Jump to content

Page values for "Bruhadaranyaka"

"Verses__NEXT" values

6 rows are stored for this page
FieldField typeValue
document_idStringBR
chapter_idStringBR_C01
verse_idStringBR_C01_S01_V01
verse_typeStringmantra
verse_textTextउषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो माꣳसानि ऊवध्यꣳ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद् विजृम्भते तद् विद्योतते यद् विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringBR
chapter_idStringBR_C01
verse_idStringBR_C01_S01_V02
verse_typeStringmantra
verse_textTextअहर्वा अश्वं पुरस्ताद् महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुः । हयो भूत्वा देवानवहद् वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringBR
chapter_idStringBR_C01
verse_idStringBR_C01_S02_V01
verse_typeStringmantra
verse_textTextनैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीद् अशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्तार्चतो ह वै मे कमभूदिति तदेवार्कस्यार्कत्वं कꣳह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringBR
chapter_idStringBR_C01
verse_idStringBR_C01_S02_V02
verse_typeStringmantra
verse_textTextआपो वा अर्कस्तद् यदपाꣳशर आसीत् तत्समहन्यत सा पृथिव्यभवत्तस्यामश्राम्यत् तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringBR
chapter_idStringBR_C01
verse_idStringBR_C01_S02_V03
verse_typeStringmantra
verse_textTextस त्रेधाऽऽत्मानं व्यकुरुताऽदित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितः । तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरस्स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥३॥
commentariesList of String, delimiter: ,
FieldField typeValue
document_idStringBR
chapter_idStringBR_C01
verse_idStringBR_C01_S02_V04
verse_typeStringmantra
verse_textTextसोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनꣳ समभवदशनायां मृत्युस्तद् यद् रेत आसीत् स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान् संवत्सरस्तमेतावतः कालस्य परस्तादसृजत तं जातमभिव्याददात् स भाणमकरोत् सैव वागभवत् ॥ ४ ॥
commentariesList of String, delimiter: ,