Jump to content

Anuvyakhyana

From Grantha
(Redirected from Anuvyakhyana/C1/S2)
अनुव्याख्यानम्

प्रथमाध्यायः

प्रथमः पादः

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥1॥
तमेव शास्त्रं प्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥2॥
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥3॥
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥4॥
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥5॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधाऽन्यत्र सर्वशः ॥6॥
अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते । स्वयङ्कृताऽपि तद्य्वाख्या क्रियते स्पष्टतार्थतः ॥7॥
तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥8॥

जिज्ञासाधिकरणम्

ओतत्ववाची ह्योङ्कारो वक्त्यसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥9॥


जन्माधिकरणम्

अन्तस्समुद्रगं विश्वप्रसूतेः कारणं तु यत् । सूक्तोपनिषदाद्युक्तं ‘जन्माद्यस्य’ इति लक्ष्यते ॥89॥


शास्त्रयोनित्वाधिकरणम्

एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते । शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ॥112॥


समन्वयाधिकरणम्

उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः । त एवान्वयनामानः तैः सम्यक् प्रविचारिते ॥120॥


ईक्षत्यधिकरणम्

ईक्षणीयत्वतो विष्णुर्वाच्य एव न चान्यथा ॥121॥


आनन्दमयाधिकरणम्

एवं शास्त्रवगम्यत्वे विभागेन समन्वयम् ॥154॥


अन्तस्थत्वाधिकरणम्

............ देवानां तत्र शक्तताम् । आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥242॥


आकाशाधिकरणम्

चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ॥244॥


प्राणाधिकरणम्

.............अध्यात्ममन्वयव्यतिरेकतः ॥246॥


गायत्र्यधिकरणम्

नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः । कथं प्रसिद्धबहुलशब्दानामन्यथार्थता ॥248॥


अन्तिमप्राणाधिकरणम्

.........बाहुल्ये श्रुतिलिङ्गयोः ॥249॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

सर्वगतत्वाधिकरणम्

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ॥ १ ॥

चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ।

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ॥1॥


अत्तृत्वाधिकरणम्

अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता । इति चेत् स विशेषोऽपि क्रियाशक्त्यात्मना स्थिरः ॥6॥


गुहाधिकरणम्

........ द्वित्वं चैकस्य युज्यते । यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥10॥


अन्तरधिकरणम्

अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः । रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥11॥


अन्तर्याम्यधिकरणम्

रमणं नातियत्नस्य विक्षेपादेव युज्यते ॥15॥


अदृश्यत्वाधिकरणम्

गुणक्रियादयो भावा यदि वा स्युरभेदिनः ॥17॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

तत्रान्यत्र प्रसिद्धानां(तत्रान्यत्र च सिद्धानां) लिङ्गानाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्त्यजः ॥1॥

द्युभ्वाद्यधिकरणम्

विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्त्यखिलेशत्वात् .............॥


द्युभ्वाद्यधिकरणम्

...............भूमा विष्णुः सुखाधिकः ॥2॥


अक्षराधिकरणम्

अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥3॥


वामनाधिकरणम्

लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः । पुनः शब्दा लिङ्गशब्दौ विचार्या द्विःस्थिता इह ॥7॥


देवताधिकरणम्

तत्फलाय विधिः सिद्धे चोपासाया निराकृतः । यतो जैमिनिनाऽन्यार्थमसिद्धेऽर्थे विधिस्तथा ॥15॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

।आनुमानिकाधिकरणम्

दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥1॥


ज्योतिरुपक्रमाधिकरणम्

जातमोतं हरौ यस्माज्ज्योतिः, षः प्राणरूपतः ॥12॥


प्रकृत्यधिकरणम्

स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः । विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ॥22॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थः पादः ॥

द्वितीयोध्यायः

प्रथमः पादः

उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते । चतुर्विधस्य तस्यादौ यौक्तः तत्रापि च स्मृतेः ॥1॥
तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमागमात् ॥2॥
आप्तता समतादृष्टिश्रुतिसाम्यबलोद्भवाः(बलाद्भवाः) । सर्वानुसारो लघुता विशेषादर्शनाफले ॥3॥
इष्टासिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः । एता एव त्वतिबलाः सिद्धान्तस्य नियामकाः ॥4॥

स्मृत्यधिकरणम्

आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः । पिपीलिकालिपिनिभा वारयेत् सर्वगा हि ते ॥5॥


न विलक्षणत्वाधिकरणम्

........ नित्यत्वात् पुरुषोद्भवैः । उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥13॥


अभिमान्यधिकरणम्

तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ॥62॥


असदधिकरणम्

अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी । यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ॥68॥


भोक्त्रधिकरणम्

नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ॥86॥


आरम्भणाधिकरणम्

...... कथं च तदनन्यता । जगतस्त्वविकारत्व उक्तन्यायेन साधिते ॥89॥


इतरव्यपदेशाधिकरणम्

अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनम् । कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥96॥


शब्दमूलत्वाधिकरणम्

तस्य त्वशेषशक्तित्वाद्युज्यते सर्वमेव च ॥101॥


न प्रयोजनाधिकरणम्

सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥104॥


वैषम्यनैर्घृण्याधिकरणम्

वैषम्यं चैव नैघृण्यं वेदाप्रामाण्यकारणम् ॥112॥


सर्वधर्मोपपत्त्यधिकरणम्

यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ॥113॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥1॥
एवं चतुर्विधा नैव विरुद्ध्यन्तेऽन्वयं प्रति । इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ॥2॥
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः । अनादिकालतो वृत्ताः समया हि प्रवाहतः ॥3॥
न चोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः । भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ॥4॥
तर्कैर्दृढमतमैरेव वाक्यैश्चागमवादिनाम् । दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ॥5॥
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः । विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥6॥
अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥7॥
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । सुयुक्तयस्तमो हन्युरागमानुगताः सदा ॥8॥
इति विद्यापतिः सम्यक्समयानां निराकृतिम् । चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥9॥

रचनानुपपत्त्यधिकरणम्

चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ॥10॥


अन्यत्राभावाधिकरणम्

साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥32॥


अभ्युपगमाधिकरणम्

चार्वकैरुच्यते मानमक्षजं नापरं क्वचित् ॥40॥


पुरुषाश्माधिकरणम्

सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ॥46॥


अन्यथानुमित्यधिकरणम्

अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्न चाखलिम् । तत्प्रेरणेऽप्यशक्तत्वात् स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥49॥


वैशेषिकाधिकरणम्

नित्यज्ञानप्रयत्नेच्छं सङ्ख्याद्यैरपि पञ्चभिः ॥53॥


समुदायाधिकरणम्

वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् । अणूनां समुदायं च कालकर्मनिमित्ततः ॥180॥


असदधिकरणम्

अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥212॥


अनुपलब्ध्यधिकरणम्

ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते । तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ॥245॥


नैकस्मिन्नधिकरणम्

आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥249॥


पत्युरधिकरणम्

सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥266॥


उत्पत्त्यधिकरणम्

निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते महती देवी ह्रीङ्कारी सर्वकारणम् ॥292॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन् अधिदैवाधिभूतजीवपरात्मनाम् ॥1॥
स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥2॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥3॥
दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता ॥4॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥5॥
उत्पत्तिमत्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥6॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥7॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥8॥
विशेषकारणं चेति सिद्धान्तस्यैव साधिकाः ।

वियदधिकरणम्

प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः(देवास्तदभिमानिनः) ॥9॥


मातरिश्वाधिकरणम्

एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुर्नित्यसमः शरीरोत्पत्तिकारणात् ॥20॥


असम्भवाधिकरणम्

...... स्वतन्त्रत्वात् परात्मनः ॥24॥


व्यतिरेकाधिकरणम्

अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥25॥


पृथगधिकरणम्

एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमिति पूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥28॥


अंशाधिकरणम्

भेदस्य मुक्तौ वचनादापि तत्पक्षनिग्रहः ॥81॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥1॥
करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः । विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ॥2॥
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ।

युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥

युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥3॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य चतुर्थः पादः ॥

तृतीयाध्यायस्य

प्रथमः पादः

स्वाभाविकान्यथानामसहभावान्ययोक्तयः ॥1॥
अविशेषविशेषौ च सहभाIो विमिश्रता । विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥ 2 ॥
युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ । उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ॥3॥
योग्यता बलवत्त्वं च विभागः कारणाभवः । क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥4॥
बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् । अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः । स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥
गुणसाम्यमयोगश्च तर्कबाधो विलोमता । नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥
अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च । अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् । अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥

सन्ध्याधिकरणम्

वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥


देहयोगाधिकरणम्

सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ॥107॥


सम्पत्त्यधिकरणम्

सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा । जीवं नयति देवेशः नान्यः कर्ताऽस्य कश्चन ॥108॥


नस्थानतोऽप्यधिकरणम्

न स्थानतोभेदतोऽप्यस्य भेदः कश्चित् परेशितुः । सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥


उपमाधिकरणम्

यत आभासतामेव श्रुतिरस्य वदत्यलम् । ‘‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’’ ॥121॥


स्थानविशेषाधिकरणम्

प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ॥163॥


पालकत्वाधिकरणम्

..... सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ॥166॥


अव्यक्ताधिकरणम्

अव्यक्तोऽपि स्वशक्यैव भक्तानां दृश्यते हरिः ॥167॥


उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्)

तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥168॥


परानन्दाधिकरणम्

.... ते चाखलिवलिक्षणाः । सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ॥209॥


फलाधिकरणम्

स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेत् विष्णोरिति पादक्रमो भवेत् ॥1॥
युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं(धे) च प्रणुद्याशेषवाक्यगम् ॥2॥
अध्यात्मप्रवणो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः ॥3॥
विरोधं च निराकृत्य श्रुतीनां प्राणतत्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥4॥
देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥5॥
निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥6॥
सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥7॥
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये । अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥8॥
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदाताऽसावतो जिज्ञास्य एव वः ॥9॥
इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् । येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ॥10॥
सुप्रसन्नो भवेदीशो जिज्ञासाऽतोऽस्य मुक्तिदा । मोक्षादिदत्वमीशस्य कथमेवावगम्यते ॥11॥
इति चेच्छास्त्रयोनित्वात् शास्त्रगम्यो हि मोक्षदः । प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ॥12॥
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः । यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ॥13॥
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः । अनुमागम्यतो मोक्षो यदि स्यादनुमैव हि ॥14॥
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् । तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ॥15॥
शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् । मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ॥16॥
वर्तमानः कथं शक्तः परमोक्षाय केवलम् । अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ॥17॥
तेन नानुसृतो मोक्षं न दद्यादन्यवाक्यतः । अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षुभिः ॥18॥
‘यमेवैष’ इति श्रुत्या ‘तमेवे’ति च सादरम् । शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥19॥
‘य एनं विदुरमृता’ इत्युक्तस्तु समुद्रगः । ‘तदेव ब्रह्म परममि’ति श्रुत्यावधारितः ॥20॥
‘यतः प्रसूते’ति ततः सृष्टिमाह ततो हरिः । शास्त्रयोनिर्न चान्योऽस्ति मुख्यतस्त्विति गम्यते ॥21॥
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् । समिति ह्युपसर्गेन परमुख्यार्थतोच्यते ॥22॥
एवं परममुख्यार्थो नारायण इति श्रुतेः । निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥23॥
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् । ‘वेदा ह्यनन्ता’ इति हि श्रुतिराहाप्यनन्ताम् ॥24॥
अनन्तवेदनिर्णीतिर्महाप्रलयवारिधेः । उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥25॥
इत्याशङ्कापनोदार्थं(इति शङ्कापनोदार्थं) स आह करुणाकरः । अशक्योत्तारणत्वेऽपि(अशक्योत्तरणत्वेऽपि) ह्यागमापारवारिधेः ॥26॥
निर्णीयते मयैवायं रोमकूपलयोदिना । यद्यप्यशेषवेदार्थो दुर्गमोऽखलिमानवैः ॥27॥
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् । इति प्रकाशयन् (वेद)विश्वपतिराह प्रमेयताम् ॥28॥
निखलिस्यापि वेदस्य गतिसामान्यमञ्जसा । को नाम गतिसामान्यमनन्तागमसम्पदः ॥29॥
ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् । अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ॥30॥
जानन्ननुमितत्वेन ब्रूयात् तस्य प्रसादतः । इति मुख्यतयाऽशेषगतिसामान्यवित् प्रभुः ॥31॥
प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते । अतो निखलिवेदानां सिद्ध एव समन्वयः ॥32॥
इति सुज्ञापितार्थोऽपि पृथक् चाह समन्वयम् । तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ॥33॥
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् । इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ॥34॥
महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि । ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ॥35॥
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा । अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ॥36॥
प्रवृत्तः प्रथमं देवः तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥37॥
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥38॥
अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः । विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥39॥
इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः । ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥40॥
तेषामन्यगतत्वे तु न स्यात् सम्यक्समन्वयः । इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥41॥
आह उभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥42॥
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥43॥
शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता । अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥44॥
यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागतः । अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥45॥
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः । मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥46॥
इत्याह एवं च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥47॥
विरोधादवरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥48॥
परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥49॥
अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे । द्वितीयो जीव एवास्ति स्वातन्त्र्यान्न तु(च) दूषणम् ॥50॥
हरेरेवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ॥51॥
अतोऽशेषविरोधानां कृतेशेन निराकृतिः । समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ॥52॥
किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः । तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ॥53॥
उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥54॥
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥55॥
तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धैव विस्तरात् श्रुतिपूर्वकम् ॥56॥
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥57॥
विभ्रमोपाकृतिर्लिङ्गमनवस्थाविशेषिता । अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥58॥
विशिष्टकारणं चेष्टां दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥59॥
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शितालापो गुणसाम्यं पृथग्दृशिः ॥60॥
अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥61॥
युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥62॥
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥63॥
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥64॥
संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥65॥
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥66॥
अविघ्नत्वाविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णया ह्येता युक्तयो व्याहृताः सदा ॥67॥

सर्ववेदान्तप्रत्ययाधिकरणम्

यथाशक्त्यखिलान् वेदान् विज्ञायोपासनं भवेत् । तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मणः एव हि ॥68॥


उपसंहाराधिकरणम्

कृत्वाऽथ कुर्वन्नपि वा निदिध्यासनमाचरेत् ॥97॥


नवाधिकरणम्(अनुबन्धाद्यधिकरणम्)

विषयेषु च संसर्गात् शाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात् परं न प्रतिपद्यते ॥98॥


विद्याधिकरणम्

नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ॥122॥


यावदधिकाराधिकरणम्

अधिकारविशेषेण भक्तिज्ञानसुखादिभिः । विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥187॥


इयदामननाधिकरणम्

उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ॥192॥


दर्शनभेदाधिकरणम्

..... दृष्टिरिति योग्यानुसारतः ॥203॥


प्रदानाधिकरणम्

सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।


गुरुप्रसादाधिकरणम्

श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥204॥


पूर्वविकल्पाधिकरणम्

गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् । विपर्ययस्तु कर्तव्यः सर्वथा शुभ(मुक्ति)मिच्छता ॥205॥


ताद्विद्याधिकरणम्

साधनेभ्योऽधिका भक्तिर्नैवान्यत् तादृशं क्वचित् ॥209॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

एवमुत्पन्ननिर्दोषभगवद्दर्शनात् सदा । अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥1॥
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः । जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥2॥
सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः । बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥3॥

कामचाराधिकरणम्

विकर्मलेपो नैवस्ति सम्यग्दृष्टिमतां क्वचित् । गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥4॥


आधिकारिकाधिकरणम्

अनादियोग्यता चैव कलिवाणीश्वरावधिम् ॥111॥


फलश्रुत्यधिकरणम्

स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् । अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात् प्रीतितो हरेः ॥255॥


अन्वयाधिकरणम्

ज्ञानदा अपि चाचार्या विशेषात् फलमाप्नुयुः । ‘मुक्तावष्टगुणं शिष्याद् गुरुराप्नोति शोचनम् ॥271॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य चतुर्थः पादः ॥

चतुर्थाध्यायस्य

प्रथमः पादः

समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने । विचारितेष्वशेषेषु साधनेषु विशेषतः ॥1॥
नित्यशः कार्यमत्यन्तमवश्यम्भावि साधनम् । चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥2॥
आवृत्तिर्वेति सन्देहे कर्तव्यावृत्तिरेव हि । उपदेशोऽतत्त्वमसीत्यादि ह्यसकृदेव यत् ॥3॥
‘लिङ्गाल्लातव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतात् । शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥4॥
सार्धं परार्धं विष्णोस्तु गुणान् भक्त्या सदोद्यतः । तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥5॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः । पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ॥6॥
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्टयम् । सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ॥7॥
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्टयम् । अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥8॥
ततः प्रोक्तास्तु ते सर्वे भक्त्योग्रतपआदयः । अपश्यन् परमं विष्णुं तत्प्रसादैधिताः(तत्प्रसादेधिताः) सदा ॥9॥
इत्युक्तं विष्णुना साक्षात् ग्रन्थे सत्तत्त्वसञ्ज्ञिते । आत्मेति नाम कथितं साक्षान्नारायणस्य हि ॥10॥

आत्माधिकरणम्

‘आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः । विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते’ ॥11॥


न प्रतीकाधिकरणम्

प्रतीकविषयत्वेन न कार्या विष्णुभावना ॥19॥


ब्रह्माधिकरणम्

ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा । उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मतां यतः ॥35॥


तदधिगमाधिकरणम्

तथोपास्यञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ॥63॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥

द्वितीयः पादः

देवानां च मनुष्याणामेतावत्सममेव हि ॥1॥
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः । कर्मक्षयस्तथोत्क्रान्तिर्मार्गो भोगश्चतुष्टयम् ॥2॥
फलं मोक्ष इति प्रोक्तः क्रमात् पादेषु चोदितः । स्रष्टृष्वेव च(तु) सृज्यानां प्रवेशो ब्रह्मणो लये ॥3॥
देवानां मार्ग उद्दिष्टो नार्चिरादिर्न चोत्क्रमः । स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ॥4॥
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् । लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ॥5॥
कथं मार्गो भवेत् तेषां विशतामुत्तरं(विशतामुत्तमं) स्वतः । जातानां मानुषे लोके देवानां तु(च) कदाचन ॥6॥
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ।

अन्येषामपि साक्षाततु मुक्तिः प्राप्यापि तं हरिम् ॥

सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥7॥
‘क्ष्माम्भोऽनलानलिवियन्मनइन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः(भाग.३.३२.९) ॥8॥
एवं परेत्य भगवन्तमनुप्रविष्टाः ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः(भाग.३.३२.१०) ॥9॥
‘भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह । परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः’ ॥10॥
‘प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः । आनन्दव्यक्तिमायान्ति पूर्णा लिङ्गस्य भङ्गतः’ ॥11 ॥
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् । भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥12॥
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् । उच्यते देहगानां च वृत्तीनामेवमेव तु ॥13॥
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् । नाना वदन्ति पुंसां हि मतयो गुणभेदतः ॥14॥
पृथक् पृथक् प्रजायन्ते तमसैवान्यथामतिः । रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथामतिः ॥15॥
गुणातीता विमुक्तानां मतिः शुद्धिचितिर्यतः । सम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ॥16॥
बहुला चातिविशदा स्पष्टा चैव श्रियो मतिः । महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ॥17॥
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ॥18॥
सूर्यप्रभावदखिलं भासयन्ती निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥19॥
विशेषांस्तद्गतांस्त्यक्त्वा प्रायस्तल्लक्षणा श्रियः । तथैव स्पष्टताभावात् तत्तन्त्रत्वात् तु(च) केवलम् ॥20॥
न तादृशी ब्रह्मणस्तु एवं श्रियो यथा । मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥21॥
अग्निज्वालावदेव स्यात् सृतिगानां दृशो भवः । एवंविधेषु ज्ञानेषु तमसा मुष्टदृष्टयः ॥22 ॥
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः । वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥23॥
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् । ज्ञानात् कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥24॥
पञ्जरोन्मुक्तखगवदलोकाकाशगोचरः । नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥25॥
इति तत्केन मानेन मोक्षरूपं प्रदर्श्यते(प्रदृश्यते) । गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ॥26॥
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् । अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ॥27॥
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः । प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ॥28॥
उपाधिः प्रतिरूपं हि साधनं तन्न चापरम् । अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ॥29॥
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् । आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ॥30॥
नापसिद्धन्तता दोषः प्रसङ्गे यदि सा भवेत् । तदैवातिप्रसङ्गः स्यान्न प्रसङ्गः क्वचिद्भवेत् ॥31॥
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः । सोऽपीत्युक्ते वदेत् किं स तस्माद्वेदोदितो भवेत् ॥32॥
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् । चकार सौगतमतं मोहायैव चकार यत् ॥33॥
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् । अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥34॥
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥35॥
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः । ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ॥36॥
न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा । एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥37॥
तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः । दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ॥38॥
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते । न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥39॥
निर्विशेषं स्वयम्भातं विर्लेपमजरामरम् । शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥40॥
अशेषदोषरहितं मनोवाचामगोचरम् । मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिवर्जितम् ॥41॥
संसृत्यवस्था विज्ञेया(विज्ञेयं) संवृत्यैव विशिष्यते(विशेष्यते) । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥42॥
केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा । अवच्छिन्नं महाशून्यं नाना पुद्गलशब्दितम् ॥43॥
यस्य शून्यैकरसता ज्ञानात्मा त्वपगच्छति । स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥44॥
संवृत्त्या यस्त्ववच्छिन्नो(संवृत्याऽन्यस्त्ववच्छिन्नः) दुःखान्यनुभवत्यलम् । इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥45॥
बहुजीवमताश्चेति माया तेषां तु संवृतिः । निर्विशेषत्ववाचैव शून्यं ब्रह्मेति नो भिदा(ब्रह्मैव तो भिदा) ॥46॥
सच्चित्यसुखादिकं चैव किं कुतोऽखण्डवादिनः । व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥47॥
अनृतादेरपोहं तु स्वयमेव हि मन्यते । निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥48॥
प्रामाण्यादि च वेदस्य फलतः सममेव हि । अतत्त्वावेदकं यस्मात् प्रमाणं तेन कथ्यते ॥49॥
अतत्त्वावेदकं यदप्रामाण्यं सतां मतम् । दीर्घभ्रान्तिकरी चेत् स्यादतत्त्वावेदकप्रमा ॥50॥
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता । स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥51॥
तलनैल्यादिविज्ञानमाकाशे मानतां व्रजेत् । छत्राकारत्वविज्ञानं चन्द्रप्रादेशतामतिः ॥52॥
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा । सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥53॥
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते । न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥54॥
मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च । धर्माः केऽपि(धर्मास्तेऽपि) न सन्त्येव को विशेषस्ततस्तयोः ॥55॥
एतादृशानां पक्षाणां दूषणं प्रभुणा कृतम् । स्वपक्षसाधनेनैव ‘नाभाव’ इति चोक्तितः ॥56॥
आत्माभावे पुमर्थः क इष्टस्यात्माऽऽवधिर्यतः । यदि नात्मावधिर्मोक्षो मोक्षः स्याद्धटशून्यता ॥57॥
कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् । दृश्यमाने विशेषेऽपि यदि चेदविशेषता ॥58॥
घटाभावोऽविशेषः स्यात् पाश्चात्यश्चेदनागतः । न मोक्षो विमतो यस्माददेहो घटशून्यता ॥59॥
यथेत्युक्तो वदेत् किं स योनुमामात्रमानकः । न च मायी वदेत् तत्र पूर्वोक्तेनैव वर्त्मना ॥60॥
अमानत्वात् श्रुतेस्तस्य न चादेहत्ववादिनी । श्रुतिः काचिददेहत्वमप्राकृतशरीरताम् ॥61॥
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः । निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ॥62॥
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः । दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ॥63॥
भेदे सद्द्वैततैव स्यादित्याद्यमितदोषतः । हेयं मायामतेनैव सह शून्यमतं बुधैः ॥64॥
एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः । तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ॥65॥
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् । कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् ॥66॥
एतयाऽनुमया रोधान्न तादृङ्मोक्षरूपता । यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ॥67॥
किं वक्ष्यति यदावस्थां वदेत् सा पक्षतां व्रजेत् । अवस्थात्वादिति ह्येव हेतुः साऽपि कदेति च ॥68॥
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् । न काल इति सामान्यनिषेधे कालगप्रमा ॥69॥
निरुणद्धि समश्चायं त्रयाणामुक्तवादिनाम् । एकजीवत्वपक्षे तु कालाभावादियं प्रमा ॥70॥
कुपिता कालमाधाय द्वैतमेवोपपादयेत् । विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् ॥71॥
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् । कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ॥72॥
निराकृतानि तेषां च समत्वात् पक्षदोषयोः । ज्ञानं स्वरसभङ्ग्येव नित्यसन्तानमिष्यते ॥73॥
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः । मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ॥74॥
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् । अनुमानानि सर्वाणि प्रतिसाधनयोगतः ॥75॥
निषिद्धान्युक्तभङ्ग्यैव श्रुतयश्चास्मदुक्तिगाः । साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं च(तु) निःसुखम् ॥76॥
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् । तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ॥77॥
महानन्दं च भोगं च नियमेन वदन्ति हि । प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ॥78॥
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् । नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ॥79॥
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः । हेयत्वादप्रियस्यैव प्रियहानेरनिष्टतः ॥80॥
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते । अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ॥81॥
असुरा नैवमेवं च नैवं चाखलिमानुषाः । इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥82॥
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि । धर्मानुच्छित्तिमेवास्य यतो वक्त्युत्तरश्रुतिः ॥83॥
आशङ्क्यास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ॥84॥
इत्युक्त्वा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् । ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यत् ॥85॥
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ॥86॥
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः । आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ॥87॥
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः । येनेदमखिलं वेद विज्ञातारं स्वमेव च ॥88॥
केन तं च विजानीयादित्यनिष्टं हि सर्वथा । नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ॥89॥
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् । प्रत्यक्षमात्मविज्ञानाविरोधानुभवादपि ॥90॥
न स्वविज्ञानितायां च विरोधः कश्चनेष्यते । कर्तृकर्मविरोधश्च नित्यानुभवरोधतः ॥91॥
कथमेव पदं गच्छेद्विरोधोऽदृष्टबाधनम् । ‘सोऽश्नुते सर्वकामांश्च’ ‘कामान्नी कामरूप्यथ’ ॥92॥
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि । अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ॥93॥
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः । ‘अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः’ ॥94॥
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् । सुखादिधर्महानौ तु मुक्तेः किं च प्रयोजनम् ॥95॥
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् । तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ॥96॥
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः । यतते सुखहानौ हि को मोक्षाय यतेत् पुमान् ॥97॥
अल्पाच्च सुखनाशाद्धि बिभेत्यतितरां जनः । महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥98॥
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् । नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ॥99॥
युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुर्वते । ‘यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ॥100 ॥
अपि नैवाजहुर्युद्धरसात् ते नारदादयः’ । इति स्कान्दवचनस्तस्मात् सुखाभावाय को यतेत् ॥101॥
विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्झितः । प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥102॥
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा । मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥103॥
‘सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम्’ । ‘निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ॥104॥
परमानन्दमाप्नोति यत्र कामोऽवसीयते’(भाग.११.१५.१७) । ‘न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ॥105॥
न वेदसदृशं वाक्यं न वर्णोङ्कारसंमितः’ । ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥106॥
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ । इति श्रुतिपुराणानि तत्र तत्र वदन्ति हि ॥107॥
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि । शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् ॥108॥
श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥109॥
‘न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥110॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥111॥
प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥112॥
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रवलिभिर्यथा नभः । श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’(भाग.२.९.१०-१३) ॥113॥
‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः’(ऋ.सं.१०.७१.११) ॥114॥
कामान्नरूपी चरतीतिपूर्व श्रुत्या पुराणोक्तिभिरप्यदोषः । देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥115॥
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् । यथेति पूर्वा अनुमाश्च जीव स्वरूपमङ्गादिकमावयन्ति(आपयन्ति) ॥116॥
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् । स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥117॥
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरूपत्वमवाप्य कामान् । भुङ्क्ते स देवः(दैवं) पुरुषोत्तमोऽजः आत्मेति चोक्तो गुणपूर्तिहेतोः ॥118॥
सेतुः स देवोऽखिलमुक्तिभाजामुतामृतस्येष्ट इहेशिता यत् । इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतोऽपि भोगान् ॥119॥
कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् । इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥120॥
कथं च यः पूर्वमसौ न पश्चाद्भवेत् स एवेत्यपि युक्तिमेति । यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित् ॥121॥
न चैव मुक्तौ न(तु) हरेः पृथक्त्वमैक्यं तथा स्यादिति युक्तिमेति । यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥122॥
इत्थं मतानि भ्रमजानि यस्मात् मोक्षं समुद्देश्यमपि भ्रमेण । विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥123॥
औदार्यमुच्चावचशक्तिरात्मस्वरूपदार्ढ्यं च निजस्वभावः । स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥124॥
व्यवस्थितिस्त्वविशेषस्थितिश्च निषेधसामान्यविधिक्रियाणाम् । विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥125॥
सुशक्यता शश्वदतिप्रसिद्धिर्विवेक(प्रसिद्धिविवेक)विन्यासविचारसञ्ज्ञाः । नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥126॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् । विशेषकार्यं कृतिसंस्थितिश्च(कृतसंस्थितिश्च) सुयुक्तयो निर्णयगाः स्वपक्षे ॥127॥
व्यामिश्रता कार्यकरत्वमर्थक्लृप्तिः सुदार्ढ्यं परतन्त्रता च । समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥128॥
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमाविशेषः । कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥129॥

नैकस्मिन्नधिकरणम्

प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या । यस्मात् श्रुतौ पवते चेति भूरिप्रोक्तो यतो भूतमानी च सोऽपि ॥130॥


पराधिकरणम्

तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ॥131॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य द्वितीयः पादः ॥

तृतीयः पादः

उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ॥1॥
सान्तनिकप्राप्तिरभीष्टता च सौकर्यमित्यन्यमतस्य तर्काः । विशेषसमप्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ॥2॥

कार्याधिकरणम्

सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः । उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ॥3॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य तृतीयः पादः ॥

चतुर्थः पादः

अतिक्रमोक्तिः कृतिरर्थलाभः परागतिः पारगतिस्तदोकः ॥1॥
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षके ।

सामान्यरूपं प्रतिभानमुक्तिराश्चर्यता कृत्रिमतास्तदोषः ॥2॥

विशेषक्लृतिः कृतनिश्चयश्च माहात्म्यमित्येव सुनिर्णयार्थाः ।

अनन्याधिपत्त्यधिकरणम्

अनन्यभृत्यत्वमिहोदितेभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ॥3॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य चतुर्थः पादः ॥