्यधिकरणम्

ओं अनिष्टादिकारिणामपि च श्रुतम् ओम् ॥ 13-307 ॥


पुण्याकृतामेव गमनागमने नेतरेषामित्यत आह-
‘‘तद् य इह शुभाकृतो ये चाऽशुभकृतस्तेऽशुभमनुभूयाऽवर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’() इति भाल्लवेयश्रुतौ ॥ 13 ॥
(308)ओं संयमने त्वनुभूयेतरेषाम् आरोहावरोहौ तद्गतिदर्शनात् ओम् ॥ 03-01-14 ॥


‘संयमनमनुभूय केषाञ्चिदारोहः केषाञ्चिदवरोहः । तुशब्दोऽवधारणे ॥
‘‘सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ह ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्य तमसि प्रपतन्ति नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद् वव्रं वा एतदित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुव्रजन्ति’() इति कौण्ठरव्यश्रुतेः ॥ 04 ॥
(309)ओं स्मरन्ति च ओम् ॥ 03-01-15 ॥


‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः ।‘तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ।‘महातमसि मग्नानां न तेषामुत्थितिः क्वचित् ।‘इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ।‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।‘इति सर्वत्र नियमः पञ्चकष्टे तु तत् सदा’() ॥ इत्यादि ॥ 15 ॥

सप्ताधिकरणम्

(310)ओम् अपि सप्त ओम् ॥ 16-310 ॥


‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा ।कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।इति सप्तप्रधानानि बलीयस्तूत्तरोत्तरम् ।एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’ इति च भारते ॥ 16 ॥

तद्व्यापाराधिकरणम्

(311)ओं तत्रापि च तद्व्यापारादविरोधः ओम् ॥ 03-01-17 ॥


ईश्वरस्य नरकायुक्तेः ‘सर्वं विसृजति सर्वं विलापयति सर्वं रमयति सर्वं न रमयति सर्वं प्रवर्तयत्यन्तरस्मिन् निविष्टः’() इति कौषारवश्रुतिविरोध इत्यतो वक्ति –
चशब्दाददुःखानुभवेन ।
‘स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृदेक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात् सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग् य एवं वेद’() इति पौत्रायणश्रुतेरविरोधः ।
‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’(छां.उ.५.१०.८) इति भागवततन्त्रे ॥ 17 ॥

विद्याकर्माधिकरणम्

(312)ओं विद्याकर्मणोरिति तु प्रकृतत्वात् ओम् ॥ 03-01-18 ॥


‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्’(छां.उ.५.१०.८) इति गतिस्वातन्त्र्यं भूतानां प्रतीयत इत्यत आह-
विद्याकर्मापेक्षयैवैतद् वचनम् । तयोरपि प्रकृतत्वात् ।
‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।तद्वर्जितस्त्रिधा याति तिर्यग् वा नरकं तमः’इति च भारते॥ 18 ॥

महातमोऽधिकरणम्

(313)ओं न तृतीये तथोपलब्धेः ओम् ॥ 03-01-19 ॥


‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।अपि नीचगतौ किञ्चित् किमु मानुषदेहिनः’ ॥ इति वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह-
‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग् गच्छति तिर्यग् यातना तम इति । द्वे वाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’() इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ 19 ॥
(314)ओं स्मर्यतेऽपि च लोके ओम् ॥ 03-01-20 ॥


‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ इति भविष्यत्पर्वणि ।
लोकसिद्धं चैतत्। चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।अत्यप्रिये सुखमपि तथैव परमेश्वरः’इति हि ब्राह्मे ॥ 20 ॥
(315)ओं दर्शनाच्च ओम् ॥ 03-01-21 ॥


‘नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसल्लीनान् निश्येषसुखवर्जितान् ॥नित्यमेव तथाभूतान् विमिश्रांश्च गणान् बहून् ।निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥अपश्यत् त्रिविधान् ब्रह्मा साक्षादेव चतुर्मुखः॥’ इति दर्शनवचनाच्च पाद्मे ॥ 21 ॥
(316) ओं तृतीये शब्दावरोधः संशोकजस्य ओम् ॥ 03-01-22॥


तृतीये तृतीयतमसः श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्तिः ॥ 22 ॥
(317)ओं स्मरणाच्च ओम् ॥ 03-01-23 ॥


‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् ।श्रवणादेव मूर्च्छादिरधरस्य यतो भवेत् ॥तस्मान्न विस्तरेणैतत् कथ्यते राजसत्तम॥’ इति कौर्मे ॥ 23 ॥

तत्स्वाभाव्याधिकरणम्

(318)ओं तत्स्वाभाव्यापत्तिरुपपत्तेः ओम् ॥ 03-01-24॥


‘धूमो भूत्वाऽभ्रं भवति’(छां.उ.५.१०.५,काषायणश्रुतौ) इत्याद्यन्यभावः श्रूयते । स कथमित्यतो ब्रवीति-
धूमादिषु प्रविश्य तद्गतौ गतिः स्थितौ स्थितिरित्यादिरेव तद्भावापत्तिः ।
न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः ।
गारुडे च-

धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु ।स्थितौ स्थितिः प्रवेशश्च लघुत्वादिस्तथैव च ॥ न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते ।विद्यागम्यं पदं यस्मात् न तत्प्राप्यं हि कर्मणा॥

एकदेशस्वभावेन वागभेदाऽपि युज्यते ।यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि॥’ इति ॥ 24 ॥

नातिचिरेणाधिकरणम्

(319)ओं नातिचिरेण विशेषात् ओम् ॥ 03-01-25 ॥


बहुस्थानगमनात् कल्पान्तमप्येवं स्यादित्यत आह-
‘तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्यन्ते’(छां.उ.५.१०.७) इति विशेषान्नातिचिरेण ॥
‘स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात् पूर्वमेव तु ।मातुः शरीरमाप्नोति पर्यटन् यत्र तत्र च॥’(छां.उ.५.१०.७) इति च नारदीये ॥ 25 ॥

अन्याधिष्ठिताधिकरणम्

(320)ओम् अन्याधिष्ठिते पूर्ववदभिलापात् ओम् ॥ 03-01-26॥


‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’(छां.उ.५.१०.६) इति श्रवणादनर्थफलत्वं यज्ञादेरित्यतो वक्ति-
अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽस्य ।
‘धूमो भूत्वाऽभ्रं भवति’(छां.उ.५.१०.५) इत्यादिपूर्वोक्तिवत् ॥
‘सोऽवाग्गतः स्थावरान् प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमेति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते’ इत्यभिलापात् कौषारवश्रुतौ ।
‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः ।अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः’इति वाराहे ॥ 26 ॥
(321)ओम् अशुद्धमिति चेन्न शब्दात् ओम् ॥ 03-01-27॥


हिंसारूपत्वात् पापस्यापि सम्भवाद्धुःखं च भवत्विति चेन्न। शब्दविहितत्वात्॥
‘हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत्।वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन’ इति वाराहे॥ 27 ॥

रेतोऽधिकरणम्

(322)ओं रेतःसिग्योगोऽथ ओम् ॥ 03-01-28॥


‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इति वचनात् ‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’इति श्रुतिः कथमित्यत आह-
‘ततो रेतःसिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतो विशति।
मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ 28 ॥

योन्यधिकरणम्

(323)ओं योनेः शरीरम् ओम् ॥ 03-01-29॥


‘देहं गर्भस्थितं क्‍वापि प्रविशेत् स्वर्गतो गतः’ इति वचनात् पश्चादेव प्रविशतीत्यत आह-
पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति ।
‘दिवः स्थास्नून् गच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति सम्मितमथासम्मितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा’ इति पौष्यायणश्रुतेः ॥
‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् ।पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥

देहेन जायते जन्तुरिति सामान्यतो जनिः ।विशेषवचनं(जननं) चापि प्रोच्यमानं निबोध मे ॥

स्थास्नुष्वथापि पुरुषे प्रमादायामथापि वा ।गर्भे वा बहिरेवाथ क्वचित् स्थानान्तरेषु च॥’इति ब्राह्मे ॥ 29 ॥

द्वितीयः पादः

भक्तिरस्मिन् पाद उच्यते। भक्त्यर्थं भगवन्महिमोक्तिः।

सन्ध्याधिकरणम्

(324)ओं सन्ध्ये सृष्टिराह हि ओम् ॥ 03-02-01 ॥


न स्वप्नोऽपि तं विना प्रतीयते ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते’(बृ.उ.६.३.१०) इत्यादि श्रुतेः ॥ 01 ॥
(325)ओं निर्मातारं चैके पुत्रादयश्च ओम् ॥ 03-02-02॥


‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः’(क.उ.२.२.८) इति च । ‘एतस्माद्ध्येव पुत्रो जायत एतस्माद् भ्रातैतस्माद्भार्या यदेनं पुरुषमेष स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ॥ 02 ॥
(326)ओं मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ओम् ॥03-02-03॥


केन साधनेन ?-
अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति।
नान्येन साधनेन, सम्यगनभिव्यक्तत्वात् ।
ब्रह्माण्डे च –

‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।प्रदर्शयति जीवाय स्वप्न इति गीयते ॥

यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत्॥’ इति ॥ 03 ॥
(327)ओं सूचकश्च हि श्रुतेराचक्षते च तद्विदः ओम् ॥ 03-02-04 ॥


साधनान्तराभावेऽपि भावाभावसूचकत्वेनेश्वरो(न चेश्वरो) दर्शयति ।
‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति ।समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने॥’(छां.उ.५.२.८) इत्यादिश्रुतेः । हिशब्दाद्दर्शनाच्च।
‘यद्वाऽपि ब्राह्मणो ब्रूयाद् देवतावृषभोऽपि वा ।स्वप्नस्थमथवा राजा तत् तथैव भविष्यति॥’ इत्याद्याचक्षते च स्वप्नविदो व्यासादयः ॥ 04 ॥

पराभिध्यानाधिकरणम्

(328)ओं पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ओम् ॥03-02-05॥


बन्धमोक्षप्रदत्वात् स एव स्वप्नादितिरस्कर्ता ।
‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च ।तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ इति कौर्मे ॥ 05 ॥

देहयोगाधिकरणम्

(329)ओं देहयोगाद्वासोऽपि ओम् ॥ 03-02-06 ॥


देहयोगेन वासो जाग्रदपि तत एव ।
‘स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट् स एको बहुधा भवति’ इति कौण्ठरव्यश्रुतेः ॥ 06 ॥

तदभावाधिकरणम्

(330)ओं तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ओम् ॥ 03-02-07॥


जाग्रत्स्वप्नाभावः सुप्तिर्नाडीस्थे परमात्मनि ।
‘आसु तदा नाडीषु सुप्तो भवति’(छां.उ.८.६.३), ‘सता सोम्य तदा सम्पन्नो भवति’(छां.उ.६.८.१) इति श्रुतेः ॥ 07 ॥

प्रभोधाधिकरणम्

(331)ओम् अतः प्रभोधोऽस्मात् ओम् ॥ 03-02-08॥


यतस्तस्मिन् सुप्तिः । ‘एष एव सुप्तं प्रभोधयत्येतस्माज्जीव उत्तिष्ठत्येष प्रमातैष परमः’ इति कौण्डिन्यश्रुतिः ॥ 08 ॥

कर्मानुस्मृत्यधिकरणम्

(332)ओं स एव च कर्मानुस्मृतिशब्दविधिभ्यः ओम् ॥ 03-02-09॥


न च केषाञ्चित् स्वप्नादिकर्ता न तु सर्वेषामिति ।‘एष ह्येव(एनं) साधु कर्म कारयति’(कौ.ब्रा.३.९) इति कर्मण्यवधारणात् ॥
‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु ।परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ॥ ‘एष स्वप्नान् दर्शयत्येष प्रबोधयत्यथैष एव परम आनन्दः’ इति च श्रुतिः ॥
‘आत्मानमेव लोकमुपासीत’(बृ.उ.३.५.९(१.४.१५)) इति च विधिः ॥ 09 ॥

सम्पत्त्यधिकरणम्(मुग्धप्राप्त्यधिकरणम्)

(333)ओं मुग्धेऽर्धसम्पत्तिः परिशेषात् ओम् ॥ 03-02-10॥


मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।
‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः’इति वाराहे ॥
सोऽपि तत एवेति सिद्धम् ।
‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।स ईशः परमो ज्ञेयः परमानन्दलक्षणः’इति हि कौर्मे ॥ 10 ॥

स्थान(तोऽप्य)भेदाधिकरणम्

(334)ओं न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ओम् ॥ 03-02-11 ॥


स्थानापेक्षया परमात्मनोऽपि भेदादनुग्राह्यानुग्राहकभाव इत्यत आह-
स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् ।
‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’(ऐ.आ.३.२.३) इति श्रुतिः ।
‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।ऐश्वर्याद् रूपमेकं च सूर्यवद्बहुधेयते’ इति मात्स्ये ॥
‘प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः’(भाग.१.९.४९/४२) ॥ इति च भागवते ॥ 11 ॥
(335)ओं न भेदादिति चेन्न प्रत्येकमतद्वचनात् ओं॥ 03-02-12 ॥


‘कार्यकारणबद्धौ ताविष्येते विश्वतेजसौ ।प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः’(मां.उ.२.३/२.१६) ॥ इति भेदवचनान्नेति चेत्, न ।
‘एष त आत्माऽन्तर्याम्यमृतः’(बृ.उ.५.७.३),‘अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’(बृ.उ.४.५.१),‘अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च । तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयामात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्(बृ.उ.४.५.१९)’ इति प्रत्येकमभेदवचनात् ॥ 12 ॥
(336)ओम् अपि चैवमेके ओम् ॥ 03-02-13 ॥


‘अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।ओङ्कारो विदितो येन स मुनिर्नेतरो जनः’(मां.उ.४.७) इति ।
अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च युज्यते ।
‘बद्धो बन्धादिसाक्षित्वाद् भिन्नो भिन्नेषु संस्थितेः ।निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः’ इति ॥ 13 ॥

अरूपाधिकरणम्

(337)ओम् अरूपवदेव हि तत्प्रधानत्वात् ओम् ॥ 14-337 ॥


रूपवत्त्वादनित्यत्वमित्यतो वक्ति-
प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद् ब्रह्म । हि शब्दाद् ‘अस्थूलमनणु’(बृ.उ.५.८.८) इत्यादिश्रुतेश्च ।
‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।अरूपवानतः प्रोक्तः क्व तदव्यक्ततः परे’ इति च मात्स्ये॥ 14 ॥
(338)ओं प्रकाशवच्चावैयर्थ्यम् ओम् ॥ 03-02-15 ॥


‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’(मुं.उ.३.१.३),‘श्यामाच्छबलं प्रपद्ये’(छां.उ.८.१३.१),‘सुवर्णज्योतिः’(तै.उ.३.१०) इत्यादिश्रुतीनां च न वैयर्थ्यम् । विलक्षणरूपवत्वात् ।
यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रकाशादिव्यवहारः ॥ 15 ॥
(339)ओम् आह च तन्मात्रम् ओम् ॥ 03-02-16 ॥


वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं ‘ऐकात्म्यप्रत्ययसारम्’(मां.उ.२.१) इति ।आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृष्यमानम् ।तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्’इति चतुर्वेदशिखायाम् ॥ 16 ॥
(340)ओं दर्शयति चाथो अपि स्मर्यते ओम् ॥ 03-02-17 ॥


दर्शयति चानन्दस्य रूपत्वं ‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’(मुं.उ.२.२.८) इति ॥‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ।चिन्तयीति यतिर्नान्यं ज्ञानरूपादृते हरेः’ इति च मात्स्ये॥ 17 ॥

उपमाधिकरणम्

(341)ओम् अत एव चोपमा सूर्यकादिवत् ओम् ॥ 03-02-18 ॥


यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद् भेदः, अत एव सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा ‘च’शब्देन भेदं दर्शयति ।
‘रूपं रूपं प्रतिरूपो बभूव’(बृ.उ.४.५.१९)।
‘बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले ।एवमेवाऽत्मका लोके परात्मसदृशा मताः’ इत्यादि ॥
अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा नोपाध्यधीनत्वादिना ॥ 18 ॥

अम्बुवदधिकरणम्

(342)ओम् अम्बुवदग्रहणात् तु न तथात्वम् ओम् ॥ 03-02-19॥


नित्यसिद्धत्वात् सादृश्यस्य नित्यानन्दज्ञानादेर्न भक्तिज्ञानादि(ना)प्रयोजनमित्यतो ब्रवीति-
अम्बुवद् स्नेहेन । ग्रहणं ज्ञानम्। भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यते ।
‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’(क.उ.१.२.२३) इति हि श्रुतिः।
‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते ।तयैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’ इति पाद्मे ॥ 19 ॥

वृद्धिह्रासाधिकरणम्

(343)ओं वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ओम् ॥03-02-20॥


तस्य च भक्तिज्ञानदेर्वृद्धिह्रासभाक्त्वं विद्यते । ब्रह्मादीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् ।
एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीन् अन्यान् प्रति च सामञ्जस्यं भवति।
‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः’ इति च ब्राह्मे ॥ 20 ॥
(344)ओं दर्शनाच्च ओम् ॥ 03-02-21 ॥


कुतः? –
अथात ‘आनन्दस्य मीमांसा भवति’(तै.उ.२.८.१) इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् ।चशब्दात् स्मृतिः-‘यथा भक्तिविशेषोऽत्र दृष्यते पुरुषोत्तमे ।तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने’ इति ॥ 21 ॥

पालकत्वाधिकरणम्

(345)ओं प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ओम् ॥ 03-02-22 ॥


सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह-
उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति- ‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’(ऋ.सं.१०.३१.८) इति ।
च शब्दात् स्मृतिश्च ।‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।एक एव करोतीशः सर्वस्य जगतो हरिः’इति ब्रह्माण्डे ॥ 22 ॥

अव्यक्ताधिकरणम्

(346)ओं तदव्यक्तमाह हि ओम् ॥ 03-02-23॥


परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते-
अव्यक्तमेव तद्ब्रह्म स्वतः । ‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्क(ष्फ)लम्।यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत्॥’ इति हि कौण्ठरव्यश्रुतिः ॥ 23 ॥
(347)ओम् अपि संराधने प्रत्यक्षानुमानाभ्याम् ओम् ॥ 03-02-24 ॥


आराधनेऽप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन।
‘न तमाराधयित्वाऽपि कश्चिद् व्यक्तीकरिष्यति ।नित्याव्यक्तो यतो देवः परमात्मा सनातनः॥’ इति ब्रह्मवैवर्ते ॥ 24 ॥
(348)ओं प्रकाशवच्चावैशेष्यम् ओम् ॥ 03-02-25 ॥


नित्याव्यक्तरूपेण तथैव तिष्ठति; व्यक्तं किञ्चिद् रूपं गृहीत्वा दृश्यते; यधाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्ते। एवं इति चेत्, न-
अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात्।
‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परमः’ इति माण्डव्यश्रुतेः ।
‘स्थूलसूक्ष्मविशेषोऽत्र न क्‍वचित् परमेश्वरे ।सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः’ इति च गारुडे ॥
‘अव्यक्तव्यक्तभावौ च न क्‍वचित् परमेश्वरे ।सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः’ इति च कौर्मे ॥ 25 ॥
(349)ओं प्रकाशश्च कर्मण्यभ्यासात् ओम् ॥ 03-02-26॥


तर्हि किं यत्नेन? इत्यत आह-
विषयभूते तस्मिन्नेव श्रवाणाध्यभ्यासात् प्रकाशश्च भवति ।
‘आत्मा वा अरे द्रष्टव्यः श्रोदव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ.४.४.५)इति श्रुतेः ॥ 26 ॥
(350)ओम् अतोऽनन्तेन तथा हि लिङ्गम् ओम् ॥ 03-02-27॥


नित्याव्यक्तस्य कथं प्रकाशः ? इत्यत उच्यते-
उभयत्र प्रमाणभावात् तत् प्रसादादेव प्रकाशो भवति ।
‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे.उ.१.१०) इति लिङ्गात् । युज्यते च तस्यानन्तशक्तित्वात् ।
नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः।तमृते परमात्मानं कः पश्येतामितं प्रभुम्’इति नारायणाध्यात्मे॥27॥

उभयव्यपदेशाधिकरणम्(अहिकुण्डलाधिकरणम्)

(351)ओम् उभयव्यपदेशात्त्वहिकुण्डलवत् ओम् ॥ 03-02-28॥


स्वरूपेणानन्दादिना कथमानन्दित्वादिः? इत्यत(तत्रो) उच्यते-
‘आनन्दं ब्रह्मणो विद्वान्’(तै.उ.२.४.), ‘अथैष एव परम आनन्दः’(बृ.उ.६.३.३३) इत्युभयव्यपदेशात्, अहिकुण्डलवदेव युज्यते ।
यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात् केवलश्रुतिगम्यत्वं दर्शयति ॥ 28 ॥
(352) ओं प्रकाशाश्रयवद्वा तेजस्त्वात् ओम् ॥ 03-02-29॥


यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च, एवं वा दृष्टान्तः। तेजोरूपत्वाद् ब्रह्मणः ॥ 29 ॥
(353)ओं पूर्ववद् वा ओम् ॥ 03-02-30 ॥


यथा एक एव कालः पूर्व इत्यवच्छेदकोऽवच्छेद्यश्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः।
स्थूलमतीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः ।
‘प्रकाशवत् कालवद्वा यथाऽङ्गे शयनादिकम् ।ब्रह्मणश्चैव मुक्तानामानन्दोऽभिन्न एव तु’ इति नारायणाध्यात्मे।
‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत्।कालवद् वा यथा कालः स्वावच्छेदकतां व्रजेत्॥’ इति पाद्मे(ब्राह्मे) ॥ 30 ॥
(354)ओं प्रतिषेधाच्च ओम् ॥ 03-02-31॥


‘एकमेवाद्वितीयम्’(छां.उ.६.२.१) ।‘नेह नानाऽस्ति किञ्चन’(क.उ.२.४.११) इति भेदस्य ॥ 31 ॥

परानन्दा(परमता)धिकरणम्

(355)ओं परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ओम् ॥ 03-02-32॥


न चानन्दादित्वाल्लोकानन्दादिवत् । ‘एष सेतुर्विधृतिः’(छां.उ.८.४.१), ‘य एष आनन्दः परस्य’, ‘एष नित्यो महिमा ब्राह्मणस्य’(बृ.उ.६.४.२३) इति सेतुत्वं ह्युच्यते। ‘यतो वाचो निवर्तन्ते’(तै.उ.२.४) इत्युन्मानत्वम्। ‘एतस्यैवाऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’(बृ.उ.६.३.३२) इति सम्बन्धः।‘अन्यज्ञानं तु जीवानामन्यज्ज्ञानं परस्य चनित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ इति भेदः ॥ अतोऽलौकिकत्वात् परमेव ब्रह्मानन्दादिकम् ॥ 32 ॥
(356)ओं दर्शनात् तु ओम् ॥ 03-02-33॥


दर्शनादेव चान्यानन्दादीनाम् । ‘अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते’ इति हि कौण्डिन्यश्रुतिः ॥ 33 ॥
(357)ओं बुद्ध्यर्थः पादवत् ओम् ॥ 03-02-34॥


अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेशः? इत्यतो वक्ति –
जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा ‘पाद’शब्देन व्यपदिश्यते ‘पादोऽस्य विश्वा भूतानि’(ऋ.सं.१०.९०.३) इति, तथा ।
‘अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते ।ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्’ इति च पाद्मे ॥ 34 ॥

स्थानविशेषाधिकरणम्

(358)ओं स्थानविशेषात् प्रकाशादिवत् ओम् ॥ 03-02-35 ॥


परानन्दमात्रात्वे कथं ब्रह्माद्यानन्दादीनां विशेषः? इत्यत उच्यते –
यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बविशेष एवमानन्दादेरपि ।
‘ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य(आनन्दः परमस्य) च ।प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः’ इति वाराहे ॥ 35 ॥
(359)ओम् उपपत्तेश्च ओम् ॥ 03-02-36॥


‘ऐश्वर्यात् परमाद्विष्णोर्भक्त्यादीनामनादितः ।ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’ इति हि पाद्मे ॥ 36 ॥

प्रतिषेधाधिकरणम् (तथान्यत्वाधिकरणम्)

(360)ओं तथाऽन्यत् प्रतिषेधात् ओम् ॥ 03-02-37 ॥


ध्यानकाले यच्चित्ते प्रदृष्यते तदेव हि ब्रह्मरूपम् । अतः कथमव्यक्तता ? इत्यत आह-
यथा जीवानन्दादेरन्यद् ब्रह्म तथोपासाकृतादपि ।
‘यन्मनसा न मनुते येनाहुर्मनो मतम् ।तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’(केन.उ.१.६) इति प्रतिषेधात् ।
‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् ।ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥
तदुपासनं च भवति प्रतिमोपासनं यथा ।
दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् ।उपासना त्वापरोक्ष्यं गमयेत् तत्प्रसादतः’इति च ब्रह्मतर्के ॥ 37 ॥

सर्वगतत्वाधिकरणम्

(361)ओम् अनेन सर्वगतत्वमायामयशब्दादिभ्यः ओम् ॥ 03-02-38 ॥


देशकालान्तरेऽन्यतोऽपि सृष्ट्याधिर्युक्तेत्यतो ब्रूते-
सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते । ‘एष सर्व एष सर्वगत एष ईश्वर एषोऽचिन्त्य एष परमः’ इति हि भाल्लवेयश्रुतिः
‘सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुषु ।स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः। अतो मायामयं विष्णुं प्रवदन्ति सनातनम्॥’इति हि चतुर्वेदशिखायाम् । आदिशब्दादन्यत्र प्रमाणाभावाच्च ॥ 38 ॥

फलदानाधिकरणम्

(362)ओं फलमत उपपत्तेः ओम् ॥ 03-02-39॥


कर्मापेक्षत्वात् फलदानस्य तदेव ददातीति न वाच्यम् । कुतः ?-
अत एवेश्वरात् फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ॥ 39 ॥
(363)ओं श्रुतत्वाच्च ओम् ॥ 03-02-40 ॥


‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’(बृ.उ.५.९.२८) इति ॥ 40 ॥
(364)ओं धर्मं जैमिनिरत एव ओम् ॥ 03-02-41 ॥


यतः फलं तदेव कर्मेश्वराद् भवति । ‘एष ह्येव साधु कर्म कारयति’(कौशीतकि ब्राह्मण.३.८) इति श्रुतेरिति जैमिनिः ॥ 41 ॥
(365)ओं पूर्वं तु बादरायणो हेतु व्यपदेशात् ओम् ॥ 03-02-42॥


परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म परप्रवर्तकम् । पर एव कर्मणः प्रवर्तकः । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’(प्र.उ.३.७) इति हेतुव्यपदेशात् । ‘द्रव्यं कर्म च कालश्च’(भाग.२.५.१४) इति च ॥ 42 ॥

तृतीयः पादः

उपासनाऽस्मिन् पाद उच्यते। सर्वपरिज्ञानं प्रथमत उच्यते-

सर्वेवेदाधिकरणम्

(366)ओं सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ओम् ॥ 03-03-01 ॥


अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’(भ.गी.२.१६) इति वचनात् ।
सर्ववेद निर्णयोत्पाद्यज्ञानं ब्रह्म ।‘आत्मेत्येवोपासीत’(बृ.उ.३.४.७) इत्यादिविधीनां तदुक्तयुक्तीनां चाविशिष्टत्वात् ॥ 01 ॥
(367)ओं भेदान्नेति चेदेकस्यामपि ओम् ॥ 03-03-02 ॥


‘विज्ञानमानन्दं ब्रह्म’(बृ.उ.५.९.२८)‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ.२.१) इत्यादि प्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न ।
एकस्यामपि शाखायां ‘आत्मेत्येवोपासीत’(बृ.उ.३.४.७)‘कं ब्रह्म खं ब्रह्म’(छां.उ.४.१०.५) इत्यादिभेददर्शनात् ॥ 02 ॥
(368)ओं स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ओम् ॥ 03-03-03 ॥


‘स्वाध्यायोऽध्येतव्यः’(तै.आ.२.१५) इति सामान्यविधेः ।
हिशब्दात् वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’इति स्मृतेः ।
‘सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः ।आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥
‘सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः ।शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’() इति समाचारे सर्वेषामधिकाराच्च ॥ 03 ॥
(369)ओं सलिलवच्च तन्नियमः ओम् ॥ 03-03-04 ॥


यथा सर्वं सलिलं समुद्रं गच्छति एवं सर्वाणि वचनानि ब्रह्मज्ञानार्थानीति नियमः ।
आग्नेये च – ‘यथा नदीनां सलिलं शक्ये सागरगं भवेत् ।एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये’() इति ॥ 04 ॥
(370)ओं दर्शयति च ओम् ॥ 03-03-05 ॥


‘सर्वैश्च वेदैः परमो हि देवो जीज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत् ।तस्मादेनं सर्वेवेदानदीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’ इति चतुर्वेदशिखायाम् ।‘सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् ।सपञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा’इति ब्रह्मतर्के ॥ 05 ॥

उपसंहाराधिकरणम्

(371)ओम् उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ओम् ॥ 03-03-06 ॥


सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह-
सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः ।
‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतीहासैः ।सपञ्चरात्र्यै सपुराणैश्च देवः सर्वगुणैस्तत्र तत्र प्रतीतैः’इति भाल्लवेयश्रुतिः ।
आग्नेये च-विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः ।योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ ॥ इति ॥
समानविषये चोपसंहारः । न तु ‘सोऽरोदीत्’(तै.सं.१.५.१) इत्यादिनाम् ।गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन।गुणैरपि न तूपास्यो यो पूर्णत्वविरोधिनः’इति बृहत्तन्त्रे ॥ 06 ॥
(372)ओम् अन्यथात्वं शब्दादिति चेन्नाविशेषात् ओम् ॥ 03-03-07 ॥


‘आत्मेत्येवैपासीत’(बृ.उ.३.४.७) इतिशब्दादुपसंहारस्यान्यथात्वमिति चेत्,
न। एते गुणा नोपास्य इति विशेषवचनाभावात् । ‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’() इति विशेषवचनाच्च ।
आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥
(373)ओं न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ओम् ॥ 03-03-08 ॥


प्रकरणभेदान्नवोपसंहारः कार्यः ।
परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥
(374)ओं सङ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ओम् ॥ 03-03-09 ॥


सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नाऽत्मवित्’(छां.उ.७.१.३) इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः ।‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृतिः ।कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा’ इति च ब्रह्मतर्के ॥
इति चेत् सत्यम् । उक्तो ह्युपसंहारः ।
तत्प्रमाणमप्यस्त्येव । ‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’ इति कौण्डिन्यश्रुतौ ॥ 09 ॥

प्राप्त्यधिकरणम्

(375)ओं प्राप्तेश्च समञ्जसम् ओम् ॥ 03-03-10 ॥


युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।
‘गुणैः सर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’ इति भविष्यत्पर्वणि ॥ 10 ॥

सर्वभेदाधिकरणम्

(376)ओं सर्वाभेदादन्यत्रेमे ओम् ॥ 03-03-11 ॥


सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति ।
‘सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग् भवेत् ।इतरे तु यथायोगं सम्यङ् मुक्तौ भवन्ति हि’ इति पाद्मे ॥ 11 ॥

आनन्दाद्यधिकरणम्

(377)ओम् आनन्दादयः प्रधानस्य ओम् ॥ 03-03-12 ॥


सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति अत आह-
प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।
‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता’इति ब्रह्मतर्के ॥ 12 ॥

प्रियशिरस्त्वाधिकरणम्

(378)ओं प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ओम् ॥ 03-03-13 ॥


॥ इति प्रियशिरस्त्वाधिकरणम् ॥ 06 ॥
फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिः ।
‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता’ इति (हि) वाराहे ॥ 13 ॥

इतराधिकरणम्

(379)ओम् इतरे त्वर्थसामान्यात् ओम् ॥ 03-03-14 ॥


इतरे गुणाः फलसाम्यापेक्षयोपसंहर्थव्याः ॥ 14 ॥

आध्यानाधिकरणम्

(380)ओम् आध्यानाय प्रयोजनाभावात् ओम् ॥ 03-03-15 ॥


उपसंहारानुपसंहारप्रमाणमाह –
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥
‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा ।ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥नान्यत् प्रयोजनं ज्ञानात् ध्यानात् कर्मकृतेरपि ।श्रवणाच्चाथ पाठाद्वा विद्याभिः कञ्चिदिष्यते’ इति परमसंहितायाम् ॥
‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत्’() ॥
ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् ।मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’इति बृहत्तन्त्रे ॥ 15 ॥
(381)ओम् आत्मशब्दाच्च ओम् ॥ 03-03-16 ॥


‘आत्मेत्येवोपासीत’(बृ.उ.६.४.७) इत्यनुपसंहारप्रमाणम् ॥ 16 ॥

आत्मगृहीत्यधिकरणम्

(382)ओम् आत्मगृहीतिरितवदुत्तरात् ओम् ॥ 17-382 ॥


न च ‘आनन्दादयः प्रधानस्य’(ब्र.सू.३.३.१२) इत्युक्तिविरोधः । यतः ‘सत्यं ज्ञानमनन्तम् ब्रह्म’(तै.उ.२.१)।‘विज्ञानमानन्दम् ब्रह्म’() इतिवदेवात्मशब्दगृहीतिः ।
‘अत्र ह्येते सर्व एकीभवन्ति’(बृ.उ.३.४.७) इत्युत्तरात् ।‘आनन्दानुभवत्त्वाच्च निर्दोषत्वाच्च भण्यते ।नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः’ इति (हि) बृहत्तन्त्रे ॥ 17 ॥

अन्वयाधिकरणम्

(383)ओम् अन्वयादिति चेत् स्यादवधारणात् ओम् ॥ 03-03-18 ॥


सर्वगुणानामान्वय आत्म शब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’() इति वचनादिति चेत्,
सत्यम् । स्याच्च्यैवम् । ‘आत्मेत्येव’(बृ.उ.३.४.७) इत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥

कार्याख्यानाधिकरणम्

(384)ओं कार्याख्यानादपूर्वम् ओम् ॥ 03-03-19 ॥


‘अलौकिकास्तस्य गुणा ह्युपास्य अलौकिकं मुक्तिकार्यं यतोऽस्य’()इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥

समानाधिकरणम्

(385)ओं समान एवं चाभेदात् ओम् ॥ 03-03-20 ॥


अपूर्वत्वेऽपि समानानामेवोपसंहारः। न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ॥ 20 ॥

नवाधिकरणम्

(386)ओं सम्बन्धादेवमन्यत्रापि ओम् ॥ 03-03-21 ॥


परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते।
‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः ।विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः’ इति बृहत्तन्त्रे ॥ 21 ॥
(387)ओं न वा विशेषात् ओम् ॥ 03-03-22 ॥


न वाऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥
(388)ओं दर्शयति च ओम् ॥ 03-03-23 ॥


॥ इति नवाधिकरणम् (विशेषणाधिकरणम्) ॥ 13 ॥
‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’ इति भाल्लवेयश्रुतिः ॥ 23 ॥

सम्भृत्यधिकरणम्

(389)ओं सम्भृतिद्युव्याप्त्यपि चातः ओम् ॥ 03-03-24 ॥


सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् ।
‘देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः ।आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत्’ इति च ब्रह्मतर्के ॥ 24 ॥

पुरुषविद्याधिकरणम्

(390)ओं पुरुषविद्यायामपि चेतरेषामनाम्नानात् ओम् ॥ 03-03-25 ॥


यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितराऽन्येषामिति चेत्, न –
पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् ।
‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।तत्रापि नैव सर्वेऽपि तस्मात् कार्योपसंहृतिः’इति ब्रह्मतर्के ॥ 25 ॥

वेधाद्यधिकरणम्

(391)ओं वेधाद्यर्थभेदात् ओम् ॥ 03-03-26 ॥


‘भिन्धि विद्ध्यश्रुणीहीति फलभेदेन सर्वशः ।यत्यादीनां तेष्वयोगान्नाधिकार्येकता भवेत् ।अयोग्योपासनादीयुरनर्थं चार्थनाशनम्’ इति बृहत्तन्त्रे ॥

(मुक्तोपासनाधिकरणम्) हान्यधिकरणम्

(392)ओं हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत् तदुक्तम् ओम् ॥ 03-03-27॥


मुक्तस्योपासना कर्तव्या न वा ? इत्यतोऽब्रवीत् –
नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः ।‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१.१) इति मोक्षवाक्यशेषत्वादितरेषाम् ॥ तच्चोक्तम् ‘एतत् सामगायन्नास्ते’(तै.उ.३.१०) इत्यादि ।
ब्रह्मतर्के च- ‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥
‘कृष्णो मुक्तैरिज्यते वीतमोहैः’ इति च भारते ॥ 27 ॥
(393)ओं साम्पराये तर्तव्याभावात् तथा ह्यन्ये ओम् ॥ 03-03-28 ॥


स्वेच्छयैवेत्यङ्गीकर्तव्यम् । मुक्तस्य तीर्णत्वात् ।‘तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’(बृ.उ.३.३.२२) इति ह्यन्ये पठन्ति ।
‘स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः ।ब्रह्मलोकं गताः सर्वे ब्रह्मणा च परं गताः ।तीर्णतर्तव्यभागाश्च स्वेच्छयोपासते परम्’() इति ॥ 28 ॥

छन्दाधिकरणम्

(394)ओं छन्दत उभयाविरोधात् ओम् ॥ 03-03-29 ॥


कर्मापि कुर्वन्ति न वा ? इत्यत आह –
स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥
(395)ओं गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ओम् ॥ 03-03-30 ॥


बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥
‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम्’() ॥
तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’इति हि ब्रह्माण्डे ॥ 30 ॥
(396)ओम् उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ओम् ॥ 03-03-31 ॥


उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥

अनियमाधिकरणम्

(397)ओम् अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ओम् ॥ 03-03-32 ॥


प्राप्तज्ञानानामपि केषाञ्चिन्मुक्तिप्राप्तिः केषाञ्चिन्न, यथोपसंहारनियम इति न मन्तव्यम् ।‘सर्वेगुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’() इत्युपसंहारविरोधादन्यत्राविरोधात् ।
‘न कश्चिद्ब्रह्मवित् सृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः सृतिहेति’() इति कौण्डन्यश्रुतेश्च ।
यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्च॥ 32 ॥

यावदधिकाराधिकरणम्

(398)ओं यावदधिकारमवस्थितिराधिकारिकाणाम् ओम् ॥ 03-03-33 ॥


यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते ।‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यः ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्दः’ इति चतुर्वेदशिखायाम् ।
‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥
(399)ओम् अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् ओम् ॥ 03-03-34 ॥


न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । औपसदवच्छिष्यवत् ।
‘नानाविधा जीवसङ्घा विमुक्तौन चैव तेषां ब्रह्मधियां विरोधः।दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥

इयदामननाधिकरणम्

(400)ओम् इयदामननात् ओम् ॥ 03-03-35 ॥


नामाध्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम्। न प्राणात् किञ्चिद् भूय उक्तम् । तथाऽपि पूर्ववत् स्यात् इति(स्यादपीति) न वाच्यम् ।
प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान् प्राणो ह्येव भूयांस्तस्माद्भूयान् नाम’ इति कौण्ठरव्यश्रुतेः ॥ 35 ॥
(401)ओम् अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ओम् ॥ 03-03-36 ॥


यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेत्,
न। प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम्। दृष्यते चान्यत्रोत्तमत्वम् ॥ 36 ॥
(402)ओम् अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ओम् ॥ 03-03-37 ॥


प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चेत्,
न। श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात् परमात्मनो ह्युपदिष्टम् ॥ 37 ॥

व्यतिहाराधिकरणम्

(403)ओं व्यतिहारो विशिंषन्ति हीतरवत् ओम् ॥ 03-03-38 ॥


नेति चेत्, न-
उक्तं प्राणात् परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण‘एष तु वा अतिवदति’(छां.उ.७.१६) इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।
‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ ॥इति च बृहत्तन्त्रे ॥ 38 ॥

सत्याद्यधिकरणम्

(404)ओं सैव हि सत्यादयः ओम् ॥ 03-03-39 ॥


कृतिर्निष्ठा ज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेत्, न –
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः ।
‘नामादिप्राणपर्यन्ताद्योहि सत्यादिरूपवान् ।तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥
‘सत्याद्या अहमात्मान्ताः यद्गुणाः समुदीरिताः ।तस्मै नमो भगवते यस्मादेव विमुच्यते’इति चाध्यात्मे ॥ 39 ॥

कामाधिकरणम्

(405)ओं कामादितरत्र तत्र चायतनादिभ्यः ओम् ॥ 03-03-40 ॥


प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इति अत्रोच्यते-
स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्र चावतारान् करोतीश्वरेच्छानुसारेण ।‘सर्वायतना सर्वकाला सर्वेच्छा सर्वज्ञा सर्वावस्था न बद्धा बन्धिका सैषा प्रकृतिविकृतिः’ इति वत्सश्रुतेः ।
‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च ।उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् ।नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’इति ब्रह्मतर्के ॥ 40 ॥
(406)ओम् आदरादलोपः ओम् ॥ 03-03-41 ॥


अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।
‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकामाऽपि सर्वदा ।उपास्ते नित्यशो विष्णमेवं भक्तो हरेर्भवेत्’ इति बृहत्तन्त्रे ॥ 41 ॥
(407)ओम् उपस्थितेस्तद्वचनात् ओम् ॥ 03-03-42 ॥


अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥

निर्धारणाधिकरणम्

(408)ओं तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः पलम् ओं॥ 03-03-43 ॥


दर्शनार्थं ह्युपासनम् । तच्च श्रवणादेरेव भवति । अतः किमर्थमिति अत्रोच्यते–
तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव ।
हिशब्देन ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’(बृ.उ.४.४.५) इति श्रुतिं सूचयति ।
श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः ।

ब्रह्मतर्के च –

‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’() इति ॥ 43 ॥

प्रदानाधिकरणम्

(409)ओं प्रदानवदेव हि तदुक्तम् ओम् ॥ 03-03-44 ॥


न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति।‘आचार्यवान् पुरुषो वेद’(छां.उ.६.१४.२) इति ह्युक्तम् ॥ 44 ॥

गुरुप्रसादाधिकरणम् (लिङ्गभूयस्त्वाधिकरणम्)

(410)ओं लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ओम् ॥ 03-03-45 ॥


गुरुप्रसादः स्वप्रयत्नो वा बलवानिति निगद्यते-
ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन‘भगवांस्त्वेव मे कामं ब्रूयात्’(छां.उ.४.९.२), श्रुतं ह्येव भगवद्दृशेभ्य आचार्याद्‍ध्वेव विद्या विदिता साधिष्ठं प्रापयति’(छां.उ.४.९.३) इति वचनात् ।‘अत्र ह न किञ्चन वीयाय’(छां.उ.४.९.३) इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रसाद एव बलवान्(गुरुप्रदानमेव बलवत्) ।
तर्हि तावताऽलमिति न मन्तव्यम् ।‘श्रोतव्यो मन्तव्यः’(बृ.उ.४.४.५) इत्यादेस्तदपि कर्तव्यम् ।

वाराहे च –

‘गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् ।तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’() इति ॥ 45 ॥

पूर्वविकल्पाधिकरणम्

(411)ओं पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ओम् ॥ 03-03-46 ॥


न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् ।
मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।गृह्णीयादविचारेण विकल्पः समयोर्भवेत्’ ॥
समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् ।ऋषभाद्यनुज्ञया चैष प्राप तस्माद्धि युज्यते’इति बृहत्तन्त्रे ॥
‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि ।कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’इति महासंहितायाम् ॥ 46 ॥
(412)ओम् अतिदेशाच्च ओम् ॥ 03-03-47 ॥


‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतिदेशाच्च॥ 47 ॥

विद्याधिकरणम्

(413)ओं विद्यैव तु निर्धारणात् ओम् ॥ 03-03-48 ॥


न च‘कर्मण्यैव हि संसिद्धिमास्थिता जनकादयः’(भ.गी.३.२०)इत्यादिनाऽन्यन्मोक्षसाधनम् ।
‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’(श्वे.उ.३.८) इति निर्धारणाद् विद्ययैव मोक्षः ॥ 48 ॥
(414)ओं दर्शनाच्च ओम् ॥ 03-03-49 ॥


न केवलं विद्यया किन्त्वपरोक्षज्ञानेनैव च।
‘सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’ इति कौशिकश्रुतेः ॥ 49 ॥

अबाधाधिकरणम् (श्रुत्यधिकरणम्)

(415)ओं श्रुत्यादिबलीयास्त्वाच्च न बाधः ओम् ॥ 03-03-50 ॥


सावधारणा बलवति श्रुतिः ।‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपसन्नः॥न कर्मभिर्न धनैर्नैव चान्यैः पश्येत् सुखं तेन तत्त्वं ब्रवीहि’इति बलवल्लिङ्गम् ॥‘नास्त्यकृतः कृतेन’(मुं.उ.१.२.१२) इत्युपपत्तिश्च ।
‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’इति युक्तिमद्बगवद्वचनम् ॥
अतो न प्रमाणान्तरबाधः ।‘कर्मण्यैव’(भ.गी.३.२०) इत्ययोगव्यवच्छेदः ॥ 50 ॥

अनुबन्धाद्यधिकरणम्

(416)ओम् अनुबन्धादिभ्यः ओम् ॥ 03-03-51 ॥


न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् । किन्तु भक्त्यादिभिश्च ।
‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः ।यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः । लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’() इति ॥
‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।दद्याच्छमदमादिं च तेन चैते गुणाः पुनः ॥तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’ ॥इति नारायणतन्त्रे ॥ 51 ॥

दर्शनभेधादिकरणम् (प्रज्ञान्तराधिकरणम्)

(417)ओं प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ओम् ॥ 03-03-52 ॥


उपासनाभेदवद्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ –‘अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवावाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु तु यथायोगं यथा ह्याचार्या आचक्षते’ इति ।
आध्यात्मे च – ‘दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।दर्शनेनान्तरेणान्ये देवाः सर्वत्र दर्शनात् ॥तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः’ इति ॥ 52 ॥

न सामान्याधिकरणम्

(418)ओं न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ओम् ॥ 03-03-53 ॥


न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः ।
‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’इति हि नारायणतन्त्रे॥‘मुच्यते नात्र सन्देहो दृष्ट्वा तु स्वात्मयोग्यया’ इति च ॥‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥ 53 ॥

ताद्विध्याधिकरणम् (परेणाधिकरणम्)

(419)ओं परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः ओम् ॥ 03-03-54 ॥


‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’() इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेत्, न ।‘तस्यैष आत्मा विशते ब्रह्मधाम’(मुं.उ.३.२.४) इति श्रुतेः । कथं तर्ह्येषा श्रुतिः –
परमात्मैवं भक्त्या दर्शनं प्राप्य मुक्तिं ददाति । प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यते।
मायावैभवे च ‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् ।तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः ।भक्तिरित्युच्यते सैव करणं परमीशितुः’॥इति सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ 54 ॥

एकाधिकरणम्

(420)ओम् एक आत्मनः शरीरे भावात् ओम् ॥ 03-03-55 ॥


जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न मन्तव्यम् । कुतः ?
अंशांशिनोरेकत्वमेव । अंशिकर्मनिर्मितशरीर एवांशस्य भावात् ॥ 55 ॥
(421)ओं व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ओम् ॥ 03-03-56 ॥


ज्ञानादिभेधे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादंशस्य ।
परमसंहितायां च – ‘अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा ।पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥

अङ्गावबद्धाधिकरणम्

(422)ओम् अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ओम् ॥ 03-03-57 ॥


ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते। हिशब्दात्
‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः’इति ब्रह्मतर्कवचनात् ॥ 57 ॥
(423)ओं मन्त्रादिवद् वाऽविरोधः ओम् ॥ 03-03-58 ॥


सर्वदेवतामन्त्रा यथाऽधीयन्ते, एवमविरोधो वा ।
‘उपासनाङ्गदेवानां परमाङ्गतया भवेत् ।उपसंहृतिर्विशेषे तु फलनामन्यथा न तु ॥पुरुषाणां विशेषाद्वा यथायोगं भविष्यति’इति बृहत्तन्त्रे ॥ 58 ॥

भूमाधिकरणम्

(424)ओं भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ओम् ॥ 03-03-59 ॥


सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् । सर्वत्र सहभावात् दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्मकः क्रतुः ।‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते । तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टःइति च गौपवनश्रुतिः ॥ 59 ॥

नानाशब्दाधिकरणम्

(425)ओं नाना शब्दादिभेदात् ओम् ॥ 03-03-60 ॥


‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा ।ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥अतः पूर्णत्वमीशस्य वानैवैषां प्रदृश्यते ।अतः फलस्य नानात्वं नानैवोपासनं यतः’ इति ब्रह्मतर्के ।
अतो भूमत्वमपि नानैवोपास्यते ॥ 60 ॥

विकल्पाधिकरणम्

(426)ओं विकल्पो विशिष्टफलत्वात् ओम् ॥ 03-03-61 ॥


स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया ।
‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥उपास्यते यथायोगं न वा फलविभेदतः’ इति च ब्रह्मतर्के ॥ 61 ॥

काम्याधिकरणम्

(427)ओं काम्यास्तुयथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ओम् ॥ 03-03-62-427 ॥


‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।तुष्ट्यर्थमीश्वरस्यैव न चोपास विदुष्यति’ इति बृहत्तन्त्रे ॥ 62 ॥

यथाश्रयभावाधिकरणम् (अङ्गाधिकरणम्)

(428)ओम् अङ्गेषु यथाऽऽश्रयाभावः ओम् ॥ 03-03-63 ॥


अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं‘चक्षोः सूर्यो अजायत’(ऋ.सं.१०.९०.१३) इत्यादि तथा भावना कर्तव्या॥63॥
(429)ओं शिष्टेश्च ओम् ॥ 03-03-64 ॥


‘यस्मिन् यस्मिन् यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’ इति पौत्रायणश्रुतेः ॥ 64 ॥
(430)ओं समाहारात् ओम् ॥ 03-03-65 ॥


‘अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत।तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’ ॥ इति काषायणश्रुतौ समाहारवचनाच्च ॥ 65 ॥
(431)ओं गुणसाधारण्यश्रुतेश्च ओम् ॥ 03-03-66 ॥


‘साधारण्यात् सर्वगुणाः परस्य समाहार्यास्तत्त्वदृशो मुमुक्षोः’ इति माण्डव्यश्रुतेश्च ॥ 66 ॥

नवाधिकरणम्

(432)ओं न वाऽतत्सहभावश्रुतेः ओम् ॥ 67-432 ॥


न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ॥ 67 ॥
(433)ओं दर्शनाच्च ओम् ॥ 03-03-68 ॥


‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् ।नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते’॥ इति कमठश्रुतौ ॥ 68 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥ 03-03 ॥

चतुर्थः पादः

ज्ञानसामर्थ्यमस्मिन् पाद उच्यते –

पुरुषार्थाधिकरणम्

(434)ओं पुरुषार्थोऽतः शब्दादिति बादरायणः ओम् ॥ 03-04-01 ॥


यद्दर्शनार्थमुपासनोक्ता तस्माद् दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते ।
‘यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जायते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः’(मुं.उ.३.१.१०)इति शब्दात् ॥ 01 ॥
(435)ओं शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ओम् ॥ 03-04-02 ॥


अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन ।
‘स्वर्गं धनाद् देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इति वदति जैमिनिः ॥ 02 ॥
(436)ओम् आचारदर्शनात् ओम् ॥ 03-04-03 ॥


ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ 03 ॥
(437)ओं तच्छ्रुतेः ओम् ॥ 03-04-04 ॥


‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छां.उ.१.१.१०) इति शेषत्वश्रुतेः ॥ 04 ॥
(438)ओं समन्वारम्भणात् ओम् ॥ 03-04-05 ॥


‘कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेत् नापरस्तत्र हेतुः ।भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत्’इति माठरश्रुतेश्च ।
संशब्द प्राधान्यं दर्शयति ॥ 05 ॥
(439)ओं तद्वतो विधानात् ओम् ॥ 03-04-06 ॥


‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत्’ इति कमठश्रुतौ ज्ञानतोऽपि विधानात् ॥ 06 ॥
(440)ओं नियमाच्च ओम् ॥ 03-04-07 ॥


‘कुर्वन्नेवेह कर्माणि जीजीविषेच्छतं समाः ।एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’(ई.उ.२) इति ॥ 07 ॥
(441)ओम् अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ओम् ॥ 03-04-08॥


‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते ।तथापि यथा यथा कर्म कुरुते तथा तथाऽधिको भवति’ इति कौण्ठरव्यश्रुतेः,युधिष्ठिरादीनां राजसूयादिना फलाधिक्यदर्शनाच्चेति बादरायणमतम् ॥ 08 ॥
(442)ओं तुल्यम् तु दर्शनम् ओम् ॥ 03-04-09 ॥


राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् ।
‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् ।स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।ज्ञानेनाऽधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥यस्माद् व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ।यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावधिस्तथा ।प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ।अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।इति प्राह महायोगी पुमर्थानां विनिर्णयम्’ इति भविष्यत्पर्वणि ।
‘ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।चीर्णीऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि’ इति ब्रह्मतर्के ॥ 09 ॥

अधिकाराधिकरणम् (असार्वत्रिकाधिकरणम्)

(443)ओम् असार्वत्रिकी ओम् ॥ 03-04-10 ॥


सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारितेत्यत आह –
न सर्वेषामधिकारः ॥ 10 ॥
(444)ओं विभागः शतवत् ओम् ॥ 03-04-11 ॥


‘नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु ।सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥यथा तथैवा सङ्ख्येयाः प्रजास्तासु कियान् जनः ।ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’()
इति वचनात् सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥ 11 ॥
(445)ओम् अध्ययनमात्रवतः ओम् ॥ 03-04-12 ॥


कस्याधिकारः? ‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥न च वर्णावरस्यापि तस्मादध्ययनान्वितः ।ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ ॥ इति हि ब्रह्मतर्के ॥
‘पठेद् वेदानथार्थानधीयीताथ विचार्य ब्रह्म विन्देत्’ इति च कौषारवश्रुतिः ॥ 12 ॥

अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्)

(446)ओं नाविशेषात् ओम् ॥ 03-04-13 ॥


न सामान्येनाधिकारो देवादीनाम् ।
‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्’इति कौण्डिन्यश्रुतिः॥ 13 ॥

कामचाराधिकरणम् (स्तुत्यधिकरणम्)

(447)ओं स्तुतयेऽनुमतिर्वा ओम् ॥ 14-447 ॥


‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एव’(बृ.उ.५.५.१) इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह-
न विधिः । ज्ञानिनः स्तुतयेऽनुमतिमात्रं वा । युज्यते च ॥ 14 ॥
(448)ओं कामकारेण चैके ओम् ॥ 03-04-15 ॥


‘कामाचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’(सामशाखा) इति चैके पठन्ति ॥ 15 ॥
(449)ओम् उपमर्दं च ओम् ॥ 03-04-16 ॥


‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ॥ 16 ॥
(450)ओम् ऊर्ध्वरेतस्सु च शब्दे हि ओम् ॥ 03-04-17 ॥


न तावता कामचाराणां ज्ञानेऽधिकारः ।
‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।न तथा विद्यते भूयान् यं प्राप्यन्येऽपि भूयसः’इति माठरश्रुतेः ॥ 17 ॥
(451)ओं परामर्शं जैमिनिरचोदना चापवदति हि ओम् ॥ 03-04-18 ॥


‘प्रातरुत्थाय सन्ध्यामुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेऽथ देवान् नमेत् जुहुयाद् वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न सुरां पिबेन्न पलाण्डुं भक्षयीत न भृषं वेदेन्न विस्मरेताऽत्मानं सोमं पिबेद्धुतशेषेण वर्तयेत्’()
इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिर्मन्यते ।
न च निषिद्धं कर्म कर्तव्येमेवेति चोदना । ‘ब्राह्मणो न हन्तव्यः’() इत्याद्यपवादश्च ॥ 18 ॥
(452)ओम् अनुष्ठेयं बादरायणः साम्यश्रुतेः ओम् ॥ 03-04-19 ॥


अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरिति बादरायणो मन्यते । ‘केन स्याद् येन स्यात् तेनेदृश एव’(बृ.उ.५.५.१) इति साम्यश्रुतेः ।
‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’(भ.गी.३.१७) इति भगवद्वचनाच्च ॥ 19 ॥
(453)ओं विधिर्वा धारणवत् ओम् ॥ 03-04-20 ॥


‘केन स्याद् येन स्यात्’(बृ.उ.५.५.१) इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम्, एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता ।
न तत्राधर्मशङ्का कार्या, नान्येषामिति वा ।
‘स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदना ।नाशङ्क्यं तन्मतं क्वापि विष्णोः प्रत्यक्षचोदना ।इतरेषां न विहिता स्वेच्छावृत्तिः कथञ्चन’ इति हि ब्राह्मे ॥ 20 ॥
(454)ओं स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ओम् ॥ 03-04-21 ॥


स्तुतिमात्रमेव स्वेच्छाचरणं, न विधिः, तैरपि सामान्यविधिस्वीकारादिति चेत्, न । अपूर्वत्वात् परवशत्वात् ।
सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ।
‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।परस्य ब्रह्मणो ह्येव सर्वविध्यतिदूरता’ इति च ब्रह्मतर्के ॥ 21 ॥
(455)ओं भावशब्दाच्च ओम् ॥ 03-04-22 ॥


‘यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविध्यतिदूरता’ इति च तुरश्रुतौ ॥ 22 ॥
(456)ओं पारिप्लवार्था इति चेन्न विशेषितत्वात् ओम् ॥ 03-04-23 ॥


‘केन स्याद् येन स्यात्’(बृ.उ.५.५.१) इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेत्, न ।
‘त्रेधा हि ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति ।विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥
(457)ओं तथा चैकवाक्योपबन्धात् ओम् ॥ 03-04-24 ॥


एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां (च) सम्बन्धो भवति ॥ 24 ॥
(458)ओम् अत एव चाग्नीन्धनाद्यनपेक्षा ओम् ॥ 03-04-25 ॥


अत एव ज्ञानस्य मोक्षादाने नाग्निहोत्राद्यपेक्षा ।
ब्रह्मतर्के च – ‘येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः ।शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥स्वेच्छानुवृत्यैव भवेद् ब्रह्मणः प्रायशस्तथा ।देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’() इति ॥ 25 ॥
(459)ओं सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ओम् ॥ 03-04-26 ॥


सर्वधर्मापेक्षा च ज्ञानस्येत्पत्तौ ‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’(बृ.उ.६.४.२२) इति श्रुतेः ।
यथा गतिनिष्पत्यर्थमश्वादयोऽपेक्ष्यन्ते न निष्पन्नगतेर्ग्रामादिप्राप्तौ ॥ 26 ॥
(460)ओं शमदमाद्युपेतः स्यात् तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ओम् ॥ 03-04-27 ॥


यद्यपि ज्ञानेनैव मोक्षो नियतस्तथाऽपि ज्ञानी शमदमाद्युपेतः स्यात्।‘आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेद् दान्तो भवेदनुकूलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः ।
‘ब्राह्मीं वाव त उपनिषदब्रूम’ इति । तस्यैतपो दमः कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामुपनिषदमेवं वेद’(केन.उ.४.७,८,९)इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।
‘यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा ।तस्य शान्त्यादयोऽङ्गानि तस्मात् तेषामनिष्ठितिः ॥अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत्’इति च आग्नेये ।
तुशब्दः पूर्णफलार्थत्वं सूचयति ॥ 27 ॥
(461)ओं सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ओम् ॥ 03-04-28 ॥


‘यदि ह वा एवंविन्निखिलं भक्षयीत एवमेव स भवति’ इति सर्वान्नानुमतिः प्राणात्ययविषया । ‘न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानम्’(छां.उ.१.१०.४)इति दर्शनात् ॥ 28 ॥
(462)ओम् अबाधाच्च ओम् ॥ 03-04-29 ॥


‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् ।अतो विद्वानपि न्यायं वर्तेतोत्कर्षसिद्धये’ इति च ब्रह्मतर्के ॥ 29 ॥
(463)ओम् अपि स्मर्यते ओम् ॥ 03-04-30 ॥


‘अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।एतादृशोऽपि नाऽचारं श्रौतं स्मार्तं परित्यजेत्’ इति हरिवंशेषु ॥ 30 ॥
(464)ओं शब्दश्चातोऽकामचारे ओं॥ 03-04-31 ॥


‘स य एतदेवंविदेवं मन्वान एवं पश्यन् न कामचरितं चरेन्न कामं भक्षयीत न काममनुवर्तेत’ इति कौण्डन्यश्रुतौ ।
अत इत्यल्पफलत्वं सूचयति । ‘न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ॥ 31 ॥
(465)ओं विहितत्वाच्चाऽश्रमकर्मापि ओम् ॥ 03-04-32 ॥


न केवलं निषिद्धाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ॥
‘पश्यन्नपीममात्मानं कुर्यात् कर्मविचारयन्।यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’ ॥ इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ 32 ॥
(466)ओं सहकारित्वेन च ओम् ॥ 03-04-33॥


‘यथा राज्ञः सहकार्येव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् ।एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’ ॥इति कमठश्रुतौ सहकारित्वोक्तेश्च ।
‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा च वर्धते’ इति च ब्रह्माण्डे ॥
‘सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि ।उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इति च बृहत्तन्त्रे ॥
‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’ इति च पाद्मे ॥ 33 ॥

उभयलिङ्गाधिकरणम्

(467)ओं सर्वथाऽपितु त एवोभयलिङ्गात् ओम् ॥ 03-04-34 ॥


सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये ।

‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’(छां.उ.८.७.३)

इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यज्ज्ञानमित्युभयविधलिङ्गात् ॥ 34 ॥
(468)ओम् अनभिभवं च दर्शयति ओम् ॥ 03-04-35 ॥


‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठते’() इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥
(469)ओम् अन्तरा चापि तु तद्दृष्टेः ओम् ॥ 03-04-36 ॥


सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥
(470)ओम् अपि स्मर्यते ओम् ॥ 03-04-37 ॥


‘असुरा आसुरेणैव स्वभावेन च कर्मणा । ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ॥देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् । सम्यज्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ॥नानयोरन्यथाभावः कदाचित् क्वापि विद्यते । मानुषा मिश्रमतयो विमिश्रगतयोऽपि च’ इति स्कान्दे ॥ 37 ॥
(471)ओं विशेषानुग्रहं च ओम् ॥ 03-04-38 ॥


शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।एधमानद्विडुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’(ऋ.सं.६.४७.१६)
इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य।
‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् ।पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ’इति भविष्यत्पर्वणि ॥ 38 ॥
(472)ओम् अतस्त्वितरज्ज्यायोलिङ्गाच्च ओम् ॥ 03-04-39 ॥


देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’(बृ.उ.३.३.२०) इति लिङ्गात् ।
चशब्दात् -‘ततः कनीयासा एव देवा ज्यायासा असुराः’(बृ.उ.३.३.१) इति श्रुतेश्च ।
‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥
(473)ओं तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ओम् ॥ 03-04-40 ॥


असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव।
‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’(ऐ(ए).आ.२.१.८) इति नियमश्रुतेः ।
‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः ।
‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सुप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह पराबभूवुः’(ऐ.आ.२.१.८) इति देवासुराणां भावाभावश्रुतेश्च ।
देवानां भूतिरित्येव मनो विष्णौ स्वभावतः ।असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥
‘देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे ।अतः सुगतिरेतेषां नान्यथा व्यत्ययो भवेत्’ इति चाध्यात्मे ॥ 40 ॥

अधिकारिकाधिकरणम्

(474)ओं न चाधिकारिकमपि पतनानुमानात् तदयोगात् ओम् ॥ 03-04-41 ॥


न च परमात्मैश्वर्यादिकमाकाङ्क्ष्‍यम्, ब्रह्मादीनामपि नाकाङ्क्षयं, किमुपरस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थीनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोगस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते ।
‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् ।इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’ इति ब्रह्माण्डे ।
‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’ ॥ इत्याद्यनुमानरूपवाक्याच्च ।।
‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत ।अवदस्यूँरधूनुथाः’(ऋ.सं.८.१४.१४) इति च श्रुतिः॥
(475)ओम् उपपूर्वमपीत्येके भावशमनवत् तदुक्तम् ओम् ॥ 03-04-42 ॥


उपदेवपदं च नापेक्षमित्येके । भावशमनवत्, ऋष्टिपदवदेव । तच्चोक्तमिन्द्रद्युम्नश्रुतौ –‘अथ यथर्षीन् प्रजापतीन् नाकाङ्क्षेदेवं न गन्धर्वान् न विद्याधरान् न सिद्धान्’ इति।
बृहत्संहितायां च –‘न दैवानभिकाङ्क्षेत कुत एव हरेर्गुणान् ।प्राजापत्यान् न चार्षांश्च गान्धर्वादीनपि क्वचित् ॥ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः’ ॥ इति विशेषदर्शनार्थमेक इत्युक्तम् ॥ 42 ॥
(476)ओं बहिस्तूभयथाऽपि स्मृतेराचाराच्च ओम् ॥ 03-04-43 ॥


देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् ।
‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् ।अन्यत्र शुभमाकाङ्क्षन् न पतेदविरोधतः’ इति स्मृतेः ॥
‘नानात्वमेव कामानां नाकामः क्व च दृश्यते ।अतोऽविरुद्धकामः स्यादकामस्तेन भण्यते’ इत्याचाराच्च ॥ 43 ॥

फलश्रुत्यधिकरणम्

(477)ओं स्वामिनः फलश्रुतेरित्यात्रेयः ओम् ॥ 03-04-44 ॥


‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१) इत्यादि फलं स्वामिनां देवानामेव भवति ।
‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’ ॥ इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ 44 ॥
(478)ओम् आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ओम् ॥ 45-478 ॥


सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तदर्थं देवैः क्रियमाणत्वात् ॥ 45 ॥
(479)ओं सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ओम् ॥ 03-04-49 ॥


तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यान्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथावाऽऽचार्यस्य शिष्याः ।
वाराहे च – ‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् ।वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥विहितः सहकारित्वे सहकार्यन्तरं प्रजाः ।पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् ।ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ ॥ इति ॥ 46 ॥

कृत्स्नभावाधिकरणम्

(480)ओं कृत्स्नभावात् तु गृहिणोपसंहारः ओम् ॥ 03-04-47 ॥


‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’() इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’(छां.उ.८.१४) इति गृहिणोपसंहारः क्रियते । तस्माद् गृहस्तस्यैवोत्तमत्वम् ? इति न वाच्यम् । यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते ।
‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना एते यतयोऽत एषां न पुत्रा दायमुपयन्ति न चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ॥ 47 ॥
(481)ओं मौनवदितरेषामप्युपदेशात् ओम् ॥ 03-04-48 ॥


न चाश्रमद्वयमेव देवानाम् ।
‘देवाएव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ॥ 48 ॥

अनाविष्काराधिकरणम्

(482)ओम् अनाविष्कुर्वन्नन्वयात् ओम् ॥ 49-482 ॥


‘एतां विद्यामदीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवति’ । इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्तेः । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः ।
तच्च विषिद्धम् – ‘मा नः स्तेनेभ्यो यो अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः।येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित्’(ऋ.सं.२.२३.१३) ॥
अथो (प)शमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।आदेवानामोहते विव्रयो हृदि बृहस्पते न परः साम्नो विदुः’(ऋ.सं.२.२३.१४) इति ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि ।अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’() इति च ॥ 49 ॥

ऐहिकाधिकरणम्

(483)ओम् ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ओम् ॥ 50-483 ॥


‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’(बृ.उ.४.४.५) इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्धप्रतिबन्धाभावे ।
‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य इहैव दृष्टिं परमस्य विन्देत् ।यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’ ॥ इति सौपर्णश्रुतौ दर्शनात् ।
‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् ।यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि ।इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥श्रवणं मननं चैव निधिध्यासनमेव च ।परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ॥एषा सेवेति सम्प्रोक्ता यया तद्दर्शनं भवेत्’इति बृहत्संहितायाम् ॥ 50 ॥

मुक्तिफलाधिकरणम्

(484)ओम् एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ओम् ॥ 03-04-51 ॥


एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः; तद्भावे जन्मान्तराणीत्यनियमः ।
‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थोऽमृतम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’ ॥ इति च नारायणाध्यात्मे ॥ 51 ॥
॥ इति श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य चतुर्थः पादः ॥ 03-04॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायः (साधनाध्यायः) ॥ 03 ॥

(फलाध्यायः) चतुर्थाध्यायः ॥

प्रथमः पादः

फलं निगद्यतेऽस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन् पादे ।

नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमथ उच्यते ।

प्रायिकत्वाच्चाऽध्यायानां पादानां च न विरोधः ।

आवृत्यधिकरणम्

(485)ओम् आवृत्तिरसकृदुपदेशात् ओम् ॥ 04-01-01 ॥


‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’(बृ.उ.४.४.५) इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फलप्राप्तिः। किन्तु ? आवृत्तिः कर्तव्या । ‘स य एषोऽणिमा ऐतदात्म्यमिदं सर्वम्’(छां.उ.६.८.७) इत्याद्यसकृदुपदेशात् ॥ 01 ॥
(486)ओं लिङ्गाच्च ओम् ॥ 04-01-02 ॥


‘स तपोऽतप्यत...... पुनरेव वरुणं पितरमुपससार’(तै.उ.३.१.२) इत्याद्यावर्तनलिङ्गाच्च ।
‘नित्यशः श्रवणं चैव मननं ध्यानमेव च ।कर्तव्यमेव पुरुषैर्ब्रह्मदर्शनमिच्छुभिः’इत् बृहत्तन्त्रे ॥ 02 ॥

आत्मोपगमाधिकरणम्

(487)ओम् आत्मेति तूपगच्छन्ति ग्राहयन्ति च ओम् ॥ 04-01-03 ॥


आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव ।‘नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति’ इति ह्युपगच्छन्ति । ‘आत्मेत्येवोपास्वाऽत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येष भवति’इति ग्राहयन्ति च ।
‘आत्मेत्युपासनम् कार्यं सर्वथैव मुमुक्षुभिः ।नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’ इति भविष्यत्पर्वणि ॥
‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः ।सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यते’ इति ब्राह्मे ॥ 03 ॥

नप्रतीकाधिकरणम्

(488)ओं न प्रतीके न हि सः ओम् ॥ 04-01-04 ॥


‘नाम ब्रह्मेत्युपासIत’(छां.उ.७.१.५) इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु ? तत्स्थत्वेनैवोपासनं कार्यम् ।
ब्रह्मतर्के च – ‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः ।ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते ।सर्वार्था प्रथमा यस्मात् सप्तम्यर्था ततो मता’ इति ॥ 04 ॥

ब्रह्मदृष्ट्यधिकरणम्

(489)ओं ब्रह्मदृष्टिरुत्कर्षात् ओम् ॥ 04-01-05 ॥


ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।
‘ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् ।महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि ।सर्वतः प्रीतिजनकमतस्तत् सर्वता भवेत्’() ॥
आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत्’ इति ब्रह्मतर्के ॥ 05 ॥

आदित्यादिमत्यधिकरणम्

(490)ओम् आदित्यादिमतयश्चाङ्ग उपपत्तेः ओम् ॥ 04-01-06 ॥


‘चक्षोः सूर्यो अजायत’(ऋ.सं.१०.९०.१३) इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानात् स्वाश्रयत्वान्मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं तथोपासनम् ।
नारायणतन्त्रे च – ‘आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु ॥स्मर्तव्यं सततं तत् तु न कदाचित् परित्यजेत् ।अत्र सर्वगुणानां च यतोऽन्तर्भाव इष्यते ॥स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः’ इति ॥ 06 ॥

आसनाधिकरणम्

(491)ओम् आसीनः सम्भवात् ओम् ॥ 04-01-07 ॥


सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ॥ 07 ॥
(492)ओं ध्यानाच्च ओम् ॥ 04-01-08 ॥


‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।स्मरणं सर्वदा योग्यं ध्यानोपासनमानसे॥नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।आसीनस्य भवेत् तत् तु न शयानस्य निद्रया ॥स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः’इति च नारायणतन्त्रे।
अतो ध्यानत्वाच्च ॥ 08 ॥
(493)ओम् अचलत्वं चापेक्ष्य ओम् ॥ 04-01-09 ॥


‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।चलने तु शरीरस्य चञ्चलं तु मनो भवेत्’ इति च ब्रह्माण्डे ॥ 09 ॥
(494)ओं स्मरन्ति च ओम् ॥ 04-01-10 ॥


‘समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्’(भ.गी.६.१३) इत्यादि ॥ 10 ॥
(495)ओं यत्रैकाग्रता तत्राविशेषात् ओम् ॥ 04-01-11 ॥


देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
‘तमेव देशं सेवेत तं कालं तामवस्थितिम् ।तानेव भोगान् सेवेत मनो यत्र प्रसीदति ॥न हि देशादिभिः कश्चिद् विशेषः समुदीरितः ।मनः प्रसाधनार्थं हि देशकालादिचिन्तना’ इति वाराहे ॥ 11 ॥

प्रायणाधिकरणम्

(496)ओम् आ प्रायणात् तत्रापि हि दृष्टम् ओम् ॥ 04-01-12 ॥


यावन्मोक्षस्तावदुपासनादि कार्यम् ॥
‘स यो ह वैतद् भगवन्मनुष्येषु प्रायणान्तम् ओङ्कारमभिध्यायीत’(प्र.उ.५.१) इति हि श्रुतिः ॥
‘सर्वदैनमुपासीत यावद् विमुक्तिर्मुक्ता अपि ह्येनमुपासते’ इति सौपर्णश्रुतिः ॥
‘श्रुणुयाद् यावदज्ञानं मतिर्यावदयुक्तता ।ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते।भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम्’ इति ब्रह्माण्डे ॥ 12 ॥

तदधिगमाधिकरणम्

(497)ओं तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ओम् ॥04-01-13 ॥


ब्रह्मदर्शन-उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च ।
‘तद् यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’(छां.उ.४.१४.३),‘तद् यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्ते’(छां.उ.५.२४.३) इति तद्व्यपदेशात् ॥ 13 ॥
(498)ओम् इतरस्याप्येवमसंश्लेषः पाते तु ओम् ॥ 04-01-14 ॥


पुण्यस्याप्येवमसंश्लेषः पाते। तुशब्दोऽनुत्थानवाची ।
‘यथाऽश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः ।एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम्’ इति चाग्नेये ॥ 14 ॥
(499)ओम् अनारब्धकार्ये एव तु पूर्वे तदवधेः ओम् ॥ 04-01-15 ॥


अनारब्धकार्ये एव पूर्वे पुण्यपापे विनश्यतः ।
‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यते’(छां.उ.६.१४.२)) इति तदवधेः । तुशब्दः स्मृतिद्योतकः ।
‘यदनारब्धपापं स्यात् तद् विनश्यति निश्चयात् ।पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ॥द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः ।तस्याप्यारब्धकार्यस्य न विनाशोऽस्ति कुत्रचित् ॥आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः’इति च नारायणतन्त्रे ॥ 15 ॥
(500)ओम् अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ओम् ॥ 04-01-16 ॥


अग्निहोत्राद्यपि तु मोक्षेऽनुभावायैव ।
तुशब्दाद् ब्रह्मदर्शनवतः ।
‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद् वा कर्माकृतं यदि ह वा अप्यनेवंविन्महत् पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽत्मनो यद्यत् कामयते तत् तत्सृजते’(बृ.उ.३.४.१५) इति तद्दर्शनात् ॥ 16 ॥
(501)ओम् अतोऽन्यदपीत्येकेषामुभयोः ओम् ॥ 04-01-17 ॥


मुक्तावनुभवकारणाद् यदन्यत् तत् पुण्यमपि विनश्यति । अप्रारब्दमनभीष्टं च । तथा ह्येकेषां पाठ उभयोस्त्यागेन ‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’() इति ।
‘अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति ।किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः’ इति पाद्मे ॥ 17 ॥
(502)ओं यदेव विद्ययेति हि ओम् ॥ 04-01-18॥


ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तम् च भवति ।
‘न हास्य कर्म क्षीयते’(बृ.उ.३.४.१५) इति च ।
‘अल्पमात्रः कृतो धर्मो भवेद् ज्ञानवतो महान् ।महानपि कृतो धर्मो ह्यज्ञानां निष्फलो भवेत्’इति च भारते ॥ 18 ॥
(503)ओं भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते ओम् ॥ 04-01-19 ॥


आरब्दपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।
‘आरब्धपुण्यपापस्य भोगेन क्षपणादनु ।प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः’ ॥
‘ब्रह्मणां शतकालात् तु पूर्वमारब्दसङ्क्षयः ।नियमेन भवेन्नात्र कार्या काचिद्विचारणा’ इति च नारायणतन्त्रे ॥ 19 ॥

द्वितीयः पादः

देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पाद उच्यते –

वाङ्मनसाधिकरणम्

(504)ओं वाङ्मनसि दर्शनाच्छब्दाच्च ओम् ॥ 04-02-01 ॥


वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् ।‘तस्य यावन्न वाङ्मनसि सम्पद्यते’(छां.उ.६.१५.१) इति शब्दाच्च ।
‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद् विहीयते’ इति स्कान्दे ॥ 01 ॥
(505)ओम् अत एव च सर्वाण्यनु ओम् ॥ 04-02-02 ॥


अत एव चशब्दात् सर्वाणि दैवतानि यथानुकूलं विलीयन्ते ।
‘अग्नौ सर्वे देवा विलीयन्तेऽग्निरिन्द्रे इन्द्र उमायामुमा रुद्रे विलीयते एवमन्यानि दैवतानि यथाऽनुकूलम्’ इति गौपवनश्रुतिः ॥ 02 ॥

मनोऽधिकरणम्

(506)ओं तन्मनः प्राण उत्तरात् ओम् ॥ 04-02-03 ॥


‘मनः प्राणे’(छां.उ.६.१५.१) इत्युत्तराद् वचनान्मनोऽभिमानी रुद्रः प्राणे वायौ विलीयते ।
‘वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठः’ इति च कौण्डिन्यश्रुतिः ॥ 03 ॥

अध्यक्षाधिकरणम्

(507)ओं सोऽध्यक्षे तदुपगमादिभ्यः ओम् ॥ 04-02-04 ॥


स प्राणः परमात्मनि विलीयते ।
‘सर्वे प्राणमुपगच्छन्ति प्राणः परममुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमानुप्राणिति तस्मादाहुः प्राणस्य प्राण इति’,‘प्राणः परस्यां देवतायाम्’ ।
‘मुक्ताः सन्तोऽग्निमाविश्य देवाः सर्वेऽपि भुञ्जते ।अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ।आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् ॥
‘न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथञ्चन ।किमु विष्णोः परानन्दो न ते विष्णुविति श्रुतेः ॥’
प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् ।सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम्’ ॥ इत्यादि श्रुतिस्मृतिभ्यः ॥ 04 ॥

भूताधिकरणम्

(508)ओं भूतेषु तच्छ्रुतेः ओम् ॥ 04-02-05 ॥


भेतेष्वन्येषां देवानां लयः । ‘भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकल एव मध्ये स्थाता’ इति बृहच्छ्रुतेः ॥ 05 ॥

अनेकलयाधिकरणम् (नैकस्मिन्नधिकरणम्)

(509)ओं नैकस्मिन् दर्शयतो हि ओम् ॥ 04-02-06 ॥


नैकस्मिन् भूते सर्वेषां देवानां लयः ।‘पृथिव्यामृभवॊ विलीयन्ते मरुणेऽश्विनावग्नावग्नयो वायविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते’, ‘मृत्यवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते’ इति महोपनिषत्, चतुर्वेदशिखा च दर्शयतः ।
अतो ‘अग्नौ देवा विलीयन्ते’ इति तत्र निर्दिष्टानामेव ॥ 06 ॥

समनाधिकरणम्

(510)ओं समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ओम् ॥ 04-02-07 ॥


देशतः कालतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात् स्वतः एवामृतत्वं तस्याः ।
बृहच्छ्रुतिश्च –‘द्वौवाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चैतौ ज्ञात्वा विमुच्यते’ इति । नैतावता साम्यम् ॥ 07 ॥
(511)ओं तदपीतेः संसारव्यपदेशात् ओम् ॥ 04-02-08 ॥


‘समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विलीनो हि प्रकृतौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥ 08 ॥
(512)ओं सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ओम् ॥ 04-02-09 ॥


सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।
‘सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः ।ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः’ इति च तुरश्रुतिः ॥ 09॥
(513)ओं नोपमर्देनातः ओम् ॥ 04-02-10 ॥


अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
‘देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ॥प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।नियता नैव केनापि नियता हि हरेर्गुणाः’इति हि भविष्यत्पर्वणि ॥ 10 ॥
(514)ओम् अस्यैव चोपपत्तेरूष्मा ओम् ॥ 04-02-11 ॥


‘द्विधा हीदमवदृष्यते ऊष्मावदनूष्मावच्च । तत्रोष्मावत् परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत् प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च’ इति सौपर्णश्रुतेः किञ्चित् साम्योपपत्तेः ॥ 11 ॥
(515)ओं प्रतिषेधादिति चेन्न शारीरात् ओम् ॥ 04-02-12 ॥


‘असमो वा एष परो नहि कश्चिदेवं दृश्यते सर्वे ह्येतेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्त्यथ परो न जायते न म्रियते पूर्णश्चैष भवति’ इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेत्,
न । शरीराद्धि साम्यं प्रतिषिध्यते ॥ 12 ॥
(516)ओं स्पष्टो ह्येकेषाम् ओम् ॥ 04-02-13 ॥


कुतः ? –
‘अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्च । एकं ह्येवैतद् भवत्यथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिर्बृहस्पतिर्येके च देवा गन्धर्वा मनुष्याः पितरोऽसुरा यत् किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृतिर्वाव समाऽसमा । एषा हि नित्याऽजरा तद्वशा च’ इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ॥ 13 ॥
(517)ओं स्मर्यते च ओम् ॥ 04-02-14 ॥


‘मत्स्यकूर्मवाराहाद्याः समा विष्णोरभेदतः ।ब्रह्माद्यास्त्वमाः प्रोक्ताः प्रकृतिश्च समासमा’ इति च वाराहे ॥ 14 ॥

परा(लया)धिकरणम्

(518)ओं तानि परे तथा ह्याह ओम् ॥ 04-02-15 ॥


प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते ।
‘सर्वे देवाः प्राणमाविष्य देवे मुक्ता लयं परमे यान्त्यचिन्त्ये’ इति हि कौषारवश्रुतिः ॥ 15 ॥

अविभागाधिकरणम्

(519)ओम् अविभागो वचनात् ओम् ॥ 04-02-16 ॥


‘एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथानिकाममन्तर्बहिः परिचरन्ति’ इति गौपवनश्रुतिः । तत् परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् ।
‘कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः’(तै.आ.३.१५.४) इति वचनात् ।
‘मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु ।कामानुकूलकामत्वं नान्यत् तेषां विधीयते’ इति ब्राह्मे ॥ 16 ॥

हृदयाग्रज्वलना(तदोकोऽ)धिकरणम्

(520)ओं तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ओम् ॥ 04-02-17 ॥


उत्क्रान्तिकाले हृदयस्याग्रे ज्वलनं भवति।‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते’(बृ.उ.६.४.२) इति श्रुतेः ।
तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
‘यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।तं तमेवैति कौन्तेय सदा तद्भावभावितः’(भ.गी.८.६) ॥इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च।
‘आचार्यस्तु ते गतिं वक्ता’(छां.उ.४.१४.१) इति हि लिङ्गम् ।
‘हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु ।उत्क्रान्तिर्ब्रह्मरन्ध्रेण तमोवोपासतो भवेत्’ इति चाध्यात्मे ।
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।तयोर्ध्वमायान्नमृतत्वमेति विष्वङ्गन्या उत्क्रमणे भवन्ति’(क.उ.२.६.१६) इति च ॥ 17 ॥
(521)ओं रश्म्यनुसारी ओम् ॥ 04-02-18 ॥


निष्क्रामति ।
‘सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्तत्र श्वेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैष निर्गच्छति’ इति हि पौत्रायणश्रुतिः ॥ 18 ॥
(522)ओं निशि नेति चेन्न सम्बन्धात् ओम् ॥ 04-02-19 ॥


रश्म्यभावान्निशि ज्ञानिन उत्क्रमणं न युक्तमिति चेत्,
न । सर्वदा सम्बन्धाद् रश्मीनाम् ॥ 19 ॥
(523)ओं यावद्देहभावित्वाद्दर्शयति च ओम् ॥ 04-02-20 ॥


कियत्कालम् ? –
यावद् देहो विद्यते तावद् रश्मिसम्बन्धोऽस्त्येव ।
‘संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो यावदिदं शरीरमत एतैः पश्यत्येतैरुत् क्रामत्येतैः प्रवर्तते’ ॥ इति हि माध्यन्दिनायनश्रुतिः ॥ 20 ॥
(524)ओम् अतश्चायनेऽपि हि दक्षिणे ओम् ॥ 04-02-21 ॥


‘दक्षिणे मरणाद्याति स्वर्गं ब्रहमोत्तरायणे’ । इत्युक्तेऽपि ज्ञानिनो दक्षिणायनोत्क्रान्तिर्युज्यते ॥’
‘शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः ।तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ॥ते सर्वे देहसम्बद्धाः सर्वदा सर्वदेहिनाम् ।महर्लोकादिगन्तरा उत्तरायणरश्मिभिः ।निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः ॥उत्तरं दक्षिणमिति त एव तु निगद्यते ।न तु कालविशेषोऽस्ति ज्ञानिनां नियमात् फलम् ॥ददाति कालेऽनुगुणे फलं किञ्चिद्विशिष्यते ।अत्युत्तमानां केषाञ्चिन्न विशेषोऽस्ति कालतः’इति नारायणाध्यात्मे ॥ 21 ॥

प्रतिस्मरणाधिकरणम् (योगिनोऽधिकरणम्/योग्यधिकरणम्)

(525)ओं योगिनः प्रति स्मर्येते स्मार्ते चैते ओम् ॥ 04-02-22 ॥


न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ? ज्ञानयोगिनः कर्मयोगिनश्च ।
‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।तत्र चान्द्रमासं ज्योतिर्योगी प्राप्य निवर्तते’(भ.गी.८.२४-२५) इत्यत्र ‘योगी’ ति विशेषणात् । स्मरणनिमित्ते चैते गती ।
‘गत्यनुस्मरणाद् ब्रह्म चन्द्रं वा गच्छति ध्रुवम् ।अननुस्मरतः काले स्मरणं प्राप्य वैगतिः’इति (हि) अध्यात्मे ॥ 22 ॥

तृतीयः पादः

मार्गो गम्यं चास्मिन् पाद उच्यते –

अर्चिराद्यधिकरणम्

(526)ओम् अर्चिरादिना तत्प्रथितेः ओम् ॥ 04-03-01 ॥


‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्नः आपूर्यमाणपक्षम्’(छां.उ.५.१०.१) इत्यर्चिषः प्राथम्यं श्रूयते । ‘यदा ह वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति’(बृ.उ.७.१०.१) इति वायोः ।
तत्रार्चिषः प्राप्तिरेव प्रथमा ।
‘द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम् ।धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥
‘अग्निर्ज्योतिरिति द्वेधैर्वार्चिषः सम्प्रतिष्ठतिः ।अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन्’ ॥ इति । एकस्मिन्स्तुपुरे संस्थो द्विरूपोऽग्नेः सुतो महान्’इति च ब्रह्मतर्के॥

वायुगत्यधिकरणम्

(527)ओं वायुशब्दादविशेषविशेषाभ्याम् ओम् ॥ 04-03-02 ॥


अर्चिषो वायुं गच्छति ।‘स वायुमागच्छति’(बृ.उ.७.१०.१) इति सामान्यवचनात् ।
‘स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्न आपूर्यमाणपक्षम्’() इति विशेषवचनाच्च ॥ 02 ॥

तटिदधिकरणम्

(528)ओं तटितोऽधि वरुणः सम्बन्धात् ओम् ॥ 04-03-03 ॥


‘मासेभ्यः संवत्सरं, संवत्सराद् वरुणलोकं, वरुणलोकात् प्रजापतिलोकम्’इति कौण्डिन्यश्रुतिः ।
‘संवत्सरात् तटितमागच्छति तटितः प्रजापतिलोकम्’इति च गौपवनश्रुतिः ॥
‘तत्र तटितो वरुणं गच्छति ।
‘तटिता ह्यूह्यते वरुणलोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति’ इत्युपरिसम्बद्धत्वश्रुतेः ॥ 03 ॥

आतिवाहिकाधिकरणम्

(529)ओम् आतिवाहिकस्तल्लिङ्गात् ओम् ॥ 04-03-04 ॥


पूर्वत्रोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ॥ 04 ॥
(530)ओम् उभयव्यामोहत् तत्सिद्धेः ओं॥ 04-03-05 ॥


कुतः ? –
‘स वायुमागच्छति’(बृ.उ.७.१०.१) इति प्रथममुच्यते ।‘उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युतमेवान्तत उपगच्छति द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इत्यन्तेऽपि वायुगमनश्रुतेः । पूर्वोक्त आतिवाहिकः परो वेति व्यामोहे(व्यामोहः- वा.रा.पाठ), उत्तरे दिवस्पतिरिति विशेषणात् पूर्वत्राऽतिवाहिकस्यैव सिद्धेः
ब्रह्मतर्के च – ‘उत्क्रान्तस्तु शरीरात् स्वाद् गच्छत्यर्चिषमेव तु ।ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽऽतिवाहिकः ॥ततोऽहः पूर्वपक्षं चाप्युदक् संवत्सरं तथा ।तटितं वरुणं चैव प्रजापं सूर्यमेव च ॥सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा ।ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्’ इति ॥ 05 ॥

वैद्युताधिकरणम्

(531)ओं वैद्युतेनैव ततस्तच्छ्रुतेः ओम् ॥ 04-03-06 ॥


प्रकारान्तरेण तत्र तत्रोच्यमानत्वाद् वायोरपि परतो ब्रह्मणोऽर्वाग् गन्तव्योऽस्तीति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव ‘स एनान् ब्रह्म गमयति’(छांउ.४.१५.६) इति ब्रह्मगमनश्रुतेः ।
‘विद्युत्पतिर्वायुरेव नयेद् ब्रह्म न चापरः । कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति बृहत्तन्त्रे ॥ 06 ॥

कार्याधिकरणम्

(532)ओं कार्यं बादरिरस्य गत्युपपत्तेः ओम् ॥ 04-03-07 ॥


‘स एनान् ब्रह्म गमयति’(छां.उ.५.१०.२) इति कार्यं ब्रह्म गमयतीति बादरिर्मन्यते ।
‘ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् ।यद्यपि ब्रह्मदृष्टिः स्याद् ब्रह्मलोकमवाप्नुयात्’ ॥ इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ॥ 07 ॥
(533)ओं विशेषितत्वाच्च ओम् ॥ 04-03-08 ॥


‘यदि ह वाव परमभिपश्यति, प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति कौषारवश्रुतौ ॥ 08 ॥
(534)ओं सामीप्यात्तु तद्व्यपदेशः ओम् ॥ 04-03-09 ॥


‘ब्रह्मविदाप्नोति परम्’(तै.उ.२.१) इति तद्व्यपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थ एव ॥ 09 ॥
(535)ओं कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ओं॥ 04-03-10 ॥


कदा ? –
‘ते ह ब्रह्माणमभिसम्पद्य यदैतद् विलीयतेऽथ सह ब्रह्मणा परमभिगच्छन्ति’ इति सौपर्णश्रुतेः महाप्रलये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ 10 ॥
(536)ओं स्मृतेश्च ओम् ॥ 04-03-11 ॥


‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।परस्यान्ते परात्मानः प्रविशन्ति परं पदम्’ ॥ इति ॥ 11 ॥
(537)ओं परं जैमिनिर्मुख्यत्वात् ओम् ॥ 04-03-12 ॥


ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ॥ 12 ॥
(538)ओं दर्शनाच्च ओम् ॥ 04-03-13 ॥


दृष्टत्वाच्च परब्रह्मणः ॥ 13 ॥
(539)ओं न च कार्ये प्रतिपत्त्यभिसन्धिः ओम् ॥ 04-03-14 ॥


न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
‘यदुपास्ते पुमान् जीवन् यत् प्राप्तुमभिवाञ्छति ।यच्च पश्यति तृप्तः संस्तत् प्राप्नोति मृतेरनु’ इति पाद्मे ॥ 14 ॥
(540)ओं अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ओम् ॥ 04-03-15 ॥


‘प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् ।न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तु ते ॥अप्रतीका देवतास्तु ऋषीणां शतमेव च ।राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ॥एतेऽधिकारिणो व्याप्तिदर्शनेऽन्ये नतु क्वचित् ।अयोग्यदर्शने यत्नाद् भ्रंशः पूर्वस्य चापि तु ॥अप्रतीकाश्रया ये हि ते यान्ति परमेव तु ।स्वेदेहे ब्रह्म दृष्ट्यैव गच्छेद् ब्रह्मसलोकताम् ।ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम्’ ॥ इति गारुडवचनात् ।
उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति । ‘स यथाकामो भवति तत्क्रतुर्भवति, यत्क्रतुर्भवति तत् कर्म कुरुते, यत् कर्म कुरुते तदभिसम्पद्यते’(बृ.उ.६.४.५) इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ॥ 15 ॥
(541)ओं विशेषं च दर्शयति ओम् ॥ 04-03-16 ॥


‘अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः, देवा वाव सर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मानुषा एव बहिःप्रकाशाः’ इति चतुर्वेदशिखायाम् ॥ 16 ॥

चतुर्थः पादः

भोगमाहास्मिन् पादे-

सम्पद्याधिकरणम्

(542)ओं सम्पद्याविहाय स्वेन शब्दात् ओम् ॥ 04-04-01 ॥


‘स य एवंविदेवं मन्वान एवं पश्यन्नात्मनमभिसम्पद्यैतेनात्मना यथाकामं सर्वान् कामाननुभवति’ इति सौपर्णश्रुतिः ।
‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’(छांउ.८.३.४) इति च ।
‘एतं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति’(छां.उ.८.४.२) इति च । तत्र तरणं नाम तत् प्राप्तयेऽन्यतरणमेव ।
‘इमां घोरामशिवां नदीं तीर्त्वैतं सेतुमाप्य एतेनैव सेतुना मोदते प्रमोदत आनन्दी भवति’() इति मौद्गल्यश्रुतेः ॥ 01 ॥

मुक्ताधिकरणम्

(543)ओं मुक्तः प्रतिज्ञानात् ओम् ॥ 04-04-02 ॥


मुक्त एव चात्रोच्यते ।
‘अहरहरेनमनुप्रविशत्युपसङ्क्रमे च न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मोदते च प्रमोदते च कामांश्चैवानुभवति’ इति बृहच्छ्रुतौ प्रतिज्ञानात् ॥ 02 ॥

आत्माधिकरणम्

(544)ओम् आत्मा प्रकरणात् ओम् ॥ 04-04-03 ॥


परञ्ज्योतिशब्देन परमात्मैवोच्यते । तत्प्रकरणत्वात् ।
‘परञ्ज्योतिः परं ब्रह्म परमात्मादिका गिरः ।सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथञ्चन’ ॥ इति च ब्रह्माण्डे ॥ 03 ॥

अविभागाधिकरणम्

(545)ओम् अविभागेन दृष्टत्वात् ओम् ॥ 04-04-04 ॥


ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैः भुज्यन्ते ।
‘यानेवाहं श्रुणोमि यान् पश्यामि यान् जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति’() इति दृष्टत्वाच्चतुर्वेदशिखायाम् ।
भविष्यत्पुराणे च – ‘मुक्ताः प्राप्य परं विष्णुं तद्भोगान् लेशतः क्वचित् ।बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन’ इति ॥ 04 ॥

चितिमात्राधिकरणम् (ब्रह्माधिकरणम्)

(546)ओं ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ओम् ॥ 04-04-05 ॥


सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगान् भुञ्जते इति जैमिनिर्मन्यते ।
‘स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा श्रुणोति ब्रह्मणैवेदं सर्वमनुभवति’ इति माध्यन्दिनायनश्रुतावुपन्यासात् ।
‘आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।गच्छेच्च हरिपादेन(पादाभ्यां) मुक्तस्यैषा स्थितिर्भवेत्’ इति स्मृतेः ॥
‘गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् ।इत्यादि पूर्वस्मरणान्मुक्तस्यैतद् भविष्यति’ इति बृहत्तन्त्रोक्तयुक्तेश्च ॥ 05 ॥
(547)ओं चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ओम् ॥ 04-04-06 ॥


चितिमात्रो देहो मुक्तानां पृथग् विद्यते तेन भुञ्जते । सर्वं वा एतदचित् परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते’ इत्युद्दालकश्रुतेश्चिदात्मकत्वादित्यौडुलोमिर्मन्यते ॥ 06 ॥
(548)ओम् एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ओम् ॥04-04-07॥


‘स वा एष एतस्मान्मर्त्याद् विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभिश्रुणोत्यभिमनुतेऽभिविजानाति तामाहुर्मुक्तिः’ इति सौपर्णश्रुतौ ।
चिन्मात्रेणाप्युपन्यासाज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते ।
‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् ।कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः’ इति ॥ 07 ॥

सङ्कल्पाधिकरणम्

(549)ओं सङ्कल्पादेव च तच्छ्रुतेः ओम् ॥ 04-04-08 ॥


न तेषां भोगादिषु प्रयत्नापेक्षा । ‘स यदि पितृलोककामो भवति । सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’(छांउ.८.२.१) इत्यादिश्रुतेः ॥ 08 ॥

अनन्याधिपत्यधिकरणम्

(550)ओम् अत एव चानन्याधिपतिः ओम् ॥ 09-550 ॥


सत्यसङ्कल्पत्वादेव ।
‘परमोऽधिपतिस्तेषां विष्णुरेव न संशयः ।ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ॥ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ।आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् । एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशयः’ इति वाराहे ॥ 09 ॥

अभावाधिकरणम् (उभयविधभोगाधिकरणम्)

(551)ओम् अभावं बादरिराह ह्येवम् ओम् ॥ 04-04-10 ॥


चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बादरिः ।
अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यते’ इत्येवं कौण्ठरव्यश्रुतावाह हि ॥ 10 ॥
(552)ओं भावं जैमिनिर्विकल्पाम्नानात् ओम् ॥ 04-04-11 ॥


‘स वा एष एवंवित् परमभिपश्यत्यभिशृणोति ज्योतिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथानन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृशति’ इत्यौद्दालकश्रुतौ विकल्पाम्नानाद् अन्यदेहस्यापि भावं जैमिनिर्मन्यते ॥ 11 ॥
(553)ओं द्वादशाहवदुभयविधं बादरायणोऽतः ओम् ॥ 04-04-12 ॥


यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति, एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवतीति बादरायणो मन्यते ॥ 12 ॥
(554)ओं तन्वभावे सन्ध्यवदुपपत्तेः ओम् ॥ 04-04-13 ॥


उपपत्तिश्च-
सन्ध्यं स्वप्नः ।‘सन्ध्यं तृतीयं स्वप्नस्थानम्’(बृ.उ.६.३.९) इति श्रुतेः ॥ 13 ॥
(555)ओं भावे जाग्रद्वत् ओम् ॥ 04-04-14 ॥


ब्रह्मवैवर्ते च – ‘स्वप्नस्थानं यथा भोगो विना देहेन युज्यते ।एवं मुक्तावपि भवेद् विना देहेन भोजनम् ॥स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।स्वीकृत्य जागरितवद् भुक्त्वा त्यागः कदाचन’ इति ॥ 14 ॥
(556)ओं प्रदीपवदावेशस्तथा हि दर्शयति ओम् ॥ 04-04-15 ॥


शरीरमनुप्रविश्यापि तत् प्रकाशयन्तः पुण्यानेव भोगाननुभवन्ति । न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टः, तत् स्थं तैलाद्येव भुङ्ते, न तु तत् कार्ष्ण्यादि । ‘तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति’(बृ.उ.६.३.२२) इति हि दर्शयति ॥ 15 ॥
न च ‘स्वर्गे लोके न भयं किञ्चनास्ति’(क.उ.१.१२) इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः –
(557)ओं स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ओम् ॥ 04-04-16 ॥


सुप्तौ मोक्षे वा तदुच्यते ।‘अत्र पिताऽपिता भवति’, ‘अनन्वागतं पुण्येनान्वागतं पापेन’(बृ.उ.६.३.२२) इत्याद्याविष्कृतत्वात् ॥
ब्रह्मवैवर्ते च- ‘ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः ।भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन ॥तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः(निवृत्तसर्वदोषास्ते पुण्यपापादिवर्जिताः) ।सर्वदोषनिवृत्तास्ते गुणमात्रस्वरूपिणः’ इति ॥ 16 ॥

सर्वकामाधिकरणम् (जगद्व्यापाराधिकरणम्)

(558)ओं जगद्व्यापारवर्जम् ओम् ॥ 04-04-17 ॥


‘सर्वान् कामानाप्त्वाऽमृतःसमभवत्’(ऐ.आ.२.५.४) इत्युच्यते । तत्र सृष्ट्यादिभ्योऽन्यानाप्नोति ॥ 17 ॥
(559)ओं प्रकरणादसन्निहितत्वाच्च ओम् ॥ 04-04-18 ॥


कुतः ? –
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च ।
वाराहे च- ‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते ॥तद्योग्यता नैव तेषां कदाचित् क्वापि विद्यते ।न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत्’ इति ॥ 18 ॥
(560)ओं प्रत्यक्षोपदेशादिति चेन्नाऽधिकारिकमण्डलस्थोक्तेः ओम् ॥ 04-04-19 ॥


‘ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति’(तै.उ.१.५) इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्यस्तीति चेत्,
न । आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते ।
गारुडे च- ‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् ।केचिदत्रैव मुच्यन्ते नोत् क्रामन्ति कदाचन ॥अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन ।केचित् स्वर्गे महर्लोके जने तपसि चापरे ॥केचित् सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ।तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः ॥सालोक्यं च सरूपत्वं सामीप्यं योग एव च ।इमामारभ्य सर्वत्र यावत् सुक्षीरसागरे ॥पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ।मानुषा वर्णभेदेन तथैवाऽश्रमभेदतः ॥क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः ॥रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तमोत्तमाः ।नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ॥सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ।पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ॥स्वजगद्व्यापृतिस्तेषां पूर्ववत् समुदीरिता ।सयुजः परमात्मानं प्रविश्य च बहिर्गताःचिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन ।भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृता’ इति ॥ 19 ॥
(561)ओं विकारावर्ति च तथाहि दर्शयति ओम् ॥ 04-04-20 ॥


विकारावर्तिव्यापारो मुक्तानां न विद्यते । ‘इमं मानवमावर्तं नाऽवर्तन्ते’(छांउ.४.१५.६) इति हि श्रुतिः ।
वाराहे च – स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् ।बलिं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ॥सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः ।न विकाराधिकारस्तु मुक्तानामन्य एव तु ।विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना’ इति ॥ 20 ॥

स्थित्य(एकरूपा)धिकरणम्

(562)ओं स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ओम् ॥ 04-04-21 ॥


‘एतत् साम गायन्नास्ते’(तै.उ.३.१०) इत्युच्यते । तत्राऽनन्दादीनां वृद्धिर्ह्रासश्च न विद्यते। एकप्रकारेणैव सर्वदा स्थितिः ।
‘स एष एतस्मिन्(तै.उ.३.१०) ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवाऽत्मानं तस्यैवं दर्शयतो नाऽपत्तिर्न विपत्तिः’() इत्याह जाबालश्रुतौ ।
‘यत्र गत्वा न म्रियते यत्र गत्वा न जायते । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते’ इति मोक्षधर्मे ॥
विद्वत् प्रत्यक्षात् कारणभावल्लिङ्गाच्च ।
ब्रह्मवैवर्ते च – ‘न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् ।विद्वत्प्रत्यक्षसिद्धत्वात् कारणाभावतोऽनुमा ॥हरेरुपासना चात्र सदैव सुखरूपिणी ।न तु साधनभूता सा सिद्धिरेवात्र सा यतः’ इति ॥ 21 ॥
(563)ओं भोगमात्रसाम्यलिङ्गाच्च ओम् ॥ 04-04-22 ॥


न च भोगविशेषादिविरोधः ।‘एतमानन्दमयमात्मानमनुविश्य न जायते न म्रियते न ह्रसते न वर्धते यथाकामं चरति यथाकामं पिबति यथाकामं रमते यथाकाममुपरमते’(तै.उ.२.८) इति भोगमात्रसाम्यलिङ्गात् ।
‘अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् ।कादाचित्कविशेषस्तु नैव तेषां विषिध्यते’ इति कौर्मे ॥
‘प्रवाहतस्तु वृद्धिर्वा ह्रासो वा नैव कुत्रचित् ।नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ॥ कुत एव तु दुःखं स्यात् सुखमेव सदोदितम् । भोगानां तु विशेषे तु वैचित्र्यं लभ्यते क्वचित्’

अनावृत्यधिकरणम्

(564)ओम् अनावृत्तिः शब्दादनावृत्तिः शब्दात् ओम् ॥ 04-04-23 ॥


‘नच पुनरावर्तते नच पुनरावर्तते’(छां.उ.८.१५.१),‘सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्’(ऐ.आ.२.५.१-१५) इत्यादिश्रुतिभ्यः ॥ 23 ॥
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलंबट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुःमध्वो यत् तु तृतीयमेतदमुना भाष्यं कृतं केशवे (तृतीयकं कृतमिदं भाष्यं हरौ तेन हि) ॥
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं श्रीमद्ब्रह्मसूत्रभाष्यं समाप्तम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥